मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय १०

3
द्वितीयस्कन्धः · 10

परीक्षिन्मरणम्

सूत उवाच

तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् ।

शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः

॥१॥

वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः ।

अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति

॥२॥

तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् ।

क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति

॥३॥

कश्यप उवाच

परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति ।

तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम्

॥४॥

मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल ।

जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल

॥५॥

तक्षक उवाच

अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।

निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्

॥६॥

कश्यप उवाच

अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै ।

जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै

॥७॥

तक्षक उवाच

यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् ।

मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ

॥८॥

धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै ।

कश्यप उवाच ।

जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम

॥९॥

सूत उवाच

अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् ।

उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम

॥१०॥

दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना ।

सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत्

॥११॥

पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम ।

जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष

॥१२॥

इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः ।

सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा

॥१३॥

तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः ।

विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम्

॥१४॥

तमाह कश्यपं नागः किमर्थं ते परिश्रमः ।

सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम्

॥१५॥

कश्यप उवाच

वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः ।

गृहादहं चोपकर्तुं विद्यया नृपसत्तमम्

॥१६॥

तक्षक उवाच

वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् ।

ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः

॥१७॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् ।

चिन्तयामास मनसा किं करोमि पुनः पुनः

॥१८॥

धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः ।

भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात्

॥१९॥

जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम ।

धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात्

॥२०॥

रक्षणीयं यशः कामं धिग्धनं यशसा विना ।

सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये

॥२१॥

हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् ।

उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना

॥२२॥

जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च ।

अराजके प्रजानाशो भविता नात्र संशयः

॥२३॥

प्रजानाशस्य पापं मे भविष्यति मृते नृपे ।

अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति

॥२४॥

इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः ।

गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः

॥२५॥

आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः ।

गृहं ययौ स धर्मात्मा धनमादाय तक्षकात्

॥२६॥

निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् ।

हन्तुकामो जगामाशु नगरं नागसाह्वयम्

॥२७॥

शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् ।

मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम्

॥२८॥

चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः ।

चिन्तयामास योगेन प्रविशेयं गृहं कथम्

॥२९॥

वञ्जयामि कथं चैनं राजानं पापकारिणम् ।

विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम्

॥३०॥

पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् ।

तापसस्य गले येन मृतः सर्पो निवेशितः

॥३१॥

कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः ।

रक्षकान्भवने कृत्वा प्रासादमभिगम्य च

॥३२॥

मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः ।

तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः

॥३३॥

न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् ।

तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते

॥३४॥

यदि वै विहितो मृत्युर्दैवेनामिततेजसा ।

स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः

॥३५॥

पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः ।

जीवने मतिमास्थाय स्थितः स्थाने निराकुलः

॥३६॥

दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा ।

धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत्

॥३७॥

नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः ।

मरणं स्वर्गलोकाय नरकायान्यथा भवेतू

॥३८॥

द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः ।

विप्रशापस्तथा घोर आसन्ने मरणे किल

॥३९॥

न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् ।

वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा

॥४०॥

इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् ।

कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान्

॥४१॥

फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः ।

स्वयं च कीटरूपेण फलमध्ये ससार ह

॥४२॥

निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः ।

ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ

॥४३॥

रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् ।

ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात्

॥४४॥

अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् ।

परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा

॥४५॥

निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् ।

कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच

॥४६॥

भारतानां कुले वापि न दृष्टा द्वाररक्षकाः ।

न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल

॥४७॥

आरोहामो वयं तत्र यत्र राजा परीक्षितः ।

आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे

॥४८॥

सूत उवाच

इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः ।

प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा

॥४९॥

नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः ।

श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये

॥५०॥

अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः ।

विप्रशापभयाद्राज्ञा विहितोऽस्ति न संशयः

॥५१॥

तदोचुस्तानथो विप्राः फलमूलजलानि च ।

विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः

॥५२॥

ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः ।

राजोवाचानयध्वं वै फलमूलादिकं च यत्

॥५३॥

पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः ।

प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम

॥५४॥

ते गत्वाथ समादाय फलमूलादिकं च यत् ।

राज्ञे समर्पयामासुर्बहुमानपुरःसरम्

॥५५॥

गतेषु तेषु नागेषु विप्रवेषावृतेषु च ।

फलान्यादाय राजासौ सचिवानिदमब्रवीत्

॥५६॥

सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः ।

अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत्

॥५७॥

इत्युक्त्वा तत्फलं दत्त्वा सुहृद्भ्यश्चोत्तरासुतः ।

करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम्

॥५८॥

विदारितं फलं राज्ञा तत्र कृमिरभूदणुः ।

स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम्

॥५९॥

तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ ।

अस्तमभ्येति सविता विषादद्य न मे भयम्

॥६०॥

अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् ।

एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत्

॥६१॥

अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः ।

तक्षकस्तु तदा जातः कालरूपी भयानकः

॥६२॥

राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः ।

मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः

॥६३॥

घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः ।

चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत्

॥६४॥

वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः ।

नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः

॥६५॥

उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् ।

प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह

॥६६॥

हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः ।

जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह

॥६७॥

स पपात गतप्राणो राजा दग्ध इव द्रुमः ।

चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम्

॥६८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ द्वितीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः ॥ १० ॥