परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम्
परीक्षिदुवाच
कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे ।
पिता पप्रच्छ दीनं तं किं रुरो विमना असि
॥१॥स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे ।
कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति
॥२॥स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् ।
प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम्
॥३॥ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि ।
विवाहार्थं च सम्भारं रचयामासतुर्वने
॥४॥प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ ।
बभूवतुर्महात्मानौ समीपस्थौ तपोवने
॥५॥तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे ।
प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना
॥६॥दष्टा तु पन्नगेनाथ सा ममार वराङ्गना ।
कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम्
॥७॥मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः ।
भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः
॥८॥रुरोद विगतप्राणां दीप्यमानां सुतेजसा ।
रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः
॥९॥ददर्श पतितां तत्र सजीवामिव कामिनीम् ।
रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान्
॥१०॥रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः ।
अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः
॥११॥मम शर्मविघाताय दुःखहेतुरयं किल ।
किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा
॥१२॥न वै जीवितुमिच्छामि वियुक्तः प्रिययानया ।
नालिङ्गिता वरारोहा न मया चुम्बिता मुखे
॥१३॥न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा ।
लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह
॥१४॥मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः ।
दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि
॥१५॥सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् ।
प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम्
॥१६॥विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् ।
विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः
॥१७॥उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे ।
मरणात्किं फलं मे स्यादात्महत्या दुरत्यया
॥१८॥दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता ।
दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम्
॥१९॥सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः ।
उपकारः प्रियायाः कः परलोके भवेदपि
॥२०॥मृते मय्यात्मघातेन विरहात्पीडितेऽपि च ।
परलोके प्रिया सापि न मे स्यादात्मघातिनः
॥२१॥एतदर्थं मृते दोषा मयि नैवामृते पुनः ।
विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः
॥२२॥अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः ।
यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम्
॥२३॥गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् ।
अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि
॥२४॥रविराराधितस्तेन सञ्जीवतु मम प्रिया ।
यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः
॥२५॥इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः ।
राजोवाच ।
एवं विलपतस्तस्य भार्यया दुःखितस्य च
॥२६॥देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः ।
देवदूत उवाच ।
माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया
॥२७॥गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता ।
अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता
॥२८॥किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह ।
रुरुरुवाच ।
देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम्
॥२९॥यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया ।
राजोवाच ।
विदित्वेति हठं तस्य देवदूतो मुदान्वितः
॥३०॥उवाच वचनं तथ्यं सत्यं चातिमनोहरम् ।
उपायं शृणु विप्रेन्द्र विहितं यत्सुरैः पुरा
॥३१॥आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् ।
रुरुरुवाच ।
आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः
॥३२॥अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया ।
विश्वावसुस्तदा तत्र विमानेन समागतः
॥३३॥ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् ।
ततो गन्धर्वराजश्च देवदूतश्च सत्तमः
॥३४॥धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ।
धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा
॥३५॥मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना ।
सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज
॥३६॥समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः ।
धर्म उवाच ।
विश्वावसुसुतां कन्यां देवदूत यदीच्छसि
॥३७॥उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय ।
राजोवाच ।
एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम्
॥३८॥रुरोः समर्पयामास देवदूतस्त्वरान्वितः ।
ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता
॥३९॥इत्थं चोपाययोगेन मृताप्युज्जीविता तदा ।
उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसम्मतः
॥४०॥मणिमन्त्रौषधीभिश्च विधिवत्प्राणरक्षणे ।
इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्षकान्
॥४१॥कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ।
आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम्
॥४२॥मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे ।
प्रेषयामास भूपालो मुनिं गौरमुखं ततः
॥४३॥प्रसादार्थं सेवकस्य क्षमस्वेति पुनः पुनः ।
ब्राह्मणान्सिद्धमन्त्रज्ञान् रक्षणार्थमितस्ततः
॥४४॥मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः ।
न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षिते
॥४५॥वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते ।
भक्ष्यभोज्यादिकं राजा तत्रस्थश्च चकार सः
॥४६॥स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च ।
राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः
॥४७॥मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि ।
कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः
॥४८॥शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना ।
स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत्
॥४९॥व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह ।
इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि
॥५०॥कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः
॥५१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां द्वितीयस्कन्धे परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥