मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ३

3
द्वितीयस्कन्धः · 3

प्रतीपसकाशाच्छन्तनुजन्मादिवर्णनम्

उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः ।

सत्यवत्यास्तथा सूत विस्तरेण त्वयाऽनघ

॥१॥

तथाऽप्येकस्तु संदेहश्चित्तेऽस्माकं सुसंस्थितः ।

न निवर्तति धर्मज्ञ कथितेन त्वयाऽनघ

॥२॥

माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा ।

सा कथं नृपतिं प्राप्ता शंतुनुं धर्मवित्तमम्

॥३॥

निषादपुत्रीं स कथं वृतवान्नृपतिः स्वयम् ।

धर्मिष्ठः पौरवो राजा कुलहीनामसंवृत्ताम्

॥४॥

शंतनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना ।

भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः

॥५॥

त्वया प्रोक्तं पुरा सूत राजा चित्रांगदः कृतः ।

सत्यवत्याः सुतो वीरो भीष्मेणामित तेजसा

॥६॥

चित्रांगदे हते वीरे कृतस्तदनुजस्तथा ।

विचित्रवीर्यनामाऽसौ सत्यवत्याः सुतो नृपः

॥७॥

ज्येष्ठे भीष्मे स्थिते पूर्वे धमिष्ठं रूपवत्यपि ।

कृतवान्स कथं राज्यं स्थापितस्तेन जानता

॥८॥

मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता ।

वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम्

॥९॥

कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी ।

न कृतस्तु कथं तेन वीरेण दारसंग्रहः

॥१०॥

अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा ।

ज्येष्ठेन भ्रातृभार्यायां पुत्रानुत्पादिताविति

॥११॥

पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः ।

सेवनं परदाराणां भ्रातुश्चैव विशेषतः

॥१२॥

जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः ।

शिष्टाचारः कथं सूत वेदानुमितिकारक

॥१३॥

व्यास शिष्योऽसि मेधाविन्संदेहं छेत्तुमर्हसि ।

श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः

॥१४॥

सूत उवाच

इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः ।

सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः

॥१५॥

अश्वमेधसहस्रेण वाजपेयशतेन च ।

तोषयामास देवेंद्रं स्वर्गं प्राप महामतिः

॥१६॥

एकदा ब्रह्मसदनं गतो राजा महाभिषः ।

सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम्

॥१७॥

गंगा महानदी तत्र संस्थिता सेवितुं विभुम् ।

तस्या वासः समुद्धूतं मारुतेन तरस्विना

॥१८॥

अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः ।

राजा महाभिषस्तां तु निःशंकः समपश्यत

॥१९॥

साऽपि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी ।

दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ

॥२०॥

ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषाऽन्वितः ।

मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम्

॥२१॥

पुण्येन महताऽऽविष्टस्त्वमवाप्स्यसि सर्वथा ।

गंगां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे

॥२२॥

विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोंऽतिकात् ।

स नृपश्चिंतयित्वाऽथ भूलोके धर्मतत्परान्

॥२३॥

प्रतीपं चिंतयामास पितरं पुरुवंशजम् ।

एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः

॥२४॥

वसिष्ठस्याऽऽश्रमं प्राप्ता रममाणा यदृच्छया ।

पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः

॥२५॥

द्यौर्नामा तस्य भार्याऽथ नंदिनीं गां ददर्श ह ।

दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा

॥२६॥

द्यौस्तामाह वसिष्ठस्य गौरियं शृणु सुंदरि ।

दुग्धमस्याः पिबेद्यस्तु नारी वा पुरषोऽथ वा

॥२७॥

अयुतायुर्भवेन्यूनं सदैवाऽगतयौवनः ।

तच्छ्रुत्वा सुंदरी प्राह मृत्युलोकेऽस्ति मे सखी

॥२८॥

उशीनरस्य राजर्षेः पुत्री परमशोभना ।

तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम्

॥२९॥

आनयस्वाऽऽश्रमश्रेष्ठं नंदिनीं कामदां शुभाम् ।

यावदस्याः पयः पीत्वा सखी मम सदैव हि

॥३०॥

मानुषेषु भवेदेका जरारोगविवर्जिता ।

तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नंदिनीम्

॥३१॥

अवमन्य मुनिं दांतं पृथ्वाद्यैः सहितोऽनघः ।

हृतायामथ नंदिन्यां वसिष्ठस्तु महातपाः

॥३२॥

आजगामाऽऽश्रमपदं फलान्यादाय सत्वरः ।

नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः

॥३३॥

मृगयामास तेजस्वी गह्वरेषु वनेष्वपि ।

नासादिता यदा धेनुश्चुकोपातिशयं मुनिः

॥३४॥

वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् ।

वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै

॥३५॥

तस्मात्सर्वे जनिष्यंति मानुषेषु न संशयः ।

एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम्

॥३६॥

श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते ।

शप्ताः स्म इति जानंत ऋषिं तमुपचक्रमुः

॥३७॥

प्रसादयंतस्तमृषिं वसव शरणं गताः ।

मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरः स्थितान्

॥३८॥

अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ ।

येनेयं विहृता धेनुर्नंदिनी मम वत्सला

॥३९॥

तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति ।

ते शप्ताः पथि गच्छतीं गंगां दृष्ट्वा सरिद्वराम्

॥४०॥

ऊचुस्तां प्रणताः सर्वे शप्तां चिंतातुरां नदीम् ।

भविष्यामो वयं देवि कथं देवाः सुधाशनाः

॥४१॥

मानुषाणां च जठरं चिंतेयं महती हि नः ।

तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे

॥४२॥

शंतनुर्नाम राजर्षिस्तस्य भार्या भवानघे ।

जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे

॥४३॥

एवं शापविनिर्मोक्षो भविता नात्र संशयः ।

तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः

॥४४॥

गंगाऽपि निर्गता देवी चिंत्यमाना पुनः पुनः ।

महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा

॥४५॥

शंतनुर्नाम राजर्षिर्धर्मात्मा सत्यसंगरः ।

प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः

॥४६॥

तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी ।

दक्षिणं शालसंकाशमूरुं भेजे शुभानना

॥४७॥

अंके स्थितां स्त्रियं चाह मापृष्ट्वा किं वरानने ।

ममोरावास्थिताऽसि त्वं किमर्थं दक्षिणे शुभे

॥४८॥

सा तमाह वरारोहा यदर्थं राजसत्तम ।

स्थिताऽस्म्यंके कुरुश्रेष्ठ कामयानां भजस्व माम्

॥४९॥

तामवोचदथो राजा रूपयौवनशालिनीम् ।

नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम्

॥५०॥

स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि ।

अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते

॥५१॥

स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते ।

भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः

॥५२॥

तथेत्युक्ता गता सा वै कामिनी दिव्य दर्शना ।

राजा चापि गृहं प्राप्तश्चिंतयंस्तां स्त्रियं पुनः

॥५३॥

ततः कालेन कियता जाते पुत्रे वयस्विनि ।

वनं जिगमिषू राजा पुत्रं वृत्तांतमूचिवान्

॥५४॥

वृत्तांतं कथयित्वा तु पुनरूचे निजं सुतम् ।

यदि प्रयाति सा बाला त्वां वने चारुहासिनी

॥५५॥

कामयाना वरारोहा ता भजेथा मनोरमाम् ।

न प्रष्टव्या त्वया काऽसि मन्नियोगान्नराधिप

॥५६॥

धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल ।

सूत उवाच ।

एवं संदिश्य तं पुत्रं भूपतिः प्रीतमानसः

॥५७॥

दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह ।

तत्रापि च तपस्तप्त्वा समाराध्य परांबिकाम्

॥५८॥

जगाम स्वर्गं राजाऽसौ देहं त्यक्त्वा स्वतेजसा ।

राज्यं प्राप महातेजाः शंतनुः सार्वभौमिकम्

॥५९॥

प्रजां वै पालयामास धर्मदंडो महीपतिः

॥६०॥

इति श्रीदेवीभागवते महापुराणे द्वितीयस्कंधे तृतीयोऽध्यायः ॥ ३ ॥