युधिष्ठिरादीनामुत्पत्तिवर्णनम्
सूत उवाच
एवं सत्यवती तेन वृता शन्तनुना किल ।
द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि
॥१॥व्यासवीर्यात्तु सञ्जातो धृतराष्ट्रोऽन्ध एव च ।
मुनिं दृष्ट्वाथ कामिन्या नेत्रसम्मीलने कृते
॥२॥श्वेतरूपा यतो जाता दृष्ट्वा व्यासं नृपात्मजा ।
व्यासकोपात्समुत्पन्नः पाण्डुस्तेन न संशयः
॥३॥सन्तोषितस्तया व्यासो दास्या कामकलाविदा ।
विदुरस्तु समुत्पन्नो धर्मांशः सत्यवाक् शुचिः
॥४॥राज्ये संस्थापितः पाण्डुः कनीयानपि मन्त्रिभिः ।
अन्धत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः
॥५॥भीष्मस्यानुमते राज्यं प्राप्तः पाण्डुर्महाबलः ।
विदुरोऽप्यथ मेधावी मन्त्रकार्ये नियोजितः
॥६॥धृतराष्ट्रस्य द्वे भार्ये गान्धारी सौबली स्मृता ।
द्वितीया च तथा वैश्या गार्हस्त्येषु प्रतिष्ठिता
॥७॥पाण्डोरपि तथा पत्न्यौ द्वे प्रोक्ते वेदवादिभिः ।
शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा
॥८॥गान्धारी सुषुवे पुत्रशतं परमशोभनम् ।
वैश्याप्येकं सुतं कान्तं युयुत्सुं सुषुवे प्रियम्
॥९॥कुन्ती तु प्रथमं कन्या सूर्यात्कर्णं मनोहरम् ।
सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः
॥१०॥ऋषय ऊचुः
किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम ।
जनितश्च सुतः पूर्वं पाण्डुना सा विवाहिता
॥११॥सूर्यात्कर्णः कथं जातः कन्यायां वद विस्तरात् ।
कन्या कथं पुनर्जाता पाण्डुना सा विवाहिता
॥१२॥सूत उवाच
शूरसेनसुता कुन्ती बालभावे यदा द्विजाः ।
कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा
॥१३॥कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता ।
सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी
॥१४॥दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः ।
परिचर्या कृता कुन्त्या मुनिस्तोषं जगाम ह
॥१५॥ददौ मन्त्रं शुभं तस्यै येनाहूतः सुरः स्वयम् ।
समायाति तथा कामं पूरयिष्यति वाञ्छितम्
॥१६॥गते मुनौ ततः कुन्ती निश्चयार्थं गृहे स्थिता ।
चिन्तयामास मनसा कं सुरं समचिन्तये
॥१७॥उदितश्च तदा भानुस्तया दृष्टो दिवाकरः ।
मन्त्रोच्चारं तया कृत्वा चाहूतस्तिग्मगुस्तदा
॥१८॥मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम् ।
अवातरत्तदाकाशात्समीपे तत्र मन्दिरे
॥१९॥दृष्ट्वा देवं समायान्तं कुन्ती भानुं सुविस्मिता ।
वेपमाना रजोदोषं प्राप्ता सद्यस्तु भामिनी
॥२०॥कृताञ्जलिः स्थिता सूर्यं बभाषे चारुलोचना ।
सुप्रीता दर्शनेनाद्य गच्छ त्वं निजमण्डलम्
॥२१॥सूर्य उवाच
आहूतोऽस्मि कथं कुन्ति त्वया मन्त्रबलेन वै ।
न मां भजसि कस्मात्त्वं समाहूय पुरोगतम्
॥२२॥कामार्तोऽस्म्यसितापाङ्गि भज मां भावसंयुतम् ।
मन्त्रेणाधीनतां प्राप्प्तं क्रीडितुं नय मामिति
॥२३॥कुन्त्युवाच
कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम् ।
तवाप्यहं न दुर्वाच्या कुलकन्यास्मि सुव्रत
॥२४॥सूर्य उवाच
लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा ।
वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः
॥२५॥शप्स्यामि तं द्विजं चाद्य येन मन्त्रः समर्पितः ।
त्वां चापि सुभृशं कुन्ति नोचेन्मां त्वं भजिष्यसि
॥२६॥कन्याधर्मः स्थिरस्ते स्यान्न ज्ञास्यन्ति जनाः किल ।
मत्समस्तु तथा पुत्रो भविता ते वरानने
॥२७॥इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् ।
भुक्त्वा जगाम देवेशो वरं दत्त्वातिवाञ्छितम्
॥२८॥गर्भं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता ।
धात्री वेद प्रिया चैका न माता न जनस्तथा
॥२९॥गुप्तः सद्मनि पुत्रस्तु जातश्चातिमनोहरः ।
कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः
॥३०॥द्वितीय इव सूर्यस्तु कुमार इव चापरः ।
करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम्
॥३१॥कां चिन्तां करभोरु त्वमाधत्सेऽद्य स्थितास्म्यहम् ।
मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत्
॥३२॥किं करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम् ।
मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम्
॥३३॥पातुत्वां सगुणागुणा भगवती सर्वेश्वरी चाम्बिका स्तन्यं सैव ददातु विश्वजननी कात्यायनी कामदा ।
द्रक्ष्येऽहंमुखपङ्कजं सुललितं प्राणप्रियार्हं कदा त्यक्त्वा त्वां विजने वने रविसुतं दुष्टा यथा स्वैरिणी
॥३४॥पूर्वस्मिन्नपि जन्मनि त्रिजगतां माता न चाराधिता न ध्यातं पदपङ्कजं सुखकरं देव्याः शिवायाश्चिरम् ।
तेनाहं सुत दुर्भगास्मि सततं त्यक्त्वा पुनस्त्वां वने तप्स्यामि प्रिय पातकं स्मृतवती बुद्ध्या कृतं यत्स्वयम्
॥३५॥सूत उवाव इत्युक्त्या तं सुतं कुन्ती मञ्जूषायां धृतं किल ।
धात्रीहस्ते ददौ भीता जनदर्शनतस्तथा
॥३६॥स्नात्वा त्रस्ता तदा कुन्ती पितृवेश्मन्युवास सा ।
मञ्जूषा वहमाना च प्राप्ता ह्यधिरथेन वै
॥३७॥राधा सूतस्य भार्या वै तयासौ प्रार्थितः सुतः ।
कर्णोऽभूद्बलवान्वीरः पालितः सूतसद्मनि
॥३८॥कुन्ती विवाहिता कन्या पाण्डुना सा स्वयम्वरे ।
माद्री चैवापरा भार्या मद्रराजसुता शुभा
॥३९॥मृगयां रममाणस्तु वने पाण्डुर्महाबलः ।
जघान मृगबुद्ध्या तु रममाणं मुनिं वने
॥४०॥शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च ।
स्त्रीसङ्गं यदि कर्तासि तदा ते मरणं धुवम्
॥४१॥इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः ।
त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः
॥४२॥कुन्ती माद्री च भार्ये द्वे जग्मतुः सह सङ्गते ।
सेवनार्थं सतीधर्मं संश्रिते मुनिसत्तमाः
॥४३॥गङ्गातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च ।
शृण्वानो धर्मशास्त्राणि चकार दुश्चरं तपः
॥४४॥कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् ।
अशृणोद्वचनं राजा सुपृष्टं मुनिभाषितम्
॥४५॥अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप ।
येन केनाप्युपायेन पुत्रस्य जननं चरेत्
॥४६॥अंशजः पुत्रिकापुत्रः क्षेत्रजो गोलकस्तथा ।
कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने
॥४७॥दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः ।
उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः
॥४८॥इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् ।
सुतमुत्पादयाशु त्वं मुनिं गत्वा तपोऽन्वितम्
॥४९॥ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना ।
वसिष्ठाज्जनितः पुत्रः सौदासेनेति मे श्रुतम्
॥५०॥तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः ।
दत्तो दुर्वाससा पूर्वं सिद्धिदः सर्वथा प्रभो
॥५१॥निमन्त्रयेऽहं यं देवं मन्त्रेणानेन पार्थिव ।
आगच्छेत्सर्वथासौ वै मम पार्श्वं निमन्त्रितः
॥५२॥भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्मं सुरोत्तमम् ।
सङ्गम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम्
॥५३॥वायोर्वृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः ।
वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः
॥५४॥माद्री प्राह पतिं पाण्डुं पुत्रं मे कुरु सत्तम ।
किं करोमि महाराज दुःखं नाशय मे प्रभो
॥५५॥प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता ।
एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता
॥५६॥स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ ।
नकुलः सहदेवश्च सुषुवे वरवर्णिनी
॥५७॥एवं ते पाण्डवाः पञ्च क्षेत्रोत्पन्ताः सुरात्मजाः ।
वर्षवर्षान्तरे जाता वने तस्मिन्द्विजोत्तमाः
॥५८॥एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने ।
आश्रमे चातिकामार्तो जग्राहागतवैशसः
॥५९॥मा मा मा मेति बहुधा निषिद्धोऽपितया भृशम् ।
आलिलिङ्ग प्रियां दैवात्पपात धरणीतले
॥६०॥यथा वृक्षगता वल्ली छिन्ने पतति वै द्रुमे ।
तथा सा पतिता बाला कुर्वन्ती रोदनं बहु
॥६१॥प्रत्यागता तदा कुन्ती रुदती बालकास्तथा ।
मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा
॥६२॥मृतः पाण्डुस्तदा सर्वे मुनयः संशितव्रताः ।
सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन्
॥६३॥चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू ।
कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः
॥६४॥जलदानादिकं कृत्वा मुनयस्तत्र वासिनः ।
पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम्
॥६५॥तां प्राप्तां च समाज्ञाय गाङ्गेयो विदुरस्तथा ।
नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः
॥६६॥पप्रच्छुश्च जनाः सर्वे कस्य पुत्रा वरानने ।
पाण्डोः शापं समाज्ञाय कुन्ती दुःखान्विता तदा
॥६७॥तानुवाच सुराणां वै पुत्राः कुरुकुलोद्भवाः ।
विश्वासार्थं समाहूताः कुन्त्या सर्वे सुरास्तदा
॥६८॥आगत्य खे तदा तैस्तु कथितं नः सुताः किल ।
भीष्मेण सत्कृतं वाक्यं देवानां सत्कृताः सुताः
॥६९॥गता नागपुरं सर्वे तानादाय सुतान्वधूम् ।
भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः
॥७०॥एवं पार्थाः समुत्पन्ना गाङ्गेयेनाथ पालिताः
॥७१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे युधिष्ठिरादीनामुत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥