मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ७

3
द्वितीयस्कन्धः · 7

पाण्डवानां कथानकं मृतानां दर्शनवर्णनम्

सूत उवाच

पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता ।

पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः

॥१॥

अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा ।

सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते

॥२॥

तस्यां जातो महावीरो निहतोऽसौ रणाजिरे ।

अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल

॥३॥

अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी ।

कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः

॥४॥

जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् ।

द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च

॥५॥

परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः ।

तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले

॥६॥

निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः ।

तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः

॥७॥

गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् ।

सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः

॥८॥

विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् ।

युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत

॥९॥

धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः ।

पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव

॥१०॥

यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः ।

वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान्

॥११॥

मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे ।

दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम्

॥१२॥

भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः ।

ध्वांक्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः

॥१३॥

एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् ।

आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन्

॥१४॥

अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः ।

धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम्

॥१५॥

अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः ।

पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम्

॥१६॥

वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् ।

न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन्

॥१७॥

ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् ।

गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम्

॥१८॥

एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः ।

धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने

॥१९॥

समाहूय निजान्मर्वानुवाच पृथिवीपतिः ।

धनं दास्ये महाभागाः पित्रे निर्वापकामिने

॥२०॥

तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः ।

संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत्

॥२१॥

धनं देयं महाभाग दुर्योधनहिताय किम् ।

अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम्

॥२२॥

तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् ।

द्रौपदी च महाभागा समानीता दुरात्मना

॥२३॥

विराटभवने वासः प्रसादात्तव सुव्रत ।

दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः

॥२४॥

देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् ।

सूपकारो विराटस्य हत्वाभूवं तु मागधम्

॥२५॥

बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः ।

कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः

॥२६॥

गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ ।

मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम्

॥२७॥

दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा ।

असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम्

॥२८॥

अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे ।

दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः

॥२९॥

कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप ।

न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः

॥३०॥

मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः ।

दुर्योधनादयः कामं शत्रवो निगडीकृताः

॥३१॥

दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि ।

नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया

॥३२॥

इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः ।

ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः

॥३३॥

कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् ।

ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः

॥३४॥

कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः ।

प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च

॥३५॥

सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः ।

पुत्रैर्निवार्यमाणापि शूरसेनसुता गता

॥३६॥

विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः ।

गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम्

॥३७॥

ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् ।

कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः

॥३८॥

गतान्यब्दानि षट् तेषां यदा याता हि तापसाः ।

युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत्

॥३९॥

स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता ।

मनो मे जायते द्रष्टुं मातरं पितरौ तथा

॥४०॥

विदुरं च महात्मानं सञ्जयं च महामतिम् ।

रोचते यदि वः सर्वान् व्रजाम इति मे मतिः

॥४१॥

ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा ।

वैराटी च महाभागा तथा नागरिको जनः

॥४२॥

प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः ।

शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते

॥४३॥

विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा ।

क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः

॥४४॥

विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः ।

कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम्

॥४५॥

गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः ।

ददर्श विदुरं क्षामं तपसा संशितव्रतम्

॥४६॥

दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः ।

तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः

॥४७॥

क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम् ।

लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम्

॥४८॥

क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः ।

दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः

॥४९॥

शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी ।

विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते

॥५०॥

श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले ।

गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात्

॥५१॥

स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह ।

तत्र सत्यवतीसूनुर्नारदश्च समागतः

॥५२॥

मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् ।

कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम्

॥५३॥

कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः ।

मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन

॥५४॥

समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो ।

गान्धार्युवाच ।

दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने

॥५५॥

तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् ।

सुभद्रोवाच ।

अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम्

॥५६॥

द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन ।

सूत उवाच ।

एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः

॥५७॥

प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् ।

सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः

॥५८॥

सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् ।

तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले

॥५९॥

प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा ।

देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम्

॥६०॥

यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा ।

न वित्तपो नैव यमश्च पावक- स्तदासि देवि त्वमहं नमामि ताम्

॥६१॥

जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् ।

मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम्

॥६२॥

इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ ।

स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि

॥६३॥

प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः ।

नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान्

॥६४॥

सूत उवाच

एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी ।

स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान्

॥६५॥

दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा ।

पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान्

॥६६॥

पुनर्विसर्जितास्तेन व्यासेनामिततेजसा ।

स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम्

॥६७॥

तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा ।

राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि

॥६८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥