व्यासजन्मवर्णनम्
सूत उवाच
एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः ।
आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम्
॥१॥निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा ।
प्रापयस्व परं पारं कालिन्द्या उडुपेन माम्
॥२॥दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे ।
उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम्
॥३॥उडुपेन मुनिं बाले परं पारं नयस्व ह ।
गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते
॥४॥इत्युक्ता सा तदा पित्रा मत्स्यगन्धाथ वासवी ।
उडुपे मुनिमासीनं संवाहयति भामिनी
॥५॥व्रजन् सूर्यसुतातोये भावित्वाद्दैवयोगतः ।
कामार्तस्तु मुनिर्जातो दृष्ट्वा तां चारुलोचनाम्
॥६॥ग्रहीतुकामः स मुनिर्दृष्ट्वा व्यञ्जितयौवनाम् ।
दक्षिणेन करेणैनामस्पृशद्दक्षिणे करे
॥७॥तमुवाचासितापाङ्गी स्मितपूर्वमिदं वचः ।
कुलस्य सदृशं वः किं श्रुतस्य तपसश्च किम्
॥८॥त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः ।
किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः
॥९॥दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम ।
तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः
॥१०॥कुलेन शीलेन तथा श्रुतेन द्विजोत्तमस्त्वं किल धर्मविच्च ।
अनार्यभावं कथमागतोऽसि विप्रेन्द्र मां वीक्ष्य च मीनगन्धाम्
॥११॥मदीये शरीरे द्विजामोघबुद्धे ।
शुभं किं समालोक्य पाणिं ग्रहीतुम् ।
समीपं समायासि कामातुरस्त्वं कथं नाभिजानासि धर्मं स्वकीयम्
॥१२॥अहो मन्दबुद्धिर्द्विजोऽयं ग्रहीष्य- ञ्जले मग्न एवाद्य मां वै गृहीत्वा ।
मनो व्याकुलं पञ्चबाणातिविद्धं न कोऽपीह शक्तः प्रतीपं हि कर्तुम्
॥१३॥इति सञ्चिन्त्य सा बाला तमुवाच महामुनिम् ।
धैर्यं कुरु महाभाग परं पारं नयामि वै
॥१४॥सूत उवाच
पराशरस्तु तच्छ्रुत्वा वचनं हितपूर्वकम् ।
करं त्यक्त्वा स्थितस्तत्र सिन्धोः पारं गतः पुनः
॥१५॥मत्स्यगन्धां प्रजग्राह मुनिः कामातुरस्तदा ।
वेपमाना तु सा कन्या तमुवाच पुरःस्थितम्
॥१६॥दुर्गन्धाहं मुनिश्रेष्ठ कथं त्वं नोपशङ्कसे ।
समानरूपयोः कामसंयोगस्तु सुखावहः
॥१७॥इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी ।
कृता योजनगन्धा तु सुरूपा च वरानना
॥१८॥मृगनाभिसुगन्धां तां कृत्वा कान्तां मनोहराम् ।
जग्राह दक्षिणे पाणौ मुनिर्मन्मथपीडितः
॥१९॥ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा ।
मुने पश्यति लोकोऽयं पिता चैव तटस्थितः
॥२०॥पशुधर्मो न मे प्रीतिं जनयत्यतिदारुणः ।
प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी
॥२१॥रात्रौ व्यवाय उद्दिष्टो दिवा न मनुजस्य हि ।
दिवासङ्गे महान् दोषः पश्यन्ति किल मानवाः
॥२२॥कामं यच्छ महाबुद्धे लोकनिन्दा दुरासदा ।
तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः
॥२३॥नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै ।
नीहारे च समुत्पन्ने तटेऽतितमसा युते
॥२४॥कामिनी तं मुनिं प्राह मृदुपूर्वमिदं वचः ।
कन्याहं द्विजशार्दूल भुक्त्वा गन्तासि कामतः
॥२५॥अमोघवीर्यस्त्वं ब्रह्मन् का गतिर्मे भवेदिति ।
पितरं किं ब्रवीम्यद्य सगर्भा चेद्भवाम्यहम्
॥२६॥त्वं गमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत् ।
पराशर उवाच ।
कान्तेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि
॥२७॥वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि ।
सत्यवत्युवाच ।
यथा मे पितरौ लोके न जानीतो हि मानद
॥२८॥कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम ।
पुत्रश्च त्वत्समः कामं भवेदद्भुतवीर्यवान्
॥२९॥गन्धोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम् ।
पराशर उवाच ।
शृणु सुन्दरि पुत्रस्ते विष्ण्वंशसम्भवः शुचिः
॥३०॥भविष्यति च विख्यातस्त्रैलोक्ये वरवर्णिनि ।
केनचित्कारणेनाहं जातः कामातुरस्त्वयि
॥३१॥कदापि च न सम्मोहो भूतपूर्वो वरानने ।
दृष्ट्वा चाप्सरसां रूपं सदाहं धैर्यमावहम्
॥३२॥दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम् ।
तत्किञ्चित्कारणं विद्धि दैवं हि दुरतिक्रमम्
॥३३॥दृष्ट्वाहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् ।
पुराणकर्ता पुत्रस्ते भविष्यति वरानने
॥३४॥वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये ।
सूत उवाच ।
इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः
॥३५॥जगाम तरसा स्नात्वा कालिन्दीसलिले मुनिः ।
सापि सत्यवती जाता सद्यो गर्भवती सती
॥३६॥सुषुवे यमुनाद्वीपे पुत्रं काममिवापरम् ।
जातमात्रस्तु तेजस्वी तामुवाच स्वमातरम्
॥३७॥तपस्येव मनः कृत्वा विविशे चातिवीर्यवान् ।
गच्छ मातर्यथाकामं गच्छाम्यहमतः परम्
॥३८॥तपः कर्तुं महाभागे दर्शयिष्यामि वै स्मृतः ।
मातर्यदा भवेत्कार्यं तव किञ्चिदनुत्तमम्
॥३९॥स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि ।
स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिन्तां सुखं वस
॥४०॥इत्युक्त्वा निर्ययौ व्यासः सापि पित्रन्तिकं गता ।
द्वीपे न्यस्तस्तया बालस्तस्माद्द्वैपायनोऽभवत्
॥४१॥जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः ।
तीर्थे तीर्थे कृतस्तानश्चचार तप उत्तमम्
॥४२॥एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
चकार वेदशाखाश्च प्राप्तं ज्ञात्वा कलेर्युगम्
॥४३॥वेदविस्तारकरणाद्व्यासनामाभवन्मुनिः ।
पुराणसंहिताश्चक्रे महाभारतमुत्तमम्
॥४४॥शिष्यानध्यापयामास वेदान्कृत्वा विभागशः ।
सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च
॥४५॥असितं देवलं चैव शुकं चैव स्वमात्मजम् ।
सूत उवाच ।
एतच्च कथितं सर्वं कारणं मुनिसत्तमाः
॥४६॥सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा ।
संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः
॥४७॥महतां चरिते चैव गुणा ग्राह्या मुनेरिति ।
कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे
॥४८॥पराशरेण संयोगः पुनः शन्तनुना तथा ।
अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत्
॥४९॥अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः ।
सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी
॥५०॥श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा ।
य एतच्छुभमाख्यानं शृणोति श्रुतिमान्नरः
॥५१॥न दुर्गतिमवाप्नोति सुखी भवति सर्वदा
॥५२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे व्यासजन्मवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥