मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ८

3
द्वितीयस्कन्धः · 8

रुरुचरित्रवर्णनम्

सूत उवाच

ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः ।

दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः

॥१॥

सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् ।

श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान्

॥२॥

षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः ।

प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः

॥३॥

ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् ।

क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः

॥४॥

देहं तत्याज रामस्तु कृष्णः कमललोचनः ।

व्याधबाणहतः शापं पालयन्भगवान्हरिः

॥५॥

वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ ।

जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम्

॥६॥

अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः ।

संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह

॥७॥

समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् ।

अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः

॥८॥

देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ ।

अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम्

॥९॥

पुरी सा वासुदेवस्य प्लावितोदधिना ततः ।

अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा

॥१०॥

कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता ।

धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत्

॥११॥

इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा ।

अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा

॥१२॥

व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः ।

पुनर्यदा हरिस्त्वञ्च भवितासि महामते

॥१३॥

तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे ।

तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः

॥१४॥

दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् ।

देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा

॥१५॥

गमनाय मतिं चक्रे राजा हैमाचलं प्रति ।

षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम्

॥१६॥

निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह ।

षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये

॥१७॥

गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः ।

परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः

॥१८॥

अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः ।

बभूव मृगयाशीलो जगाम च वनं महत्

॥१९॥

विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् ।

तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः

॥२०॥

राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके ।

ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः

॥२१॥

नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा ।

मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः

॥२२॥

कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् ।

आरोपिते तथा सर्पे नोवाच मुनिसत्तमः

॥२३॥

न चचाल समाधिस्थो राजापि स्वगृहं गतः ।

तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः

॥२४॥

महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके ।

मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना

॥२५॥

लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर ।

तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा

॥२६॥

शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् ।

पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः

॥२७॥

तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् ।

मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम्

॥२८॥

शापं निवेदयामास मुनिपुत्रेण चार्पितम् ।

अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै

॥२९॥

अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह ।

शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम्

॥३०॥

किं विधेयं मयामात्या उपायश्चिन्त्यतामिह ।

मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः

॥३१॥

यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः ।

उपायवादिनः केचित्प्रवदन्ति मनीषिणः

॥३२॥

विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च ।

मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः

॥३३॥

न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः ।

सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता

॥३४॥

दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः ।

भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः

॥३५॥

प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल ।

दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित्

॥३६॥

दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः ।

विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा

॥३७॥

गृहस्थानां गृहे काममाहूतो वाथवान्यथा ।

यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे

॥३८॥

उद्यमेन विना चास्यादुदरे संविशेत्कथम् ।

प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत्

॥३९॥

तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः ।

मन्त्रिण ऊचुः ।

को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया

॥४०॥

कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् ।

राजोवाच ।

भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी

॥४१॥

तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः ।

च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी

॥४२॥

तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः ।

प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता

॥४३॥

रुरुर्नाम सुतो जातस्तथा परमतापसः ।

तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः

॥४४॥

बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः ।

एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः

॥४५॥

क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी ।

गर्भं विश्वावसोः प्राप्य निर्गता वरवर्णिनी

॥४६॥

स्थूलकेशाश्रमे गत्वा विससर्ज वराप्सराः ।

कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम्

॥४७॥

दृष्ट्वानाथां तदा कन्यां जग्राह मुनिसत्तमः ।

पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम्

॥४८॥

सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता ।

रुरुर्दृष्ट्वाथ तां बालां कामबाणार्दितो ह्यभूत्

॥४९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे रुरुचरित्रवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥