सर्पसत्रवर्णनम्
सूत उवाच
गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च ।
चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः
॥१॥गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् ।
अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन्
॥२॥दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् ।
क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः
॥३॥ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् ।
अन्नं बहुविधं तत्र वस्त्राणि विविधानि च
॥४॥सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् ।
सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन्
॥५॥पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् ।
जनमेजयनामानं राजलक्षणसंयुतम्
॥६॥धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः ।
दिने दिने वर्धमानः स बभूव महामतिः
॥७॥प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः ।
यथोचितां ददौ विद्यां जग्राह स यथोचिताम्
॥८॥धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् ।
अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा
॥९॥सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः ।
धनुर्वेदे तथा वेदे पारगः परमार्थवित्
॥१०॥धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः ।
चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा
॥११॥ततः सुवर्णवर्माख्यो राजा काशिपतिः किल ।
वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च
॥१२॥स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः ।
काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा
॥१३॥विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः ।
विजहार महीपालो वनेषूपवनेषु च
॥१४॥तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा ।
प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः
॥१५॥मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः ।
एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः
॥१६॥तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् ।
वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन्
॥१७॥परीक्षितसुतं मत्वा तं नृपं समुपागतः ।
कार्याकार्यं न जानासि समये नृपसत्तम
॥१८॥अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै ।
किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम्
॥१९॥अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् ।
जनमेजय उवाच ।
किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया
॥२०॥तद्वद त्वं महाभाग करोमि यदनन्तरम् ।
उत्तङ्क उवाच ।
पिता ते निहतो भूप तक्षकेण दुरात्मना
॥२१॥मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् ।
सूत उवाच ।
तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान्
॥२२॥ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः ।
जनमेजय उवाच ।
शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल
॥२३॥तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम ।
उत्तङ्क उवाच ।
तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः
॥२४॥न स किं तक्षको वैरी पितृहा तव भूपते ।
भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता
॥२५॥अविवाहिता तु मुनिना जीविता च पुनः प्रिया ।
रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा
॥२६॥यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै ।
एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा
॥२७॥व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः ।
एकदा स वने घोरं डुण्डुभं जरसान्वितम्
॥२८॥अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ ।
अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः
॥२९॥नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै ।
रुरुरुवाच ।
प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता
॥३०॥प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता ।
डुण्डुभ उवाच ।
नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः
॥३१॥शरीरसमयोगेन न मां हिंसितुमर्हसि ।
उत्तङ्क उवाच ।
श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम्
॥३२॥रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः ।
सर्प उवाच ।
ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः
॥३३॥विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः ।
स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम्
॥३४॥भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः ।
तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना
॥३५॥भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया ।
मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः
॥३६॥मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च ।
रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति
॥३७॥प्रमतेस्तु सुतो नूनमिति मां सोऽब्रवीद्वचः ।
सोऽहं सर्पो रुरुस्त्वं च शृणु मे परमं वचः
॥३८॥अहिंसा परमो धर्मो विप्राणां नात्र संशयः ।
दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता
॥३९॥यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिको मता ।
सूत उवाच ।
सर्पयोनेर्विनिर्मुक्तो बाह्मणोऽसौ रुरुस्ततः
॥४०॥कृत्वा तस्य च शापान्तं परित्यक्तं च हिंसनम् ।
विवाहिता तेन बाला मृता सज्जीविता पुनः
॥४१॥कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन् ।
त्वं तु वैरं समुत्सृज्य वर्तसे पन्नगेष्वथ
॥४२॥विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै ।
अन्तरिक्षे मृतस्तातः स्नानदानविवर्जितः
॥४३॥तस्योद्धारं च राजेन्द्र कुरु हत्वाथ पन्नगान् ।
पितुर्वैरं न जानाति जीवन्नेव मृतो हि सः
॥४४॥दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि ।
अम्बामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम
॥४५॥सर्पसत्रं महाराज पितुर्वैरमनुस्मरन् ।
सूत उवाच ।
इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा
॥४६॥नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः ।
धिङ्मामस्तु सुदुर्बुद्धेर्वृथा मानकरस्य वै
॥४७॥पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः ।
अद्याहं मखमारभ्य करोम्यपचितिं पितुः
॥४८॥हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ ।
आहूय मन्त्रिणः सर्वान् राजा वचनमब्रवीत्
॥४९॥कुर्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः ।
गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः
॥५०॥कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ।
वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खलु
॥५१॥तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः ।
तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः
॥५२॥शीघ्रमाहूयतां विप्राः सर्वज्ञा वेदपारगाः ।
सूत उवाच ।
मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्विचक्षणाः
॥५३॥यज्ञस्य सर्वसम्भारं वेदीं यज्ञस्य विस्तृताम् ।
हवने वर्तमाने तु सर्पाणां तक्षको गतः
॥५४॥इन्द्रं प्रति भयार्तोऽहं त्राहि मामिति चाब्रवीत् ।
भयभीतं समाश्वास्य स्वासने सन्निवेश्य च
॥५५॥ददावभयमत्यर्थं निर्भयो भव पन्नग ।
तमिन्द्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा
॥५६॥उत्तङ्कोऽह्वयदुद्विग्नः सेन्द्रं कृत्वा निमन्त्रणम् ।
स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः
॥५७॥आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः ।
तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम्
॥५८॥राजा तमर्चयामास दृष्ट्वा बालं सुपण्डितम् ।
अर्चयित्वा नृपस्तं तु छन्दयामास वाञ्छितैः
॥५९॥स तु वव्रे महाभाग यज्ञोऽयं विरमत्विति ।
सत्यबद्धो नृपस्तेन प्रार्थितश्च पुनस्तथा
॥६०॥होमं निवर्तयामास सर्पाणां मुनिवाक्यतः ।
भारतं श्रावयामास वैशम्पायन विस्तरात्
॥६१॥श्रुत्वापि नृपतिः कामं न शान्तिमभिजग्मिवान् ।
व्यासं पप्रच्छ भूपालो मम शान्तिः कथं भवेत्
॥६२॥मनोऽतिदह्यते कामं किं करोमि वदस्व मे ।
पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः
॥६३॥क्षत्रियाणां महाभाग सङ्ग्रामे मरणं वरम् ।
रणे वा मरणं व्यास गृहे वा विधिपूर्वकम्
॥६४॥मरणं न पितुर्मेऽभूदन्तरिक्षे मृतोऽवशः ।
शान्त्युपायं वदस्वात्र त्वं च सत्यवतीसुत
॥६५॥यथा स्वर्गं व्रजेदाशु पिता मे दुर्गतिं गतः
॥६६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे सर्पसत्रवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥