मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय ५

3
द्वितीयस्कन्धः · 5

देवव्रतप्रतिज्ञावर्णनम्

ऋषय ऊचुः

वसूनां सम्भवः सूत कथितः शापकारणात् ।

गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे

॥१॥

माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती ।

कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा

॥२॥

तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता ।

राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत

॥३॥

सूत उवाच

शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा ।

वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून्

॥४॥

चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः ।

रममाणः सुखं प्राप कुमारेण यथा हरः

॥५॥

एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् ।

स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम्

॥६॥

महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ।

तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा

॥७॥

न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न ।

चम्पकस्य न मालत्या न केतक्या मनोहरः

॥८॥

न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः ।

कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः

॥९॥

इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् ।

मोहितो गन्धलोभेन शन्तनुः पवनानुगः

॥१०॥

स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् ।

शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम्

॥११॥

दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः ।

अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः

॥१२॥

तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः ।

वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत्

॥१३॥

केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा ।

गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम्

॥१४॥

सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् ।

गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च

॥१५॥

कासि प्रिये कस्य सुतासि कस्मा- दिह स्थिता त्वं विजने वरोरु ।

एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि

॥१६॥

सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च ।

ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण

॥१७॥

इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा ।

दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च

॥१८॥

तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र ।

पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे

॥१९॥

इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे ।

कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते

॥२०॥

न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि ।

दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम्

॥२१॥

गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते ।

त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम्

॥२२॥

श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या ।

उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा

॥२३॥

यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते ।

नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु

॥२४॥

न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि ।

स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम्

॥२५॥

मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च ।

दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु

॥२६॥

सूत उवाच

इत्याकर्ण्य वचस्तस्या नृपति काममोहितः ।

गतो दाशपतेर्गेहं तस्या याचनहेतवे

॥२७॥

दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः ।

प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत

॥२८॥

दाश उवाच

दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे ।

आज्ञां देहि महाराज यदर्थमिह चागमः

॥२९॥

राजोवाच

धर्मपत्नीं करिष्यामि सुतामेतां तवानघ ।

त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते

॥३०॥

दाश उवाच

कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप ।

दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन

॥३१॥

तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः ।

सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै

॥३२॥

सूत उवाच

श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् ।

गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा

॥३३॥

कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः ।

न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः

॥३४॥

चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा ।

गत्वापृच्छन्महीपालं तदसन्तोषकारणम्

॥३५॥

दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव ।

का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम

॥३६॥

किं तेन जातेन सुतेन राजन् दुःखं न जानाति न नाशयेद्यः ।

ऋणं ग्रहीतुं समुपागतोऽसौ प्राग्जन्मजं नात्र विचारणास्ति

॥३७॥

विमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः ।

वनं गतो लक्ष्मणजानकीभ्यां सहैव शैलं किल चित्रकूटम्

॥३८॥

सुतो हरिश्चन्द्रनृपस्य राजन् यो रोहितश्चेति प्रसिद्धनामा ।

क्रीतोऽथ पित्रा विपणोद्यतश्च दासार्पितो विप्रगृहे तु नूनम्

॥३९॥

तथाजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः ।

क्रीतस्तु पित्राप्यथ यूपबद्धः सम्मोचितो गाधिसुतेन पश्चात्

॥४०॥

पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति प्रसिद्धम् ।

अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी कृता

॥४१॥

इदं शरीरं तव भूपते न क्षमोऽस्मि नूनं वद किं करोम्यहम् ।

न शोचनीयं मयि वर्तमाने- ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः

॥४२॥

प्रब्रूहि राजंस्तव कास्ति चिन्ता निवारयाम्यद्य धनुर्गृहीत्वा ।

देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकीर्षा

॥४३॥

धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः ।

जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः

॥४४॥

सूत उवाच

निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः ।

लज्जमानस्तु मनसा तमाह त्वरितं सुतम्

॥४५॥

राजोवाच

चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः ।

शूरोऽतिबलवान्मानी संग्रामेष्वपराङ्मुखः

॥४६॥

एकापत्यस्य मे तात वृथेदं जीवितं किल ।

मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः

॥४७॥

एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् ।

नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम्

॥४८॥

सूत उवाच

तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत ।

न मां वदति भूपालो लज्जयाद्य परिप्लुतः

॥४९॥

वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् ।

सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः

॥५०॥

तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् ।

शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत्

॥५१॥

सहितस्तैर्जगामाशु दाशस्य सदनं तदा ।

प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः

॥५२॥

गाङ्गेय उवाच

पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् ।

माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप

॥५३॥

दाश उवाच

त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज ।

पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै

॥५४॥

गाङ्गेय उवाच

मातेयं मम दाशेयी राज्यं नैव करोम्यहम् ।

पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः

॥५५॥

दाश उवाच

सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् ।

सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः

॥५६॥

गाङ्गेय उवाच

न दारसंग्रहं नूनं करिष्यामि हि सर्वथा ।

सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम्

॥५७॥

सूत उवाच

एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः ।

ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम्

॥५८॥

अनेन विधिना तेन वृता सत्यवती प्रिया ।

न जानाति परं जन्म व्यासस्य नृपसत्तमः

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥