मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय १

3
द्वितीयस्कन्धः · 1

मस्त्यगन्धोत्पत्तिवर्णनम्

ऋषय ऊचुः

आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् ।

सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम्

॥१॥

माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च ।

विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा

॥२॥

तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता ।

ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता

॥३॥

तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत ।

विस्तरेण महाभाग कथां परमपावनीम्

॥४॥

उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः ।

श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः

॥५॥

सूत उवाच

प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् ।

आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम्

॥६॥

यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती ।

व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः

॥७॥

सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये ।

स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी

॥८॥

राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः ।

चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः

॥९॥

तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् ।

दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया

॥१०॥

तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः ।

न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः

॥११॥

विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः ।

तस्य भार्या वरारोहा गिरिका नाम सुन्दरी

॥१२॥

पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।

पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा

॥१३॥

वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् ।

ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः

॥१४॥

तदहः पितरश्चैनमूचुर्जहि मृगानिति ।

तच्छुत्वा चिन्तयामास भार्यामृतुमतीं तथा

॥१५॥

पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् ।

चचार मृगयां राजा गिरिकां मनसा स्मरन्

॥१६॥

वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् ।

अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम्

॥१७॥

तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् ।

वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत्

॥१८॥

इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् ।

ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा

॥१९॥

अमोघं सर्वथा वीर्यं मम चैतन्न संशयः ।

प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत्

॥२०॥

शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः ।

अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम्

॥२१॥

पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति ।

गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम

॥२२॥

मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय ।

गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै

॥२३॥

सूत उवाच

इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः ।

स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः

॥२४॥

गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् ।

तमपश्यदथायान्तं खगं श्येनस्तथापरः

॥२५॥

आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् ।

तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः

॥२६॥

युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि ।

खगौ तौ निर्गतौ कामं पुटके पतिते तदा

॥२७॥

एतस्मिन्समये काचिद्अद्रिका नाम चाप्सराः ।

ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम्

॥२८॥

कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा ।

जग्राह चरणं नारी द्विजस्य वरवर्णिनी

॥२९॥

प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् ।

शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः

॥३०॥

सा शप्ता विप्रमुख्येन बभूव यमुनाचरी ।

शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः

॥३१॥

श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी ।

जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी

॥३२॥

अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः ।

सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम्

॥३३॥

उदरं विददाराशु स तस्या मत्स्यजीवनः ।

युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति

॥३४॥

बालः कुमारः सुभगस्तथा कन्या शुभानना ।

दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः

॥३५॥

राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्भवौ ।

राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम्

॥३६॥

स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः ।

वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः

॥३७॥

कालिका वसुना दत्ता तरसा जलजीविने ।

नाम्ना कालीति विख्याता तथा मत्स्योदरीति च

॥३८॥

मत्स्यगन्धेति नाम्ना वै गणेन समजायत ।

विवर्धमाना दाशस्य गृहे सा वासवी शुभा

॥३९॥

ऋषय ऊचुः

अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः ।

विदारिता च दाशेन मृता च भक्षिता पुनः

॥४०॥

किं बभूव पुनस्तस्या अप्सराया वदस्व तत् ।

शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा

॥४१॥

सूत उवाच

शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह ।

स्तुतिं चकार विप्रस्य दीनेव रुदती तदा

॥४२॥

दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् ।

मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम्

॥४३॥

मत्कोधशापयोगेन मत्स्ययोनिं गता शुभे ।

मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि

॥४४॥

इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले ।

बालकौ जनयित्वा सा मृता मुक्ता च शापतः

॥४५॥

सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च ।

जगामामरमार्गं च शापान्ते वरवर्णिनी

॥४६॥

एवं जाता वरा पुत्री मत्स्यगन्धा वरानना ।

पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत

॥४७॥

मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा ।

तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा

॥४८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे मस्त्यगन्धोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥