देवव्रतोत्पतिवर्णनम्
सूत उवाच
प्रतीपेऽथ दिवं याते शंतनुः सत्यविक्रमः ।
बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः
॥१॥स कदाचिद्वने घोरे गंगातीरे चरन्नृपः ।
ददर्श मृगशावाक्षीं सुंदरीं चारुभूषणाम्
॥२॥दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना ।
रूपयौवनसंपन्ना साक्षाल्लक्ष्मीरिवापरा
॥३॥पिबन्मुखांबुजं तस्या न तृप्तिमग्मन्नृपः ।
हृष्टरोमाऽभवत्तत्र व्याप्तचित्त इवानघ
॥४॥महाभिषं साऽपि मत्वा प्रेमयुक्ता बभूव ह ।
किंचिन्मंदस्मितं कृत्वा तस्थावग्रे नृपस्य च
॥५॥वीक्ष्य तामसितापांगीं राजा प्रीतमना भृशम् ।
उवाच मधुरं वाक्यं सांत्वयञ्छ्लक्ष्णया गिरा
॥६॥देवी वा त्वं च वामोरु मानुषी वा वरानने ।
गंधर्वी वाऽथ यक्षी वा नागकन्याऽप्सराऽपि वा
॥७॥याऽसि काऽसि वरारोहे भार्या मे भव सुंदरि ।
प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे
॥८॥सूत उवाच
राजा तां नाभिजानाति गंगेयमिति निश्चितम् ।
महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी
॥९॥पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् ।
उवाच नारी राजानं स्मितपूर्वमिदं वचः
॥१०॥स्त्र्युवाच
जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् ।
का न वांछति चार्वंगी भावित्वात्सदृशं पतिम्
॥११॥वाग्बंधेन नृपश्रेष्ठ चरिष्यामि पतिं किल ।
शृणु मे समयं राजन्वृणोमि त्वां नृपोत्तम
॥१२॥यच्च कुर्यामहं कार्यं शुभं वा यदि वाऽशुभम् ।
न निषेध्या त्वया राजन्न वक्तव्यं तथाऽप्रियम्
॥१३॥यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः ।
तदा मुक्त्वा गमिष्यामि यथेष्टं देश मारिष
॥१४॥स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि ।
महाभिषस्य प्रेमार्थं विचिंत्यैव च जाह्नवी
॥१५॥तथेत्युक्ताऽथ सा देवी चकार नृपतिं पतिम् ।
एवं वृता नृपेणाथ गंगा मानुषरूपिणी
॥१६॥नृपस्य मंदिरं प्राप्ता सुभगा वरवर्णिनी ।
नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे
॥१७॥साऽपि तं रमयामास भावज्ञा वै वरांगना ।
न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ
॥१८॥स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा ।
सा सर्वगुणसंपन्न सोऽपि कामविचक्षणः
॥१९॥रेमाते मंदिरे दिव्ये रमाना रायणाविव ।
एवं गच्छति काले सा दधार नृपतेस्तदा
॥२०॥गर्भं गंगा वसुं पुत्रं सुषुवे चारुलोचना ।
जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके
॥२१॥तृतीयेऽथ चतुर्थेऽथ पंचमे षष्ठ एव च ।
सप्तमे वा हते पुत्रे राजा चिंतापरोऽभवत्
॥२२॥किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि ।
सप्त पुत्रा हता नूनमनया पापरूपया
॥२३॥निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा ।
अष्टमोऽयं सुसंप्राप्तो गर्भो मे मनसीप्सितः
॥२४॥न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् ।
भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः
॥२५॥संभवेऽपि च दुष्टेयं रक्षयेद्वा न रक्षयेत् ।
एवं संशयिते कार्ये किं कर्तव्यं मयाऽधुना
॥२६॥वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया ।
ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः
॥२७॥मुनेर्येन हृता धेनुर्नंदिनी स्त्रीजितेन हि ।
तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे
॥२८॥दासोऽस्मि तव तन्वंगि प्रार्थयामि शुचिस्मिते ।
पुत्रमेकं पुषाम्यद्य देहि जीवंतमद्य मे
॥२९॥हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः ।
अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः
॥३०॥अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् ।
वंशो मे रक्षणीयोऽद्य त्वया परमशोभने
॥३१॥अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः ।
तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम्
॥३२॥इत्युक्ताऽपि गृहीत्वा तं यदा गंतुं समुत्सुका ।
तदाऽपि कुपितो राजा तामुवाचातिदुःखितः
॥३३॥पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् ।
काऽसि पापकराणां त्वं पुत्री पापरता सदा
॥३४॥यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह ।
किं करोमि त्वया पापे वंशांतकरयाऽनया
॥३५॥एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् ।
गच्छंती वचनं कोपसंयुक्ता तमुवाच ह
॥३६॥पुत्रकामा सुतं त्वेनं पालयामि वने गता ।
समयो मे गमिष्यामि वचनं ह्यन्यथा कृतम्
॥३७॥गगां मां वै विजानीहि देवकार्यार्थमागताम् ।
वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना
॥३८॥व्रजंतु मानुषी योनिं स्थितां चिंतातुरास्तु माम् ।
दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघ
॥३९॥तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम ।
देवकार्यार्थसिद्ध्यर्थ जानीहि संभवो मम
॥४०॥सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते ।
कियंतं कालमेकोऽयं तव पुत्रो भविष्यति
॥४१॥गंगादत्तमिमं पुत्रं गृहाण शंतनो स्वयम् ।
वसु देवं विदित्वैनं सुखं भुंक्ष्व सुतोद्भवम्
॥४२॥गांगेयोऽयं महाभाग भविष्यति बलाधिकः ।
अद्य तत्र नयाम्येनं यत्र त्व वै मया वृतः
॥४३॥दास्यामि यौवनप्राप्तं पालयित्वा महीपते ।
न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत्
॥४४॥इत्युक्ताऽन्तर्दधे गंगा तं गृहीत्वा च बालकम् ।
राजा चातीव दुःखार्तः संस्थितो निजमंदिरे
॥४५॥भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् ।
सर्वदा चिंतयन्नास्ते राज्यं कुर्वन्महीपतिः
॥४६॥एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः ।
निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि
॥४७॥गंगातीरमनुप्राप्तः स राजा शंतनुस्तदा ।
नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः
॥४८॥तत्रापश्यत्कुमारं तं मुंचंतं विशिखान्बहून् ।
आकृष्य च महाचापं क्रीडंतं सरितस्तटे
॥४९॥तं वीक्ष्य विस्मितो राजा न स्म जानाति किंचन ।
नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा
॥५०॥दृष्ट्वाऽप्यमानुषं कर्म बाणेषु लघुहस्तताम् ।
विद्यां वाऽप्रतिमां रूपं तस्य वै स्मरसन्निभम्
॥५१॥पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ ।
नोवाच किंचिद्वीरोऽसौ मुंचञ्छिलीमुखानथ
॥५२॥अंतर्धानं गतः सोऽथ राजा चिंतातुरोऽभवत् ।
कोऽयं मम सुतो बालः किं करोमि व्रजामि कम्
॥५३॥गंगां तुष्टाव भूपालः स्थितस्तत्र समाहितः ।
दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा
॥५४॥दृष्ट्वा तां चारुसर्वांगीं बभाषे नृपतिः स्वयम् ।
कोऽयं गंगे गतो बालो मम त्वं दर्शयाधुना
॥५५॥गंगोवाच
पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः ।
ददामि तव हस्ते तु गांगेयोऽयं महातपाः
॥५६॥कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रतः ।
पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम्
॥५७॥वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव ।
सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः
॥५८॥यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव ।
गृहाण गच्छ राजेंद्र सुखी भव नराधिप
॥५९॥इत्युक्वांऽतर्दधे गंगा दत्त्वा पुत्रं नृपाय वै ।
नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः
॥६०॥समालिंग्य सुतं राजा समाघ्राय च मस्तकम् ।
समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे
॥६१॥गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् ।
दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम्
॥६२॥समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् ।
यौवराज्येऽथ गांगेयं स्थापयामास पार्थिवः
॥६३॥कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् ।
सुखमास स धर्मात्मा न सस्मार च जाह्नवीम्
॥६४॥सूत उवाच
एतद्वः कथितं सर्वं कारणं वसुशापजम् ।
गांगेयस्य तथोत्पत्तिं जाह्नव्याः संभवं तथा
॥६५॥गंगावतरणं पुण्यं वसूनां संभवं तथा ।
यः शृणोति नरः पापान्मुच्यते नात्र संशयः
॥६६॥पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमः ।
यथाश्रुतं व्यासात्पुराणं वेदसंमितम्
॥६७॥श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् ।
द्वैपायनमुखोद्भूतं पंच लक्षणसंयुतम्
॥६८॥शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा ।
इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमः
॥६९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥