मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — द्वितीयस्कन्धः, अध्याय १२

3
द्वितीयस्कन्धः · 12

श्रोतृप्रवक्तृप्रसङ्गः

सूत उवाच

तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः ।

उवाच वचनं तत्र सभायां नृपतिं च तम्

॥१॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् ।

पुण्यं भागवतं नाम नानाख्यानयुतं शिवम्

॥२॥

अध्यापितं मया पूर्वं शुकायात्मसुताय वै ।

श्रावयामि नृप त्वां हि रहस्यं परमं मम

॥३॥

धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल ।

शुभद सुखदं नित्यं सर्वागमसमुद्धृतम्

॥४॥

जनमेजय उवाच

आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः ।

प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो

॥५॥

कथयैतन्महाभाग विस्तरेण कथानकम् ।

पुराणं च तथा सर्वं विस्तराद्वद सुव्रत

॥६॥

व्यास उवाच

जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् ।

तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः

॥७॥

ततस्तमाहुः कुरु पुत्र दारा- न्यथा च नः स्यात्परमा हि तृप्तिः ।

स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै

॥८॥

स तानुवाचाथ लभे समाना- मयाचितां चातिवशानुगां च ।

तदा गृहारम्भमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै

॥९॥

इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः ।

तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति

॥१०॥

कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा ।

दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम्

॥११॥

तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् ।

किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम्

॥१२॥

विनतोवाच

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।

ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे

॥१३॥

कद्रुरुवाच

कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते ।

एहि सार्धं मया दिव्यं दासीभावाय भामिनि

॥१४॥

सूत उवाच

कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् ।

बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके

॥१५॥

नेति केचन तत्राहुस्तानथासौ शशाप ह ।

जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम्

॥१६॥

अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः ।

वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया

॥१७॥

भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् ।

कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता

॥१८॥

तदाजगाम गरुडः सुतस्तस्या महाबलः ।

स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः

॥१९॥

मातः कथं सुदीनासि रुदितेव विभासि मे ।

जीवमाने मयि सुते तथान्ये रविसारथौ

॥२०॥

दुःखितासि ततो वां धिग्जीवितं चारुलोचने ।

किं जातेन सुतेनाथ यदि माता सुदुःखिता

॥२१॥

शंस मे कारणं मातः करोमि विगतज्वराम् ।

विनतोवाच ।

सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता

॥२२॥

वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत ।

गरुड उवाच ।

वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका

॥२३॥

मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् ।

व्यास उवाच ।

इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा

॥२४॥

दासीभावमपाकर्तुं गरुडोऽपि महाबलः ।

उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह

॥२५॥

गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते ।

कथं मुच्येत मे माता दासीभावादसंशयम्

॥२६॥

कद्रूरुवाच

अमृतं देवलोकात्त्वं बलादानीय मे सुतान् ।

समर्पय सुताद्याशु मातरं मोचयाबलाम्

॥२७॥

व्यास उवाच

इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः ।

कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः

॥२८॥

समानीयामृतं मात्रे वैनतेयः समर्पयत् ।

मोचिता विनता तेन दासीभावादसंशयम्

॥२९॥

अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः ।

दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात्

॥३०॥

तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः ।

द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः

॥३१॥

मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा ।

ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम्

॥३२॥

तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः ।

वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम्

॥३३॥

तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति ।

आस्तीक इति नामासौ भविता नात्र संशयः

॥३४॥

वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् ।

वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम्

॥३५॥

सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् ।

अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम्

॥३६॥

वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् ।

दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह

॥३७॥

कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने ।

तया सह सुखं प्राप रममाणः परन्तप

॥३८॥

एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः ।

भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी

॥३९॥

न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन ।

इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा

॥४०॥

रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते ।

किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः

॥४१॥

धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् ।

नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत्

॥४२॥

धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् ।

धर्महानिर्नराणां हि नरकाय भवेत्पुनः

॥४३॥

इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् ।

सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत

॥४४॥

उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् ।

त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी

॥४५॥

वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा ।

भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ

॥४६॥

मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ।

गता सा मुनिना त्यक्ता वासुकेः सदनं तदा

॥४७॥

पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा ।

अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः

॥४८॥

वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत ।

विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत्

॥४९॥

ततः कालेन कियता जातोऽसौ मुनिबालकः ।

आस्तीक इति नामासौ विख्यातः कुरुसत्तम

॥५०॥

तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम ।

मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना

॥५१॥

भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः ।

यायावरकुलोत्पनो वासुकेर्भगिनीसुतः

॥५२॥

स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् ।

दानानि बहु दत्तानि पूजिता मुनयस्तथा

॥५३॥

कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः ।

पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम

॥५४॥

देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः ।

येन वै सकला सिद्धिस्तव स्याज्जनमेजय

॥५५॥

पूजिता परया भक्त्या शिवा सकलदा सदा ।

कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा

॥५६॥

देवीमखं विधानेन कृत्वा पार्थिवसत्तम ।

श्रीमद्भागवतं नाम पुराणं परमं शृणु

॥५७॥

त्वामहं श्रावयिष्यामि कथां परमपावनीम् ।

संसारतारिणीं दिव्यां नानारससमाहृताम्

॥५८॥

न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि ।

नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते

॥५९॥

ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम ।

येषां चित्ते सदा देवी वसति प्रेमसंकुले

॥६०॥

सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते ।

नाराधिता महामाया यैर्जनैश्च सदाम्बिका

॥६१॥

ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः ।

वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः

॥६२॥

य इदं शृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ।

भगवत्या समाख्यातं विष्णवे यदनुत्तमम्

॥६३॥

तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति ।

पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्भवेत्

॥६४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः ॥ १२ ॥