मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १

3
तृतीयस्कन्धः · 1

भुवनेश्वरीवर्णनम्

जनमेजय उवाच

भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् ।

सा का कथं समुत्पन्ना कुत्र कस्माच्च किंगुणा

॥१॥

कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा ।

विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे

॥२॥

ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा ।

यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर

॥३॥

ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः ।

सृष्टिपालनसंहारकारकाः सगुणास्त्वमी

॥४॥

स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे ।

आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम्

॥५॥

मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः ।

अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः

॥६॥

कालस्य वशगा नो वा ते सुरेंद्रा महाबलाः ।

कथं ते वै समुत्पन्ना कस्मादिति च संशयः

॥७॥

हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः ।

सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने

॥८॥

कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा ।

भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा

॥९॥

निवासस्थानमप्येषां विभूतिं च वदस्व मे ।

श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम्

॥१०॥

व्यास उवाच

दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना ।

ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते

॥११॥

एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः ।

विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते

॥१२॥

कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् ।

अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम्

॥१३॥

दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः ।

तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने

॥१४॥

श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् ।

निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके

॥१५॥

मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते ।

कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः

॥१६॥

कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम ।

अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम

॥१७॥

एककर्तृकमेतद्वा बहुकर्तृकमन्यथा ।

अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे

॥१८॥

इति सन्देहसन्दोहे मग्नं मां तारयाधुना ।

विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे

॥१९॥

ब्रुवन्ति शंकरं केचिन्मत्वा कारणकारणम् ।

सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम्

॥२०॥

आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् ।

संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम्

॥२१॥

अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् ।

परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम्

॥२२॥

भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् ।

व्यापकं विश्वशरणमनादिनिधनं हरिम्

॥२३॥

धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् ।

तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम्

॥२४॥

चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् ।

स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम्

॥२५॥

दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः ।

स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः

॥२६॥

यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् ।

सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम्

॥२७॥

यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् ।

यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम्

॥२८॥

वरुणं च तथा सोमं पावकं पवनं तथा ।

यमं कुबेरं धनदं गणाधीशं तथापरे

॥२९॥

हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् ।

स्मरणात्सिद्धिदं कामं कामदं कामगं परम्

॥३०॥

भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् ।

आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम्

॥३१॥

ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् ।

मातरं सर्वभूतानां देवतानां तथैव च

॥३२॥

अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु ।

ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम्

॥३३॥

वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा ।

वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम्

॥३४॥

वेदमातरमेकां च विद्यां भवतरोः स्थिराम् ।

सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम्

॥३५॥

मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् ।

त्रिगुणातीतरूपां च गुणविस्तारकारकाम्

॥३६॥

निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः ।

निरंजनं निराकारं निर्लेपं निर्गुणं किल

॥३७॥

अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः ।

वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित्

॥३८॥

सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा ।

सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात्

॥३९॥

विष्णोः पादमथाकाशं परमं समुदाहृतम् ।

विराजं विरजं शान्तं प्रवदन्ति मनीषिणः

॥४०॥

पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः ।

नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन

॥४१॥

अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन ।

न कदापीशजन्यं यज्जगदेतदचिन्तितम्

॥४२॥

सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् ।

अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा

॥४३॥

एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः ।

एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे

॥४४॥

विकल्पोपहतं चेतः किं करोमि मुनीश्वर ।

धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत्

॥४५॥

को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते ।

देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः

॥४६॥

पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः ।

धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः

॥४७॥

दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः ।

अतो मे हृदयं तात वेपतेऽतीव संशये

॥४८॥

कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने ।

त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने

॥४९॥

मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले

॥५०॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे भुवनेश्वरीवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥