मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १५

3
तृतीयस्कन्धः · 15

मनोरमया भारद्वाजाश्रमं प्रति गमनम्

व्यास उवाच

संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः ।

क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः

॥१॥

संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् ।

संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः

॥२॥

वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे ।

पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः

॥३॥

स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितञ्च ।

गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ

॥४॥

तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः ।

चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः

॥५॥

गजरथतुरगाणां सम्बभूवातियुद्धं सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् ।

विततविहगवृन्दैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृध्रादिभिश्च

॥६॥

तत्राद्भुता क्षतजसिन्धुरुवाह घोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् ।

त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम्

॥७॥

कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ ।

तुम्बीफलानि विहितानि विहर्तुकामै- र्बालैर्यथा रविसुताप्रभवैश्च नूनम्

॥८॥

वीरं मृतं भुवि गतं पतितं रथाद्वै गृध्रः पलार्थमुपरि भ्रमतीति मन्ये ।

जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम्

॥९॥

आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् ।

पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कान्तम्

॥१०॥

एको हतस्तु रिपुणैव गतोऽन्तरिक्षं देवाङ्गनां समधिगम्य युतो विमाने ।

तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कान्तमबला सबला स्वकीया

॥११॥

युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता- वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ ।

तत्रैव जघ्नतुरलं परमाहितास्त्रा- वेकाप्सरोऽर्थविहतौ कलहाकुलौ च

॥१२॥

कश्चिद्युवा समधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्तः ।

स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः

॥१३॥

भौमं रजोऽतिविततं दिवि संस्थितञ्च रात्रिं चकार तरणिञ्च समावृणोद्यत् ।

मग्नं तदेव रुधिराम्बुनिधावकस्मात् प्रादुर्बभूव रविरप्यतिकान्तियुक्तः

॥१४॥

कश्चिद्गतस्तु गगनं किल देवकन्यां सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् ।

नाङ्गीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकूलशब्दः

॥१५॥

सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः ।

जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः

॥१६॥

निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः ।

प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम्

॥१७॥

मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि ।

भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन्

॥१८॥

हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः ।

राज्यलोभेन पापात्मा सेति चिन्तापराभवत्

॥१९॥

किं करोमि क्व गच्छामि पिता मे निहतो रणे ।

भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः

॥२०॥

लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः ।

किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः

॥२१॥

पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् ।

हन्ति लोभसमाविष्टो जनो नात्र विचारणा

॥२२॥

अभक्ष्यभक्षणं लोभादगम्यागमनं तथा ।

करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः

॥२३॥

न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः ।

यदाधारे स्थिता चाहं पालयामि सुतं शुभम्

॥२४॥

हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः ।

न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम्

॥२५॥

सापि वैरयुता कामं सपत्नी सर्वदा भवेत् ।

लीलावती न मे पुत्रे भविष्यति दयावती

॥२६॥

युधाजिति समायाते न मे निःसरणं भवेत् ।

ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति

॥२७॥

श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः ।

कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा

॥२८॥

प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् ।

एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि

॥२९॥

सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया ।

गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम्

॥३०॥

जातस्तु बालकः पश्चाद्देहे विषयुतः किल ।

तेनासौ सगरो नाम विख्यातो भुवि मण्डले

॥३१॥

जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया ।

रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः

॥३२॥

मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् ।

राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते

॥३३॥

न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् ।

महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः

॥३४॥

उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते ।

उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता

॥३५॥

इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् ।

निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम्

॥३६॥

समाहूय तमेकान्ते प्रोवाच बहुदुःखिता ।

गृहीत्वा बालकं हस्ते रुदती दीनमानसा

॥३७॥

पिता मे निहतः संख्ये पुत्रोऽयं बालकस्तथा ।

युधाजिद्बलवान् राजा किं विधेयं वदस्व मे

॥३८॥

तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च ।

गमिष्यामो वने कामं वाराणस्याः पुनः किल

॥३९॥

तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः ।

सुबाहुरिति विख्यातो रक्षिता स भविष्यति

॥४०॥

युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः ।

निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः

॥४१॥

इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति ।

उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने

॥४२॥

इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा ।

विदल्लेन च संयुक्ता निःसृता नगराद्बहिः

॥४३॥

त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला ।

दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम्

॥४४॥

संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला ।

दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम्

॥४५॥

निषादैलुण्ठिता तत्र गृहीतं सकलं वसु ।

रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः

॥४६॥

रुदती सुतमादाय चारुवस्त्रा मनोरमा ।

निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता

॥४७॥

आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला ।

तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम्

॥४८॥

भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला ।

संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा

॥४९॥

मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः ।

कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते

॥५०॥

देवी वा मानुषी वासि बालपुत्रा वने कथम् ।

राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे

॥५१॥

एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी ।

रुदती दुःखसन्तप्ता विदल्लं च समादिशत्

॥५२॥

विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः ।

तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा

॥५३॥

सिंहेन निहतो राजा सूर्यवंशी महाबलः ।

पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः

॥५४॥

अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे ।

युधाजिद्भयसन्त्रस्ता सम्प्राप्ता विजने वने

॥५५॥

त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा ।

त्राता भव महाभाग त्वमस्या मुनिसत्तम

॥५६॥

आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् ।

भयतस्तस्य दीनस्य विशेषफलदं स्मृतम्

॥५७॥

ऋषिरुवाच

निर्भया वस कल्याणि पुत्रं पालय सुव्रते ।

न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम्

॥५८॥

पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति ।

नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति

॥५९॥

व्यास उवाच

इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह ।

उटजे मुनिना दत्ते वीतशोका तदावसत्

॥६०॥

सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता ।

सुदर्शनं पालयाना न्यवसत्सा मनोरमा

॥६१॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे मनोरमया भारद्वाजाश्रमं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥