मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १२

3
तृतीयस्कन्धः · 12

अम्बायज्ञविधिवर्णनम्

राजोवाच

वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः ।

श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः

॥१॥

पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् ।

ब्राह्मणाः कतिसंख्याश्च दक्षिणाश्चतथा पुनः

॥२॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः ।

त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा

॥३॥

सात्त्विकं राजसं चैव तामसं च तथापरम् ।

मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम्

॥४॥

तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् ।

विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते

॥५॥

देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा ।

श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः

॥६॥

द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप ।

भवेद्यदि तदा पूर्णं फलं भवति नान्यथा

॥७॥

अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् ।

न कीर्तिरिह लोके च परलोके न तत्फलम्

॥८॥

तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा ।

यशसे परलोकाय भवत्येव सुखाय च

॥९॥

प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः ।

राजसूयः क्रतुवरः समाप्तवरदक्षिणः

॥१०॥

यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः ।

ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा

॥११॥

कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः ।

प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः

॥१२॥

पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः ।

वनवासो महत्कष्टं क्व गतं मखजं फलम्

॥१३॥

दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः ।

कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा

॥१४॥

आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् ।

भक्तिर्वा वासुदेवस्य क्व गता तत्र संकटे

॥१५॥

न रक्षिता तदा बाला केनापि द्रुपदात्मजा ।

प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी

॥१६॥

किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् ।

केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे

॥१७॥

भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः ।

वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम्

॥१८॥

साधनं निष्फलं सर्वमुपायश्च निरर्थकः ।

भवितव्यं भवत्येव वचने प्रतिपादके

॥१९॥

आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः ।

स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा

॥२०॥

सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि ।

उभयञ्चापि मन्तव्यं दैवं चोपाय एव च

॥२१॥

कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् ।

वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः

॥२२॥

तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः ।

कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः

॥२३॥

यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः ।

विपरीतं कृतं तेन कर्म मातृहिताय वै

॥२४॥

देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः ।

असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम्

॥२५॥

दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा ।

शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः

॥२६॥

क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् ।

नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया

॥२७॥

भारद्वाजविनाशाय पुत्रस्योत्पादनाय च ।

धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी

॥२८॥

पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा ।

अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे

॥२९॥

अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् ।

अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम

॥३०॥

पाण्डवानां यथा यज्ञे किञ्चिद्वैगुण्ययोगतः ।

विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे

॥३१॥

सत्यवादी तथा राजन् धर्मपुत्रो युधिष्ठिरः ।

द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः

॥३२॥

कुद्रव्ययोगाद्वैगुण्यं समुत्पन्नं मखेऽथवा ।

साभिमानैः कृताद्वापि दूषणं समुपस्थितम्

॥३३॥

सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः ।

वैखानसमुनीनां हि विहितोऽसौ महामखः

॥३४॥

सात्त्विकं भोजनं ये वै नित्यं कुर्वन्ति तापसाः ।

न्यायार्जितञ्च वन्यञ्च तथा ऋष्यं सुसंस्कृतम्

॥३५॥

पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः ।

श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः

॥३६॥

राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः ।

क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः

॥३७॥

तामसा दानवानां वै सक्रोधा मदवर्धकाः ।

सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः

॥३८॥

मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् ।

मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः

॥३९॥

अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि ।

द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा

॥४०॥

देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा ।

नान्यो भवति पूर्णे वै तथा भवति मानसः

॥४१॥

प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् ।

शुद्धे मनसि देहो वै शुद्ध एव न संशयः

॥४२॥

इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि ।

तदा तस्य मखस्यासौ प्रभवेदधिकारवान्

॥४३॥

तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् ।

स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः

॥४४॥

वेदीं च विशदां तत्र मनसा परिकल्पयेत् ।

अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल

॥४५॥

ब्राह्मणानाञ्च वरणं तथैव प्रतिपाद्य च ।

ब्रह्माध्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम्

॥४६॥

उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि ।

पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः

॥४७॥

प्राणोऽपानस्तथा व्यानः समानोदान एव च ।

पावकाः पञ्च एवैते स्थाप्या वेद्यां विधानतः

॥४८॥

गार्हपत्यस्तदा प्राणोऽपानश्चाहवनीयकः ।

दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः

॥४९॥

सभ्योदानः स्मृता ह्येते पावकाः परमोत्कटाः ।

द्रव्यञ्च मनसा भाव्यं निर्गुणं परमं शुचि

॥५०॥

मन एव तदा होता यजमानस्तथैव तत् ।

यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम्

॥५१॥

फलदा निर्गुणा शक्तिः सदा निर्वेददा शिवा ।

ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता

॥५२॥

तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः ।

पश्चाच्चित्तं निरालम्बं कृत्वा प्राणानपि प्रभो

॥५३॥

कुण्डलीमुखमार्गेण हुनेद्ब्रह्मणि शाश्वते ।

स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम्

॥५४॥

समाधिनैव योगेन ध्यायेच्चेतस्यनाकुलः ।

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि

॥५५॥

यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् ।

दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम्

॥५६॥

तदा मायादिकं सर्वं दग्धं भवति भूमिप ।

प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति

॥५७॥

जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् ।

कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम्

॥५८॥

तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी ।

श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः

॥५९॥

राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः ।

अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः

॥६०॥

अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति ।

वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः

॥६१॥

क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति ।

तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः

॥६२॥

न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता ।

तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना

॥६३॥

वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः ।

यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे

॥६४॥

देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् ।

विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम

॥६५॥

तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् ।

ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः

॥६६॥

देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः ।

याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि

॥६७॥

कृत्वा यज्ञं विधानेन दत्त्वा पुण्य़ं मखार्जितम् ।

समुद्धर महाराज पितरं दुर्गतिङ्गतम्

॥६८॥

विप्रावमानजं पापं दुर्घटं नरकप्रदम् ।

तथैव शापजो दोषः प्राप्तः पित्रा तवानघ

॥६९॥

तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा ।

अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे

॥७०॥

न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् ।

मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह

॥७१॥

कृपणानि च सर्वाणि नरकस्य नृपोत्तम ।

तत्रैकं कारणं तस्य न जातं चातिदुर्लभम्

॥७२॥

यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् ।

साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे

॥७३॥

यदा निर्वेदमायाति मनसा निर्मलेन वै ।

पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम्

॥७४॥

पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः ।

नाशात्मकानि तत्त्वानि तत्र का परिदेवना

॥७५॥

ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः ।

देहेन मम सम्बन्धः कर्मणा प्रतिपादितः

॥७६॥

तानि सर्वाणि मुक्तानि शुभानि चेतराणि च ।

मनुष्यदेहयोगेन सुखदुःखानुसाधनात्

॥७७॥

विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् ।

इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः

॥७८॥

मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः ।

एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा

॥७९॥

पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् ।

देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान्

॥८०॥

नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् ।

कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै

॥८१॥

औषधं मणिमन्त्रं च यन्त्रं परमकं तथा ।

आरोहणं तथा सौधे कृतवान्नृपतिस्तदा

॥८२॥

न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् ।

न भूमौ शयनं चैव दैवं मत्वा परं तथा

॥८३॥

मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः ।

कृत्वा पापं कलेर्योगात्तापसस्यावमानजम्

॥८४॥

अवश्यमेव नरकं एतैराचरणैर्भवेत् ।

तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम

॥८५॥

सूत उवाच

इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः ।

साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः

॥८६॥

धिगिदं जीवितं मेऽद्य पिता मे नरके स्थितः ।

तत्करोमि यथैवाद्य स्वर्गं यात्युत्तरासुतः

॥८७॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बायज्ञविधिवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥