लक्ष्मणकृतरामशोकसान्त्वनम्
व्यास उवाच
तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला ।
वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह
॥१॥पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः ।
नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा
॥२॥गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति ।
मत्कृते मरणं तत्र भविष्यति न संशयः
॥३॥इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ ।
गच्छ गच्छेति वदती रावणं लोकरावणम्
॥४॥सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् ।
बलाज्जग्राह तां बालां रुदती भयविह्वलाम्
॥५॥रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः ।
गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः
॥६॥गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा ।
सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे
॥७॥हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः ।
लङ्कायां क्रन्दती तात कुररीव दुरात्मनः
॥८॥अशोकवनिकायां सा स्थापिता राक्षसीयुता ।
स्ववृत्तान्नैव चलिता सामदानादिभिः किल
॥९॥रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः ।
आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम्
॥१०॥एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः ।
श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम्
॥११॥सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः ।
प्रभोऽत्राहं समायातः कालयोगान्न संशयः
॥१२॥तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ ।
जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ
॥१३॥मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः ।
जटायुः प्राणशेषस्तु पतितः पृथिवीतले
॥१४॥तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा ।
मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः
॥१५॥इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै ।
कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः
॥१६॥कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः ।
वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः
॥१७॥हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् ।
सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः
॥१८॥तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः ।
चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम्
॥१९॥लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः ।
सौमित्रे कैकयसुता जाता पूर्णमनोरथा
॥२०॥न प्राप्ता जानकी नूनं नाहं जीवामि तां विना ।
नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम्
॥२१॥गतं राज्यं वने वासो मृतस्तातो हृता प्रिया ।
पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति
॥२२॥दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज ।
आवयोः का गतिस्तात भविष्यति सुदुःखदा
॥२३॥प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल ।
वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च
॥२४॥त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः ।
दैवयोगाच्च सौमित्रे भुंक्ष्व दुःखं दुरत्ययम्
॥२५॥न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः ।
अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति
॥२६॥किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे ।
न चास्ति तरणोपायो ह्यसहायस्य मे किल
॥२७॥न वित्तं न बलं वीर त्वमेकः सहचारकः ।
कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज
॥२८॥गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् ।
वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम्
॥२९॥बालभावाच्च वैदेही चलिता चावयोः सह ।
नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम्
॥३०॥लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति ।
पतिव्रता सुशीला च मयि प्रीतियुता भृशम्
॥३१॥न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् ।
स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा
॥३२॥त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज ।
न रावणस्य वशगा भवेदिति सुनिश्चितम्
॥३३॥मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् ।
मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण
॥३४॥एवं विलपमानं तं रामं कमललोचनम् ।
लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा
॥३५॥धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह ।
आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम्
॥३६॥आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः ।
अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि
॥३७॥संयोगो विप्रयोगश्च दैवाधीनावुभावपि ।
शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित्
॥३८॥राज्याद्यथा वने वासो वैदेह्या हरणं यथा ।
तथा काले समीचीने संयोगोऽपि भविष्यति
॥३९॥प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् ।
नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना
॥४०॥वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् ।
शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल
॥४१॥ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् ।
हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम्
॥४२॥ससैन्यं भरतं वाऽपि समाहूय सहानुजम् ।
हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज
॥४३॥रघुणैकरथेनैव जिताः सर्वा दिशः पुरा ।
तद्वंशजः कथं शोकं कर्तुमर्हसि राघव
॥४४॥एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् ।
किं पुनः ससहायो वै रावणं कुलपांसनम्
॥४५॥जनकं वा समानीय साहाय्ये रघुनन्दन ।
हनिष्यामि दुराचारं रावणं सुरकण्टकम्
॥४६॥सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
चक्रनेमिरिवैकं यन्न भवेद्रघुनन्दन
॥४७॥मनोऽतिकातरं यस्य सुखदुःखसमुद्भवे ।
स शोकसागरे मग्नो न सुखी स्यात्कदाचन
॥४८॥इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन ।
नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे
॥४९॥स्थितः पङ्कजमध्ये च बहुवर्षगणानपि ।
अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम्
॥५०॥पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते ।
नहुषः पतितो भूमौ शापादजगराकृतिः
॥५१॥इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च ।
अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः
॥५२॥तस्माच्छोको न कर्तव्यो व्यसने सति राघव ।
उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता
॥५३॥सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते ।
किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि
॥५४॥व्यास उवाच
इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः ।
त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः
॥५५॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे लक्ष्मणकृतरामशोकसान्त्वनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥