रामचरित्रवर्णनम्
जनमेजय उवाच
कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् ।
राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः
॥१॥व्यास उवाच
राजा दशरथः श्रीमानयोध्याधिपतिः पुरा ।
सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः
॥२॥चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः ।
रामलक्ष्मणशत्रुघ्ना भरतश्चेति नामतः
॥३॥राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः ।
कौसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः
॥४॥सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ ।
ते जाता वै किशोराश्च धनुर्बाणधराः किल
॥५॥सूनवः कृतसंस्कारा भूपतेः सुखवर्धकाः ।
कौशिकेन तदाऽऽगत्य प्रार्थितो रघुनन्दनः
॥६॥राघवं मखरक्षार्थं सूनुं षोडशवार्षिकम् ।
तस्मै सोऽयं ददौ रामं कौशिकाय सलक्ष्मणम्
॥७॥तौ समेत्य मुनिं मार्गे जग्मतुश्चारुदर्शनौ ।
ताटका निहता मार्गे राक्षसी घोरदर्शना
॥८॥रामेणैकेन बाणेन मुनीनां दुःखदा सदा ।
यज्ञरक्षा कृता तत्र सुबाहुर्निहतः शठः
॥९॥मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः ।
एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम्
॥१०॥गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः ।
अहल्या मोचिता शापान्निष्पापा सा कृताऽबला
॥११॥विदेहनगरे तौ तु जग्मतुर्मुनिना सह ।
बभञ्ज शिवचापञ्च जनकेन पणीकृतम्
॥१२॥उपयेमे ततः सीतां जानकीञ्च रमांशजाम् ।
लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोर्मिलाम्
॥१३॥कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ ।
तथा भरतशत्रुघ्नौ सुशिलौ शुभलक्षणौ
॥१४॥एवं दारक्रियास्तेषां भ्रातॄणां चाभवन्नृप ।
चतुर्णां मिथिलायां तु यथाविधि विधानतः
॥१५॥राज्ययोग्यं सुतं दृष्ट्वा राजा दशरथस्तदा ।
राघवाय धुरं दातुं मनश्चक्रे निजाय वै
॥१६॥सम्भारं विहितं दृष्ट्वा कैकेयी पूर्वकल्पितौ ।
वरौ सम्प्रार्थयामास भर्तारं वशवर्तिनम्
॥१७॥राज्यं सुताय चैकेन भरताय महात्मने ।
रामाय वनवासञ्च चतुर्दशसमास्तथा
॥१८॥रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः ।
जगाम दण्डकारण्यं राक्षसैरुपसेवितम्
॥१९॥राजा दशरथः पुत्रविरहेण प्रपीडितः ।
जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन्
॥२०॥भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै ।
राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया
॥२१॥पञ्चवट्यां वसन् रामो रावणावरजां वने ।
शूर्पणखां विरूपां वै चकारातिस्मरातुराम्
॥२२॥खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः ।
चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा
॥२३॥स जघान खरादींश्च दैत्यानतिबलान्वितान् ।
मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः
॥२४॥गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् ।
दूषिता कथयामास रावणाय च राघवात्
॥२५॥सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः ।
जगाम रथमारुह्य मारीचस्याश्रमं तदा
॥२६॥कृत्वा हेममृगं नेतुं प्रेषयामास रावणः ।
सीताप्रलोभनार्थाय मायाविनमसम्भवम्
॥२७॥सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः ।
मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके
॥२८॥तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता ।
चर्मानयस्व कान्तेति स्वाधीनपतिका यथा
॥२९॥अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् ।
सशरं धनुरादाय ययौ मृगपदानुगः
॥३०॥सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः ।
दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम्
॥३१॥मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः ।
जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम्
॥३२॥स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः ।
हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः
॥३३॥स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा ।
राघवस्येति सा मत्वा दीना देवरमब्रवीत्
॥३४॥गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः ।
त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम्
॥३५॥तत्राह लक्ष्मणः सीतामम्ब रामवधादपि ।
नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे
॥३६॥आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे ।
तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम्
॥३७॥दूरं वै राघवं दृष्ट्वा वने मायाविना किल ।
त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते
॥३८॥कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ ।
नाहं त्यक्त्वा गमिष्यामि विलंघ्य रामभाषितम्
॥३९॥व्यास उवाच
रुदती सुदती प्राह ते तदा विधिनोदिता ।
अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम्
॥४०॥अहं जानामि सौमित्रे सानुरागं च मां प्रति ।
प्रेरितं भरतेनैव मदर्थमिह सङ्गतम्
॥४१॥नाहं तथाविधा नारी स्वैरिणी कुहकाधम ।
मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः
॥४२॥नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् ।
विना तेन न जीवामि विधुरा दुःखिता भृशम्
॥४३॥गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् ।
क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल
॥४४॥तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः ।
प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम्
॥४५॥किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल ।
किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम्
॥४६॥इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् ।
अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते
॥४७॥गतेऽथ लक्ष्मणे तत्र रावणः कपटाकृतिः ।
भिक्षुवेषं ततः कृत्वा प्रविवेश तदाश्रमे
॥४८॥जानकी तं यतिं मत्वा दत्त्वार्घ्यं वन्यमादरात् ।
भैक्ष्यं समर्पयामास रावणाय दुरात्मने
॥४९॥तां पप्रच्छ स दुष्टात्मा नम्रपूर्वं मृदुस्वरम् ।
काऽसि पद्मपलाशाक्षि वने चैकाकिनी प्रिये
॥५०॥पिता कस्तेऽथ वामोरु भ्राता कः कः पतिस्तव ।
मूढेवैकाकिनी चात्र स्थिताऽसि वरवर्णिनि
॥५१॥निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये ।
उटजे मुनिपत्नीवद्देवकन्यासमप्रभा
॥५२॥व्यास उवाच
इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा ।
दिव्यं दिष्ट्या यतिं ज्ञात्वा मन्दोदर्याः पतिं तदा
॥५३॥राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः ।
तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः
॥५४॥विवासितोऽथ कैकेय्या कृते भूपतिना वरे ।
चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः
॥५५॥जनकस्य सुता चाहं सीतानाम्नीति विश्रुता ।
भङ्क्त्वा शैवं धनुः कामं रामेणाहं विवाहिता
॥५६॥रामबाहुबलेनात्र वसामो निर्भया वने ।
काञ्चनं मृगमालोक्य हन्तुं मे निर्गतः पतिः
॥५७॥लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना ।
तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै
॥५८॥मयेदं कथितं सर्वं वृत्तान्तं वनवासके ।
तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि
॥५९॥यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया ।
आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले
॥६०॥तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः ।
कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः
॥६१॥रावण उवाच
लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः ।
त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते
॥६२॥आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै ।
जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ
॥६३॥अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् ।
हृतराज्यं गतश्रीकं निर्बलं वनवासिनम्
॥६४॥पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् ।
दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि
॥६५॥जेताऽहं लोकपालानां पतामि तव पादयोः ।
करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि
॥६६॥पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले ।
जनको मामुवाचेत्थं पणबन्धो मया कृतः
॥६७॥रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे ।
मनो मे संस्थितं तावन्निमग्नं विरहातुरम्
॥६८॥वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः ।
आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम्
॥६९॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामचरित्रवर्णनं नाम अष्टाविंशोऽध्यायः ॥ २८ ॥