मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय ४

3
तृतीयस्कन्धः · 4

विष्णुना कृतं देवीस्तोत्रम्

ब्रह्मोवाच

इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः ।

वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः

॥१॥

सेयं वरा महामाया दास्यत्येषा वरान् हि नः ।

स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके

॥२॥

यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः ।

पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः

॥३॥

ब्रह्मोवाच

इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ ।

जातौ प्रमुदितौ कामं निकटे गमनाय च

॥४॥

ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः ।

उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम्

॥५॥

द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा ।

स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः

॥६॥

वयं युवतयो जाताः सुरूपाश्चारुभूषणाः ।

विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः

॥७॥

सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके ।

व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा

॥८॥

प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् ।

परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः

॥९॥

पादपीठं प्रेक्षमाणा नानामणिविभूषितम् ।

सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः

॥१०॥

काश्चिद्रक्ताम्बरास्तत्र सहचर्यः सहस्रशः ।

काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः

॥११॥

देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः ।

विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल

॥१२॥

जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः ।

वीणामारुतवाद्यानि वादयन्तो मुदान्विताः

॥१३॥

शृणु नारद वक्ष्यामि यद्दृष्टं तत्र चाद्भुतम् ।

नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे

॥१४॥

ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् ।

अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः

॥१५॥

वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः ।

पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा

॥१६॥

विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा ।

नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च

॥१७॥

अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा ।

नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः

॥१८॥

वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः ।

सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः

॥१९॥

मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः ।

शेषशायी जगन्नाथस्तथा च मधुकैटभौ

॥२०॥

ब्रह्मोवाच

एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् ।

विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्कितः

॥२१॥

विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः ।

तां तदा मेनिरे देवीं वयं विश्वस्य मातरम्

॥२२॥

ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः ।

सुधामये शिवे द्वीपे विहारं विविधं तदा

॥२३॥

सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् ।

देव्यः प्रमुदिताकारा नानाभरणमण्डिताः

॥२४॥

वयमप्यतिरम्यत्वाद्बभूविम विमोहिताः ।

प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान्

॥२५॥

एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् ।

तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः

॥२६॥

श्रीभगवानुवाच

नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।

कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः

॥२७॥

सच्चिदानन्दरूपिण्यै संसारारणये नमः ।

पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः

॥२८॥

सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः ।

अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः

॥२९॥

ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य सम्भवलयावपि मातरद्य ।

शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम्

॥३०॥

विस्तार्य सर्वमखिलं सदसद्विकारं सन्दर्शयस्यविकलं पुरुषाय काले ।

तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नः किल रञ्जनाय

॥३१॥

न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि ।

शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो वम्भण्यते जननि बुद्धिमता जनेन

॥३२॥

प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि ।

अत्स्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वै भवस्य

॥३३॥

त्राता वयं जननि ते मधुकैटभाभ्यां लोकाश्च ते सुवितताः खलु दर्शिता वै ।

नीताः सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम्

॥३४॥

नाहं भवो न च विरिंचि विवेद मातः कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् ।

कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे

॥३५॥

अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः ।

अन्येषु देवि भुवनेपु न सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम्

॥३६॥

याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवैतत् ।

नामापि वक्त्रकुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोः सदैव

॥३७॥

भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि ।

एषाऽऽवयोरविरता किल देवि भूया- द्व्याप्तिः सदैव जननी सुतयोरिवार्थे

॥३८॥

त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्तिनितान्तभूमिः ।

किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात्

॥३९॥

ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धिः ।

किं सत्यमेतदपि देवि तवेच्छया वै कर्तुं क्षमा वयमजे तव शक्तियुक्ताः

॥४०॥

धात्री धराधरसुते न जगद्बिभर्ति आधारशक्तिरखिलं तव वै बिभर्ति ।

सूर्योऽपि भाति वरदे प्रभया युतस्ते त्वं सर्वमेतदखिलं विरजा विभासि

॥४१॥

ब्रह्माऽहमीश्वरवरः किल ते प्रभावा- त्सर्वे वयं जनियुता न यदा तु नित्याः ।

केऽन्ये सुराः शतमखप्रमुखाश्च नित्या नित्या त्वमेव जननी प्रकृतिः पुराणा

॥४२॥

त्वं चेद्भवानि दयसे पुरुषं पुराणं जानेऽहमद्य तव संनिधिगः सदैव ।

नोचेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमःप्रकृतिः सदैव

॥४३॥

विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव ।

त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके

॥४४॥

गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा ।

आम्नाय एव विहितो निगमो भवत्यै सञ्जीवनाय सततं सुरपूर्वजानाम्

॥४५॥

मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं तेषां गताः खलु यतो ननु जीवभावम् ।

अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरङ्गाः

॥४६॥

जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं संहरस्यखिलमेतदिति प्रसिद्धम् ।

नाट्यं नटेन रचितं वितथेऽन्तरङ्गे कार्ये कृते विरमसे प्रथितप्रभावा

॥४७॥

त्राता त्वमेव मम मोहमयाद्भवाब्धे- स्त्वामम्बिके सततमेमि महार्तिदे च ।

रागादिभिर्विरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले

॥४८॥

नमो देवि महाविद्ये नमामि चरणौ तव ।

सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे

॥४९॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं नाम चतुर्थोऽध्यायः ॥ ४ ॥