मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय ६

3
तृतीयस्कन्धः · 6

ब्रह्मणे श्रीदेव्या उपदेशवर्णनम्

ब्रह्मोवाच

इति पृष्टा मया देवी विनयावनतेन च ।

उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा

॥१॥

देव्युवाच

सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च ।

योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात्

॥२॥

आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः ।

विमुक्तः स तु संसारान्मुच्यते नात्र संशयः

॥३॥

एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् ।

द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके

॥४॥

यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा ।

छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः

॥५॥

भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज ।

दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा

॥६॥

नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसंक्षये ।

सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः

॥७॥

अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा ।

श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा

॥८॥

कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा ।

विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च

॥९॥

वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता ।

परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः

॥१०॥

किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि ।

सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज

॥११॥

एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे ।

तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम्

॥१२॥

नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् ।

भवामि शक्तिरूपेण करोमि च पराक्रमम्

॥१३॥

गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा ।

वारूणी चाथ कौबेरी नारसिंही च वासवी

॥१४॥

उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् ।

करोमि सर्वकार्याणि निमित्तं तं विधाय वै

॥१५॥

जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे ।

निशानाथे हिमा कामं प्रभवामि यथा तथा

॥१६॥

मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् ।

जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि

॥१७॥

अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः ।

शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम्

॥१८॥

रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल ।

शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम्

॥१९॥

पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः ।

अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते

॥२०॥

तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि ।

भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम्

॥२१॥

तथा हरिस्तथा शंभुस्तथेन्द्रोऽथ विभावसुः ।

शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा

॥२२॥

धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् ।

अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे

॥२३॥

तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः ।

मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम्

॥२४॥

जलं पिबामि सकलं संहरामि विभावसुम् ।

पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम्

॥२५॥

तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव ।

असतां भावसन्देहः कर्तव्यो न कदाचन

॥२६॥

कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा ।

मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा

॥२७॥

अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे ।

सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः

॥२८॥

शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् ।

अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम्

॥२९॥

गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः ।

ततः सर्वाणि भूतानि रचयस्व यथा पुरा

॥३०॥

व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः ।

स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः

॥३१॥

गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् ।

महासरस्वतीं नाम्ना रजोगुणयुतां वराम्

॥३२॥

श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् ।

वरासनसमारूढां क्रीडार्थं सहचारिणीम्

॥३३॥

एषा सहचरी नित्यं भविष्यति वराङ्गना ।

मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम्

॥३४॥

गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै ।

बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम्

॥३५॥

लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा ।

वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा

॥३६॥

कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् ।

स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम्

॥३७॥

माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा ।

सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा

॥३८॥

यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् ।

करिष्यति पृथिव्यां वै अवतारं तदा हरिः

॥३९॥

तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः ।

दानवानां विनाशं वै करिष्यति जनार्दनः

॥४०॥

भवोऽयं ते सहायश्च भविष्यति महाबलः ।

समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम्

॥४१॥

ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः ।

यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः

॥४२॥

मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च ।

सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल

॥४३॥

शिवश्च माननीयो वै सर्वथा यत्तमोगुणः ।

यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः

॥४४॥

यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति ।

शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः

॥४५॥

वाराही वैष्णवी गौरी नारसिंही सदाशिवा ।

एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव

॥४६॥

नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा ।

जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव

॥४७॥

मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते ।

हृदये ते सदा धार्यः सर्वकामार्थसिद्धये

॥४८॥

इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता ।

विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम्

॥४९॥

सदा वक्षःस्थले स्थाने भविता नात्र संशयः ।

क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा

॥५०॥

त्वयेयं नावमन्तव्या माननीया च सर्वदा ।

लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया

॥५१॥

जीवनार्थं कृता यज्ञा देवानां सर्वथा मया ।

अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा

॥५२॥

त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः ।

मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः

॥५३॥

ये विभेदं करिष्यन्ति मानवा मूढचेतसः ।

निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः

॥५४॥

यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः ।

एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः

॥५५॥

तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा ।

अपरो गुणभेदोऽस्ति शृणु विष्णो ब्रवीमि ते

॥५६॥

मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने ।

गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ

॥५७॥

लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा ।

रजोगुणयुतो भूत्वा विहरस्वानया सह

॥५८॥

वाग्बीजं कामराजं च मायाबीजं तृतीयकम् ।

मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः

॥५९॥

गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् ।

न ते मृत्युभयं विष्णो न कालप्रभवं भयम्

॥६०॥

यावदेष विहारो मे भविष्यति सुनिश्चयः ।

संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम्

॥६१॥

भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ ।

स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा

॥६२॥

उद्गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता ।

कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम

॥६३॥

विहरस्व यथाकामं चिन्तयन्मां सनातनीम् ।

ब्रह्मोवाच ।

इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा

॥६४॥

निर्गुणा शङ्करं देवमवोचदमृतं वचः ।

देव्युवाच ।

गृहाण हरगौरीं त्वं महाकालीं मनोहराम्

॥६५॥

कैलासं कारयित्वा च विहरस्व यथासुखम् ।

मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ

॥६६॥

विहरासुरनाशार्थं रजोगुणतमोगुणौ ।

तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः

॥६७॥

सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ ।

सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः

॥६८॥

एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् ।

वस्तुमात्रं तु यद्दृश्यं संसारे त्रिगुणं हि तत्

॥६९॥

दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति ।

निर्गुणः परमात्मासौ न तु दृश्यः कदाचन

॥७०॥

सगुणा निर्गुणा चाहं समये शङ्करोत्तमा ।

सदाहं कारणं शम्भो न च कार्यं कदाचन

॥७१॥

सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके ।

महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा

॥७२॥

कार्यकारणरूपेण संसरन्ते त्वहर्निशम् ।

सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा

॥७३॥

अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः ।

अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता

॥७४॥

महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् ।

तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि

॥७५॥

कारणं पञ्चभूतानां तानि सर्वसमुद्भवे ।

कर्मेन्द्रियाणि पंचैव पञ्च ज्ञानेन्द्रियाणि च

॥७६॥

महाभूतानि पञ्चैव मनः षोडशमेव च ।

कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः

॥७७॥

परमात्मा पुमानाद्यो न कार्यं न च कारणम् ।

एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे

॥७८॥

संक्षेपेण मया प्रोक्तस्तव तत्र समुद्भवः ।

व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः

॥७९॥

स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते ।

स्मर्तव्याहं सदा देवाः परमात्मा सनातनः

॥८०॥

उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् ।

ब्रह्मोवाच ।

इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः

॥८१॥

विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च ।

महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः

॥८२॥

स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् ।

चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्भुतम्

॥८३॥

विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः ।

न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च ।

पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा

॥८४॥

आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पङ्कजसन्निधौ च ।

महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ

॥८५॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥