सत्यव्रताख्यानवर्णनम्
जनमेजय उवाच
कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः ।
कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे
॥१॥कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः ।
सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात्
॥२॥कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता ।
विस्तरेण वदस्वाद्य कथामेतां मनोरमाम्
॥३॥सूत उवाच
इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः ।
उवाच परमोदारं वचनं रसवच्छुचि
॥४॥व्यास उवाच
शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ।
श्रुता मुनिसमाजेषु मया पूर्वं कुरूद्वह
॥५॥एकदाऽहं कुरुश्रेष्ठ कुर्वंस्तीर्थाटनं शुचि ।
सम्प्राप्तो नैमिषारण्यं पावनं मुनिसेवितम्
॥६॥प्रणम्याहं मुनीन्सर्वान् स्थितस्तत्र वराश्रमे ।
विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः
॥७॥कथाप्रसंग एवासीत्तत्र विप्रसमागमे ।
जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः
॥८॥जमदग्निरुवाच
सन्देहोऽस्ति महाभागा मम चेतसि तापसाः ।
समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम्
॥९॥ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः ।
कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः
॥१०॥सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा ।
आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः
॥११॥सुखसेव्यश्च सततं चाशुतोषश्च मानदाः ।
ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः
॥१२॥एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् ।
जमदग्ने शृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना
॥१३॥सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् ।
परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा
॥१४॥देवानां जननी सैव ब्रह्मादीनां महात्मनाम् ।
आदिप्रकृतिमूलं सा संसारपादपस्य वै
॥१५॥स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् ।
सर्वदैवार्द्रचित्ता सा वरदानाय सेविता
॥१६॥इतिहासं प्रवक्ष्यामि शृण्वन्तु मुनयः शुभम् ।
अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै
॥१७॥कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः ।
अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम्
॥१८॥तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् ।
द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान्
॥१९॥कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् ।
पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः
॥२०॥ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् ।
अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम्
॥२१॥प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् ।
सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु
॥२२॥उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् ।
रथन्तरमगायत्तु स्वरितेन समन्वितम्
॥२३॥तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः ।
देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह
॥२४॥मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः ।
काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे
॥२५॥गोभिलस्तु तदोवाच देवदत्तं सुकोपितः ।
मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः
॥२६॥सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः ।
न मेऽत्र दूषणं किंचित्स्वरभङ्गे महामते
॥२७॥तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः ।
शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः
॥२८॥कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि ।
अक्रोधना हि मुनयो भवन्ति सुखदाः सदा
॥२९॥स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् ।
अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः
॥३०॥मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः ।
तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि
॥३१॥पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु ।
किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम
॥३२॥यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः ।
न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु
॥३३॥देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः ।
करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा
॥३४॥नासने पितृकार्येषु देवकार्येषु स द्विजः ।
मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता
॥३५॥राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु ।
कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः
॥३६॥विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै ।
न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन
॥३७॥आहारादधिकं चान्नं न दातव्यमपण्डिते ।
दाता नरकमाप्नोति ग्रहीता तु विशेषतः
॥३८॥धिग्राज्यं तस्य राज्ञो वै यस्य देशेऽबुधा जनाः ।
पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि
॥३९॥आसने पूजने दाने यत्र भेदो न चाण्वपि ।
मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै
॥४०॥मूर्खा यत्र सुगर्विष्ठा दानमानपरिग्रहैः ।
तस्मिन्देशे न वस्तव्यं पण्डितेन कथञ्चन
॥४१॥असतामुपकाराय दुर्जनानां विभूतयः ।
पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते
॥४२॥भुक्त्वान्नं वेदविद्विप्रो वेदाभ्यासं करोति वै ।
क्रीडन्ति पूर्वजास्तस्य स्वर्गे प्रमुदिताः किल
॥४३॥गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम ।
संसारे मूर्खपुत्रत्वं मरणादतिगर्हितम्
॥४४॥कृपां कुरु महाभाग शापस्यानुग्रहं प्रति ।
दीनोद्धारणशक्तोऽसि पतामि तव पादयोः
॥४५॥लोमश उवाच
इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः ।
स्तुवन्दीनहृदत्यर्थं कृपणः साश्रुलोचनः
॥४६॥गोभिलस्तु तदा तत्र दृष्ट्वा तं दीनचेतसम् ।
क्षणकोपा महान्तो वै पापिष्ठाः कल्पकोपनाः
॥४७॥जलं स्वभावतः शीतं पावकातपयोगतः ।
उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत्
॥४८॥दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् ।
मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति
॥४९॥इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः ।
इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि
॥५०॥कालेन कियता तस्य भार्या रूपमती सती ।
गर्भं दधार काले सा रोहिणी रोहिणीसमा
॥५१॥गर्भाधानादिकं कर्म चकार विधिवद्द्विजः ।
पुंसवनविधानञ्च शृङ्गारकरणं तथा
॥५२॥सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः ।
ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा
॥५३॥शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते ।
दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः
॥५४॥पुत्रदर्शनकं कृत्वा नामकर्म चकार च ।
उतथ्य इति पुत्रस्य कृतं नाम पुराविदा
॥५५॥स चाष्टमे तथा वर्षे शुभे वै शुभवासरे ।
तस्योपनयनं कर्म चकार विधिवत्पिता
॥५६॥वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् ।
नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा
॥५७॥बहुधा पाठितः पित्रा न दधार मतिं शठः ।
मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा
॥५८॥एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः ।
न वेद विधिवत्कर्तुं सन्ध्यावन्दनकं विधिम्
॥५९॥मूर्खोऽभूदिति लोकेषु गता वार्ताऽतिविस्तरा ।
ब्राह्मणेषु च सर्वेषु तापसेष्वितरेषु च
॥६०॥जहास लोकस्तं विप्रं यत्र तत्र गतं मुने ।
पिता माता निनिन्दाथ मूर्खं तमतिभर्त्सयन्
॥६१॥निन्दितोऽथ जनैः कामं पितृभ्यामथ बान्धवैः ।
वैराग्यमगमद्विप्रो जगाम वनमप्यसौ
॥६२॥अन्धो वरस्तथा पङ्गुर्न मूर्खस्तु वरः सुतः ।
इत्युक्तोऽसौ पितृभ्यां वै विवेश काननं प्रति
॥६३॥गंगातीरे शुभे स्थाने कृत्वोटजमनुत्तमम् ।
वन्यां वृत्तिं च सङ्कल्प्य स्थितस्तत्र समाहितः
॥६४॥नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् ।
स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो हि सः
॥६५॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ १० ॥