मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २५

3
तृतीयस्कन्धः · 25

देवीस्थापनवर्णनम्

व्यास उवाच

गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः ।

शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम्

॥१॥

मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल ।

न पिता ते युधाजिच्च शपे ते चरणौ तथा

॥२॥

दुर्गया तौ हतौ संख्ये नापराधो ममात्र वै ।

अवश्यम्भाविभावेषु प्रतीकारो न विद्यते

॥३॥

न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि ।

स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान्

॥४॥

दासोऽस्मि तव भो मातर्यथा मम मनोरमा ।

तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि

॥५॥

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन

॥६॥

दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ।

आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत्

॥७॥

दैवाधीनमिदं सर्वं नात्माधीनं कदाचन ।

न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः

॥८॥

यथा दारुमयी योषा नटादीनां प्रचेष्टते ।

तथा स्वकर्मवशगो देही सर्वत्र वर्तते

॥९॥

अहं वनगतो मातर्नाभवं दुःखमानसः ।

चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च

॥१०॥

मृतो मातामहोऽत्रैव विधुरा जननी मम ।

भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम्

॥११॥

लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता ।

पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया

॥१२॥

माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति ।

विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला

॥१३॥

मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः ।

पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः

॥१४॥

दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे ।

न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित्

॥१५॥

नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे ।

तदाशी नरकं याति न नीवाराशनः क्वचित्

॥१६॥

धर्मस्याचरणं कार्यं पुरुषेण विजानता ।

सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत्

॥१७॥

मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे ।

आहारादि सुखं नूनं भवेत्सर्वासु योनिषु

॥१८॥

प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् ।

स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु

॥१९॥

व्यास उवाच

इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता ।

पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना

॥२०॥

सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता ।

हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै

॥२१॥

न तं वारयितुं शक्ता तदाऽहं न सुतं मम ।

यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत

॥२२॥

तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च ।

नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम्

॥२३॥

पुत्र त्वमसि कल्याण भगिनी मे मनोरमा ।

न क्रोधो न च शोको मे त्वयि पुत्र मनागपि

॥२४॥

कुरु राज्यं महाभाग प्रजाः पालय सुव्रत ।

भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम्

॥२५॥

तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः ।

जगाम भवनं रम्यं यत्र पूर्वं मनोरमा

॥२६॥

न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः ।

दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम्

॥२७॥

सिंहासनं तथा हैमं कारयित्वा मनोहरम् ।

सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम्

॥२८॥

स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् ।

राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम्

॥२९॥

पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः ।

माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा

॥३०॥

इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् ।

प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम्

॥३१॥

प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने ।

द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः

॥३२॥

हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् ।

प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः

॥३३॥

उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः ।

ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप

॥३४॥

व्यास उवाच

प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः ।

पूजां नानाविधां राजा चकारातिविधानतः

॥३५॥

कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् ।

विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह

॥३६॥

राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ ।

वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः

॥३७॥

यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा ।

प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत्

॥३८॥

धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा ।

नाधर्मे रमते चित्तं केषामपि महीतले

॥३९॥

ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः ।

देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता

॥४०॥

सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् ।

कारयित्वा च प्रासादं स्थापयामास भक्तितः

॥४१॥

तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः ।

पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह

॥४२॥

विख्याता सा बभूवाथ दुर्गादेवी धरातले ।

देशे देशे महाराज तस्या भक्तिर्व्यवर्धत

॥४३॥

सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा ।

भजनीया भवानी तु सर्वेषामभवत्तदा

॥४४॥

शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप ।

आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः

॥४५॥

नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः ।

अर्चनं हवनं यागं देव्या भक्तिपरा जनाः

॥४६॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीस्थापनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥