मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २७

3
तृतीयस्कन्धः · 27

देवीपूजामहत्त्ववर्णनम्

व्यास उवाच

हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्किताम् ।

गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम्

॥१॥

जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् ।

सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम्

॥२॥

क्षामां गर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् ।

वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु

॥३॥

अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् ।

एकवंशसमुद्भूतां कन्यां सम्यक्प्रपूजयेत्

॥४॥

ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा ।

लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा

॥५॥

ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः ।

वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः

॥६॥

कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् ।

नवरात्रविधानेन भक्तिपूर्वं सदैव हि

॥७॥

अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके ।

अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा

॥८॥

पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।

प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह

॥९॥

अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा ।

नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः

॥१०॥

पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः ।

फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम्

॥११॥

उपवासे ह्यशक्तानां नवरात्रव्रते पुनः ।

उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप

॥१२॥

सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः ।

त्रिरात्रकरणात्सर्वं फलं भवति पूजनात्

॥१३॥

पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा ।

सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः

॥१४॥

व्रतानि यानि चान्यानि दानानि विविधानि च ।

नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले

॥१५॥

धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् ।

आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा

॥१६॥

विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः ।

तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम्

॥१७॥

विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् ।

राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा

॥१८॥

पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् ।

ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः

॥१९॥

वन्ध्या च या भवेन्नारी विधवा धनवर्जिता ।

अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम्

॥२०॥

नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले ।

स कथं विभवं प्राप्य मोदते च तथा दिवि

॥२१॥

रक्तचन्दनसंमिश्रैः कोमलैर्बिल्वपत्रकैः ।

भवानी पूजिता येन स भवेन्नृपतिः क्षितौ

॥२२॥

नाराधिता येन शिवा सनातनी दुःखार्तिहा सिद्धिकरी जगद्वरा ।

दुःखावृतः शत्रुयुतश्च भूतले नूनं दरिद्रो भवतीह मानवः

॥२३॥

यां विष्णुरिन्द्रो हरपद्मजौ तथा वह्निः कुबेरो वरुणो दिवाकरः ।

ध्यायन्ति सर्वार्थसमाप्तिनन्दिता- स्तां किं मनुष्या न भजन्ति चण्डिकाम्

॥२४॥

स्वाहा स्वधा नाम मनुप्रभावै- स्तृप्यन्ति देवाः पितरस्तथैव ।

यज्ञेषु सर्वेषु मुदा हरन्ति यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः

॥२५॥

यस्येच्छया सृजति विश्वमिदं प्रजेशो नानावतारकलनं कुरुते हरिश्च ।

नूनं करोति जगतः किल भस्म शम्भु- स्तां शर्मदां न भजते नु कथं मनुष्यः

॥२६॥

नैकोऽस्ति सर्वभुवनेषु तया विहीनो देवो नरोऽथ विहगः किल पन्नगो वा ।

गन्धर्वराक्षसपिशाचनगेषु नूनं यः स्पन्दितुं भवति शक्तियुतो यथेच्छम्

॥२७॥

तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् ।

व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम्

॥२८॥

महापातकसंयुक्तो नवरात्रव्रतं चरेत् ।

मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा

॥२९॥

पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः ।

कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम

॥३०॥

अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च ।

भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः

॥३१॥

भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः ।

कुटुम्बभरणं तत्र चकारातिनिराकुलः

॥३२॥

सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् ।

अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः

॥३३॥

सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा ।

भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक्

॥३४॥

एवं गच्छति काले वै सुशिलो नामतो गुणैः ।

दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः

॥३५॥

सुशील उवाच

भो भूदेव कृपां कृत्वा वदस्वाद्य महामते ।

कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै

॥३६॥

धनैषणा मे नैवास्ति धनी स्यामिति मानद ।

कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम

॥३७॥

पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् ।

तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम्

॥३८॥

विसर्जितो यतो गेहाद्गतो बालो रुदन्मया ।

अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना

॥३९॥

विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् ।

दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम्

॥४०॥

तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे ।

तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा

॥४१॥

येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् ।

तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल

॥४२॥

त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह ।

तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च

॥४३॥

व्यास उवाच

इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः ।

उवाच परमप्रीतस्तं वैश्यं नृपसत्तम

॥४४॥

वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् ।

पूजनं भगवत्याश्च हवनं भोजनं तथा

॥४५॥

वेदपारायणं शक्तिजपहोमादिकं तथा ।

कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति

॥४६॥

एतस्मादपरं किञ्चिद्व्रतं नास्ति धरातले ।

नवरात्राभिधं वैश्य पावनं सुखदं तथा

॥४७॥

ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् ।

शत्रुनाशकरं कामं नवरात्रव्रतं सदा

॥४८॥

राज्यभ्रष्टेन रामेण सीताविरहितेन च ।

किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै

॥४९॥

प्रतप्तेनापि रामेण सीताविरहवह्निना ।

विधिवत्पूजिता देवी नवरात्रव्रतेन वै

॥५०॥

तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे ।

हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम्

॥५१॥

मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् ।

पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम्

॥५२॥

नवरात्रव्रतस्यास्य प्रभावेण विशांवर ।

सुखं भूमितले प्राप्तं रामेणामिततेजसा

॥५३॥

व्यास उवाच

इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् ।

कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप

॥५४॥

जजाप परया भक्त्या नवरात्रमतन्द्रितः ।

नानाविधोपहारैश्च पूजयामास सादरम्

॥५५॥

नवसंवत्सरं चैव मायाबीजपरायणः ।

नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी

॥५६॥

अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ ।

नानावरप्रदानैश्च कृतकृत्यञ्चकार तम्

॥५७॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीपूजामहत्त्ववर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥