मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १६

3
तृतीयस्कन्धः · 16

युधाजिद्भारद्वाजयोः संवादवर्णनम्

व्यास उवाच

युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः ।

मनोरमां च पप्रच्छ सुदर्शनजिघांसया

॥१॥

सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् ।

शुभे दिनेऽथ दौहित्रं स्थापयामास चासने

॥२॥

मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः ।

अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः

॥३॥

भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः ।

उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह

॥४॥

विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा ।

अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः

॥५॥

हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना ।

नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा

॥६॥

केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः ।

सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः

॥७॥

मनोरमातिसाध्वी सा क्व गता सुतसंयुता ।

पिताऽस्या निहतः संख्ये राज्यलोभेन वैरिणा

॥८॥

इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः ।

अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः

॥९॥

युधाजिदपि दौहित्रं स्थापयित्वा विधानतः ।

राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति

॥१०॥

श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् ।

हन्तुकामो जगामाशु चित्रकूटं स पर्वतम्

॥११॥

निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् ।

दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम्

॥१२॥

श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता ।

आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम्

॥१३॥

तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना ।

किं करोमि क्व गच्छामि युधाजित्समुपस्थितः

॥१४॥

पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः ।

सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः

॥१५॥

पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः ।

मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा

॥१६॥

गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते ।

द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे

॥१७॥

धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः ।

च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः

॥१८॥

वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः ।

राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः

॥१९॥

एते चान्ये च मुनयो भारद्वाजादयः शुभाः ।

वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः

॥२०॥

दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने ।

आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते

॥२१॥

पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् ।

धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः

॥२२॥

तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः ।

आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम्

॥२३॥

श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् ।

उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः

॥२४॥

यदा निरगमत्तत्र भृत्यद्वयसमन्वितः ।

वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः

॥२५॥

कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः ।

आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह

॥२६॥

तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा ।

आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम्

॥२७॥

तासां मध्ये वरारोहा याज्ञसेनी समागता ।

जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा

॥२८॥

तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् ।

पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना

॥२९॥

भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी ।

रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता

॥३०॥

बर्बूलवनमध्यस्था लवङ्गलतिका यथा ।

राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी

॥३१॥

सत्यं वद महाभाग कस्येयं वल्लभाबला ।

राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज

॥३२॥

धौम्य उवाच

पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा ।

पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे

॥३३॥

जयद्रथ उवाच

क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः ।

वसन्त्यत्र वने वीरा वीतशोका महाबलाः

॥३४॥

धौम्य उवाच

मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः ।

आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः

॥३५॥

तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः ।

द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह

॥३६॥

कुशलं ते वरारोहे क्व गताः पतयश्च ते ।

एकादश गतान्यद्य वर्षाणि च वने किल

॥३७॥

द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज ।

विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः

॥३८॥

एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः ।

जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान्

॥३९॥

कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः ।

कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः

॥४०॥

वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः ।

यज्ञकर्ता च दाता च शरण्यः साधुसंमतः

॥४१॥

नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः ।

एकोनशतयज्ञान्वै स चकार सदक्षिणान्

॥४२॥

सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि ।

निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये

॥४३॥

कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः ।

राज्यं छलेन हृतवान्महीं चैव ससागराम्

॥४४॥

सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा ।

कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम्

॥४५॥

अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना ।

वामनं रूपमास्थाय यज्ञपातं चिकीर्षता

॥४६॥

न च विश्वसितव्यं वै कदाचित्केनचित्तथा ।

लोभश्चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम्

॥४७॥

लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल ।

परलोकाद्भयं नास्ति कस्यचित्कर्हिचिन्मुने

॥४८॥

मनसा कर्मणा वाचा परस्वादानहेतुतः ।

प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः

॥४९॥

देवानाराध्य सततं वाञ्छन्ति च धनं नराः ।

न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा

॥५०॥

अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् ।

वाणिज्येनाथ दानेन चौर्येणापि बलेन वा

॥५१॥

विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु ।

देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति

॥५२॥

नात्र किं परवित्तेच्छा वाणिज्येन परन्तप ।

ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति

॥५३॥

एवं हि प्राणिनः सर्वे परस्वादानतत्पराः ।

वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः

॥५४॥

वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च ।

लोभमोहावृतानां वै कृतं तदकृतं भवेत्

॥५५॥

तस्मादेनं महाभाग विसर्जय गृहं प्रति ।

सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम

॥५६॥

इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् ।

उवाच वचनं राज्ञे भारद्वाजः प्रतापवान्

॥५७॥

गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम ।

नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता

॥५८॥

युधाजिदुवाच

मुने मुञ्च हठं सौम्य विसर्जय मनोरमाम् ।

न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः

॥५९॥

ऋषिरुवाच

नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् ।

विश्वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा

॥६०॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥