मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय ३०

3
तृतीयस्कन्धः · 30

रामाय देवीवरदानम्

व्यास उवाच

एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः ।

आजगाम तदाऽऽकाशान्नारदो भगवानृषिः

॥१॥

रणयन्महतीं वीणां स्वरग्रामविभूषिताम् ।

गायन्बृहद्रथं साम तदा तमुपतस्थिवान्

॥२॥

दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् ।

आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः

॥३॥

पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः ।

उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः

॥४॥

उपविष्टं तदा रामं सानुजं दुःखमानसम् ।

पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः

॥५॥

कथं राघव शोकार्तो यथा वै प्राकृतो नरः ।

हृतां सीतां च जानामि रावणेन दुरात्मना

॥६॥

सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् ।

पौलस्त्येन हृतां मोहान्मरणं स्वमजानता

॥७॥

तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै ।

मैथिलीहरणं जातमेतदर्थं नराधिप

॥८॥

पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी ।

रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता

॥९॥

प्रार्थिता रावणेनासौ भव भार्येति राघव ।

तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात्

॥१०॥

शशाप तत्क्षणं राम रावणं तापसी भृशम् ।

कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम्

॥११॥

दुरात्मंस्तव नाशार्थं भविष्यामि धरातले ।

अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि

॥१२॥

सेयं रमांशसम्भूता गृहीता तेन रक्षसा ।

विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात्

॥१३॥

तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः ।

प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः

॥१४॥

कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा ।

सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम्

॥१५॥

कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् ।

पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा

॥१६॥

सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता ।

जाता कमलपत्राक्षी वर्तते वीक्षिता मया

॥१७॥

उपायं कथयाम्यद्य तस्य नाशाय राघव ।

व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम्

॥१८॥

नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् ।

सर्वसिद्धिकरं राम जपहोमविधानतः

॥१९॥

मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः ।

दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि

॥२०॥

विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा ।

तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै

॥२१॥

सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् ।

विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै

॥२२॥

विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः ।

भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च

॥२३॥

गुरुणा हृतदारेण कृतमेतन्महाव्रतम् ।

तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च

॥२४॥

इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् ।

त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम्

॥२५॥

हरिणा मधुनाशाय कृतं मेरौ महामते ।

विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः

॥२६॥

श्रीराम उवाच

का देवी किं प्रभावा सा कुतो जाता किमाह्वया ।

व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे

॥२७॥

नारद उवाच

शृणु राम सदा नित्या शक्तिराद्या सनातनी ।

सर्वकामप्रदा देवी पूजिता दुःखनाशिनी

॥२८॥

कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह ।

तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत्

॥२९॥

विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम ।

रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा

॥३०॥

यच्च किञ्चित्क्वचिद्वस्तु सदसद्भुवनत्रये ।

तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत्

॥३१॥

न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः ।

न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः

॥३२॥

तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै ।

संयुता विहरत्येव युगादौ निर्गुणा शिवा

॥३३॥

सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् ।

पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः

॥३४॥

तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ।

सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी

॥३५॥

असंख्यातानि नामानि तस्या ब्रह्मादिभिः किल ।

गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे

॥३६॥

अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः ।

असंख्येयानि नामानि भवन्ति रघुनन्दन

॥३७॥

राम उवाच

विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः ।

करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा

॥३८॥

नारद उवाच

पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् ।

उपवासान्नवैव त्वं कुरु राम विधानतः

॥३९॥

आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते ।

देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम्

॥४०॥

व्यास उवाच

तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् ।

कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम्

॥४१॥

विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः ।

सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा

॥४२॥

उपवासपरो रामः कृतवान्व्रतमुत्तमम् ।

होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम्

॥४३॥

भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् ।

अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा

॥४४॥

सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता ।

गिरिशृङ्गे स्थितोवाच राघवं सानुजं गिरा

॥४५॥

मेघगम्भीरया चेदं भक्तिभावेन तोषिता ।

देव्युवाच ।

राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते

॥४६॥

प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते ।

नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे

॥४७॥

रावणस्य वधायैव प्रार्थितस्त्वमरैरसि ।

पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम्

॥४८॥

त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता ।

भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम्

॥४९॥

अकूपारं प्रमन्थानं कृत्वा देवानपोषयः ।

कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम्

॥५०॥

धृतवानसि यद्राम हिरण्याक्षं जघान च ।

नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा

॥५१॥

प्रह्लादं राम रक्षित्वा हतवानसि राघव ।

वामनं वपुरास्थाय पुरा छलितवान्बलिम्

॥५२॥

भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः ।

जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः

॥५३॥

कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे ।

तथेदानीं तु काकुत्स्थ जातो दशरथात्मज

॥५४॥

प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः ।

कपयस्ते सहाया वै देवांशा बलवत्तराः

॥५५॥

भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी ।

शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः

॥५६॥

भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ ।

वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया

॥५७॥

हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् ।

एकादश सहस्राणि वर्षाणि पृथिवीतले

॥५८॥

कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः ।

व्यास उवाच ।

इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः

॥५९॥

समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने ।

विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः

॥६०॥

कपिपतिबलयुक्तः सानुजः श्रीपतिश्च प्रकटपरमशक्त्या प्रेरितः पूर्णकामः ।

उदधितटगतोऽसौ सेतुबन्धं विधाया- प्यहनदमरशत्रुं रावणं गीतकीर्तिः

॥६१॥

यः शृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् ।

स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम्

॥६२॥

सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च ।

श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः

॥६३॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामाय देवीवरदानं नाम त्रिंशोऽध्यायः ॥ ३० ॥