मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १३

3
तृतीयस्कन्धः · 13

विष्णुनानुष्ठानवर्णनम्

राजोवाच

हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह ।

जगत्कारणरूपेण विष्णुना प्रभविष्णुना

॥१॥

के सहायास्तु तत्रासन्ब्राह्मणाः के महामते ।

ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप

॥२॥

पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा ।

श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः

॥३॥

व्यास उवाच

राजञ्छृणु महाभाग विस्तरं परमाद्भुतम् ।

यथा भगवता यज्ञः कृतश्च विधिपूर्वकः

॥४॥

विसर्जिता यदा देव्या दत्त्वा शक्तीश्च तास्त्रयः ।

काजेशाः पुरुषा जाता विमानवरमास्थिताः

॥५॥

प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः ।

चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः

॥६॥

आधारशक्तिरचला मुक्ता देव्या स्वयं ततः ।

तदाधारा स्थिता जाता धरा मेदःसमन्विता

॥७॥

मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता ।

धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः

॥८॥

मही चापि महीयस्त्वाद्धृता सा शेषमस्तके ।

गिरयश्च कृताः सर्वे धारणार्थ प्रविस्तराः

॥९॥

लोहकीलं यथा काष्ठे तथा ते गिरयः कृताः ।

महीधरो महाराज प्रोच्यते विबुधैर्जनैः

॥१०॥

जातरूपमयो मेरुर्बहुयोजनविस्तरः ।

कृतो मणिमयैः शृङ्गैः शोभितः परमाद्भुतः

॥११॥

मरीचिर्नारदोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः ।

दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः

॥१२॥

मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश ।

ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः

॥१३॥

ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा ।

मनुष्यपशुसर्पादिजातिभेदैरनेकधा

॥१४॥

ब्रह्मणश्चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् ।

शतरूपा तथा नारी सञ्जाता वामभागतः

॥१५॥

प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः ।

तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः

॥१६॥

एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्भवः ।

चकार ब्रह्मलोकञ्च मेरुशृङ्गे मनोहरम्

॥१७॥

वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् ।

क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम्

॥१८॥

शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह ।

समासाद्य भूतगणं विजहार यथारुचि

॥१९॥

स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः ।

तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम्

॥२०॥

समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः ।

चतुर्दन्तस्तथा नागः कामधेनुश्च कामदा

॥२१॥

उच्चैःश्रवास्तथाश्वो वै रम्भाद्यप्सरसस्तथा ।

इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम्

॥२२॥

धन्वन्तरिश्चन्द्रमाश्च सागराच्च समुद्बभौ ।

स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ

॥२३॥

एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम ।

देवतिर्यङ्मनुष्यादिभेदैर्विविधकल्पिता

॥२४॥

अण्डजाः स्वेदजाश्चैव चोद्भिज्जाश्च जरायुजाः ।

चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल

॥२५॥

एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः ।

विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम्

॥२६॥

एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः ।

महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके

॥२७॥

एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा ।

सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम्

॥२८॥

यत्र दृष्ट्वा महामायां मन्त्रश्चासादितः शुभः ।

स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा

॥२९॥

यज्ञं कर्तुं मनश्चक्रे अम्बिकाया रमापतिः ।

उत्तीर्य भुवनात्तस्मात्समाहूय महेश्वरम्

॥३०॥

ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् ।

वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम्

॥३१॥

सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् ।

महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम्

॥३२॥

मण्डपं विततं तत्र कारयामास शिल्पिभिः ।

ऋत्विजो वरयामास सप्तविंशतिसुव्रतान्

॥३३॥

चितिञ्च कारयामास वेदीश्चैव सुविस्तराः ।

प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान्

॥३४॥

जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते ।

कृते तु वितते होमे वागुवाचाशरीरिणी

॥३५॥

विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा ।

विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा

॥३६॥

मान्यश्च पूजनीयश्च समर्थश्च सुरेष्वपि ।

सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्च सवासवाः

॥३७॥

प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः ।

वरदस्त्वं च सर्वेषां भविता मानवेषु वै

॥३८॥

कामदः सर्वदेवानां परमः परमेश्वरः ।

सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्च याज्ञिकैः

॥३९॥

त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि ।

श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः

॥४०॥

शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम ।

पुराणेषु च सर्वेषु वेदेषु विततेषु च

॥४१॥

त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले

॥४२॥

तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् ।

अवताराः सुविख्याताः पृथिव्यां तव भागशः

॥४३॥

भविष्यन्ति धरायां वै माननीया महात्मनाम् ।

अवतारेषु सर्वेषु नानायोनिषु माधव

॥४४॥

विख्यातः सर्वलोकेषु भविता मधुसूदन ।

अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी

॥४५॥

भविष्यति ममांशेन सर्वकार्यप्रसाधिनी ।

वाराही नारसिंही च नानाभेदैरनेकधा

॥४६॥

नानायुधाः शुभाकाराः सर्वाभरणमण्डिताः ।

ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव

॥४७॥

साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः ।

तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः

॥४८॥

पूजनीयाः प्रयत्नेन माननीयाश्च सर्वथा ।

नूनं ता भारते खण्डे शक्तयः सर्वकामदाः

॥४९॥

भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च ।

तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि

॥५०॥

द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले ।

ताश्च त्वां वै महाभाग मानवा भुवि मण्डले

॥५१॥

अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे ।

अर्चासु चोपहारैश्च नानाभावसमन्विताः

॥५२॥

पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा ।

महिमा तव भूर्लोके स्वर्गे च मधुसूदन

॥५३॥

पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः ।

व्यास उवाच ।

इति दत्त्वा वरान्वाणी विरराम खसम्भवा

॥५४॥

भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव ।

समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः

॥५५॥

विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ ।

जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः

॥५६॥

स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः ।

मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परम्

॥५७॥

ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ

॥५८॥

श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः ।

चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता- स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः

॥५९॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बिकामखस्य विष्णुनानुष्ठानवर्णनं त्रयोदशोऽध्यायः ॥ १३ ॥