ब्रह्मादीनाङ्गतिवर्णनम्
व्यास उवाच
यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम ।
तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः
॥१॥नारद उवाच
व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम ।
उत्पन्नो हृदयेऽत्यर्थं संदेहासारपीडितः
॥२॥गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् ।
अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम्
॥३॥पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो ।
भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम्
॥४॥रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते ।
आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः
॥५॥तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ ।
निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे
॥६॥सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् ।
न तीर्थेषु न देवेषु साधनेष्वितरेषु च
॥७॥अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप ।
विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत्
॥८॥कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् ।
स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम्
॥९॥ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः ।
मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे
॥१०॥ब्रह्मोवाच
किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् ।
त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात्
॥११॥रागी कोऽपि न जानाति संसारेऽस्मिन्महामते ।
विरक्तश्च विजानाति निरीहो यो विमत्सरः
॥१२॥एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम्
॥१३॥नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् ।
कर्णिकायां समाविष्टश्चिन्तामकरवं तदा
॥१४॥कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे ।
को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये
॥१५॥न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् ।
पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः
॥१६॥पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च ।
भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः
॥१७॥उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् ।
अन्वेषमाणो धरणीं नावाप तां यदा तदा
॥१८॥तपस्तपेति चाकाशे वागभूदशरीरिणी ।
ततो मया तपस्तप्तं पद्मे वर्षसहस्रकम्
॥१९॥सृजेति पुनरुद्भूता वाणी तत्र श्रुता मया ।
विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम्
॥२०॥तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ ।
ताभ्यां विभीषितश्चाहं युद्धाय मकरालये
॥२१॥ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् ।
तदा तत्र मया दृष्टः पुरुषः परमाद्भुतः
॥२२॥मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः ।
शेषशायी जगन्नाथो वनमालाविभूषितः
॥२३॥शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः ।
तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम्
॥२४॥योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् ।
शयानं तं समालोक्य भोगिभोगोपरि स्थितम्
॥२५॥चिन्ता ममाद्भुता जाता किं करोमीति नारद ।
मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी
॥२६॥देहान्निर्गत्य सा देवी गगने संस्थिता शिवा ।
अवितर्क्यशरीरा सा दिव्याभरणमण्डिता
॥२७॥विष्णोर्देहं विहायाशु विरराज नभःस्थिता ।
उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः
॥२८॥पंचवर्षसहस्राणि कृतवान् युद्धमुत्तमम् ।
तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ
॥२९॥उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ ।
रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ
॥३०॥त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा ।
संस्तुता परमा शक्तिरुवाचास्मानवस्थितान्
॥३१॥कृपावलोकनैः कृत्वा पावनैर्मुदितानथ ।
देव्युवाच ।
काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः
॥३२॥सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ ।
कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः
॥३३॥प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः ।
ब्रह्मोवाच ।
तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु
॥३४॥अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः ।
न मही वितता मातः सर्वत्र विततं जलम्
॥३५॥न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च ।
तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना
॥३६॥झटित्येवागतं तत्र विमानं गगनाच्छुभम् ।
सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः
॥३७॥विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्भुतम् ।
तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम्
॥३८॥समारुह्योपविष्टाः स्मो विमाने रत्नमण्डिते ।
मुक्तादामसुसंवीते किङ्किणीजालशब्दिते
॥३९॥सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्किताः ।
सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान्
॥४०॥स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे
॥४१॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मादीनाङ्गतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥