मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १७

3
तृतीयस्कन्धः · 17

विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम्

व्यास उवाच

इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः ।

मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः

॥१॥

किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत ।

बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम्

॥२॥

रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता ।

राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत्

॥३॥

नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् ।

गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल

॥४॥

निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् ।

हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति

॥५॥

प्रधान उवाच

साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः ।

विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष

॥६॥

पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः ।

विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात्

॥७॥

नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् ।

उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः

॥८॥

निमन्त्रितो वसिष्ठेन भोजनाय महात्मना ।

ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः

॥९॥

नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् ।

भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम्

॥१०॥

प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः ।

ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम्

॥११॥

विश्वामित्र उवाच

मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् ।

नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप

॥१२॥

वसिष्ठ उवाच

होमधेनुरियं राजन्न ददामि कथञ्चन ।

सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु

॥१३॥

विश्वामित्र उवाच

अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् ।

द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ

॥१४॥

वसिष्ठ उवाच

कामं गृहाण नृपते बलादद्य यथारुचि ।

नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात्

॥१५॥

तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् ।

नयध्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः

॥१६॥

ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् ।

वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना

॥१७॥

मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् ।

मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे

॥१८॥

बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे ।

किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल

॥१९॥

इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह ।

हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम्

॥२०॥

उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा ।

सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः

॥२१॥

सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता ।

एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः

॥२२॥

हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् ।

ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः

॥२३॥

तप्त्वा बहूनि वर्षाणि तपो घोरं महावने ।

ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः

॥२४॥

तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् ।

कुलनाशकरं नूनं तापसैः सह संयुगम्

॥२५॥

मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् ।

सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम्

॥२६॥

बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् ।

वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ

॥२७॥

दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् ।

ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति

॥२८॥

वज्रं तृणायते राजन् दैवयोगान्न संशयः ।

तृणं वज्रायते क्वापि समये दैवयोगतः

॥२९॥

शशको हन्ति शार्दूलं मशको वै तथा गजम् ।

साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम्

॥३०॥

व्यास उवाच

तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः ।

प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः

॥३१॥

मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता ।

पालयामास पुत्रं तं सुदर्शनमृतव्रतम्

॥३२॥

दिने दिने कुमारोऽसौ जगामोपचयं ततः ।

मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः

॥३३॥

एकस्मिन्समये तत्र विदल्लं समुपागतम् ।

क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके

॥३४॥

सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् ।

अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः

॥३५॥

बीजं वै कामराजाख्यं गृहीतं मनसा तदा ।

जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम्

॥३६॥

भावियोगान्महाराज कामराजाख्यमद्भुतम् ।

स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै

॥३७॥

तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् ।

ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम्

॥३८॥

प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि ।

विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम्

॥३९॥

वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः ।

मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा

॥४०॥

धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः ।

अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना

॥४१॥

कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह ।

रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम्

॥४२॥

गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्भुताम् ।

दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः

॥४३॥

वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् ।

मातरं सेवमानस्तु विजहार नदीतटे

॥४४॥

शरासनञ्च सम्प्राप्तं विशिखाश्च शिलाशिताः ।

तूणीरकवचं तस्मै दत्तं चाम्बिकया वने

॥४५॥

एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया ।

नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता

॥४६॥

शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् ।

सर्वलक्षणसम्पन्नं शूरं काममिवापरम्

॥४७॥

बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् ।

चकमे मनसा तं वै वरं वरयितुं धिया

॥४८॥

स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे ।

उवाच वचनं चेदं समाश्वास्य सुसंस्थिता

॥४९॥

वरं वरय सुश्रोणि मम भक्तः सुदर्शनः ।

सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि

॥५०॥

एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् ।

अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी

॥५१॥

उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः ।

प्रमोदे कारणं बाला नोवाचातित्रपान्विता

॥५२॥

जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः ।

सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम्

॥५३॥

कदाचित्सा विहारार्थमवापोपवनं शुभम् ।

सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम्

॥५४॥

पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला ।

अपश्यद्ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम्

॥५५॥

तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः ।

कुतो देशान्महाभाग कृतमागमनं त्वया

॥५६॥

द्विज उवाच

भारद्वाजाश्रमाद्बाले नूनमागमनं मम ।

जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे

॥५७॥

शशिकलोवाच

तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै ।

लोकातिगं विशेषेण प्रेक्षणीयतमं किल

॥५८॥

ब्राह्मण उवाच

ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः ।

यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः

॥५९॥

तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे ।

येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः

॥६०॥

एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा ।

गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात्

॥६१॥

तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति ।

योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव

॥६२॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥