मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय ११

3
तृतीयस्कन्धः · 11

सत्यव्रताख्यानवर्णनम्

लोमश उवाच

न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा ।

ध्यानं न देवतानाञ्च न चैवाराधनं तथा

॥१॥

नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः ।

प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम्

॥२॥

न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः ।

शौचं स्नानविधिञ्चैव तथाचमनकं पुनः

॥३॥

प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् ।

न सन्ध्यां समिधो होमं विवेद च तथा मुनिः

॥४॥

सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् ।

स्नानं च शूद्रवत्तत्र गंगायां मन्त्रवर्जितम्

॥५॥

फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया ।

भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा

॥६॥

सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः ।

जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै

॥७॥

नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् ।

सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति

॥८॥

कदा मे मरणं भावि दुःखं जीवामि कानने ।

जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम्

॥९॥

दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम ।

प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना

॥१०॥

यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः ।

अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः

॥११॥

किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् ।

न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने

॥१२॥

न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला ।

तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः

॥१३॥

न च तीर्थे तपस्तप्तं सेविता न च साधवः ।

न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः

॥१४॥

वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः ।

अहं सुमूढः सञ्जातो दैवयोगेन केनचित्

॥१५॥

न जानामि तपस्तप्तुं किं करोमि सुसाधनम् ।

मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल

॥१६॥

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।

वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा

॥१७॥

ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः ।

कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः

॥१८॥

एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः ।

स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले

॥१९॥

विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः ।

कालातिवाहनं शान्तश्चकार विजने वने

॥२०॥

एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपञ्च गतानि कामम् ।

नाराधनं न च जपं न विवेद मन्त्रं कालातिवाहनमसौ कृतवान् वने वै

॥२१॥

जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् ।

जातं यशश्च सकलेषु जनेषु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी

॥२२॥

तत्रैकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः ।

क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृतिर्हननकर्मणि चातिदक्षः

॥२३॥

तेनातिकृष्टेन शरेण विद्धः कोलः किरातेन धनुर्धरेण ।

पलायमानो भयविह्वलश्च मुनेः समीपं विद्रुतो जगाम

॥२४॥

विकंपमानो रुधिरार्द्रदेहो यदा जगामाश्रममण्डलं वै ।

कालस्तदातीव दयार्द्रभावं प्राप्तो मुनिस्तत्र समीक्ष्य दीनम्

॥२५॥

अग्रे व्रजन्तं रुधिरार्द्रदेहं दृष्ट्वा मुनिः सूकरमाशु विद्धम् ।

दयाभिवेशादतिकम्पमानः सारस्वतं बीजमथोच्चचार

॥२६॥

अज्ञातपूर्वं च तथाश्रुतञ्च दैवान्मुखे वै समुपागतञ्च ।

न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा

॥२७॥

कोलः प्रविश्याश्रममण्डलं तद् गतो निकुञ्जे प्रविलीय गूढम् ।

अप्राप्तमार्गो दृढनिर्विण्णचेताः प्रवेपमानः शरपीडितत्वात्

॥२८॥

ततः क्षणादाकरणान्तकृष्टं चापं दधानोऽतिकरालदेहः ।

प्राप्तस्तदन्ते स च मृग्यमाणो निषादराजः किल काल एव

॥२९॥

दृष्ट्वा मुनिं तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम् ।

व्याधः प्रणम्य प्रमुखे स्थितोऽसौ पप्रच्छ कोलः क्व गतो द्विजेश

॥३०॥

जानामि तेऽहं सुव्रतं प्रसिद्धं तेनाद्य पृच्छे मम बाणविद्धः ।

क्षुधार्दितं मे सकलं कुटुम्बं विभर्तुकामः किल आगतोऽस्मि

॥३१॥

वृत्तिर्ममैषा विहिता विधात्रा नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि ।

भर्तव्यमेवेह कुटुम्बमञ्जसा केनाप्युपायेन शुभाशुभेन

॥३२॥

सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि क्षुधातुरो वर्तते पोष्यवर्गः ।

क्वासो गतः सूकरो बाणविद्धः पृच्छाम्यहं वाडव ब्रूहि तूर्णम्

॥३३॥

तेनेति पृष्टः स मुनिर्महात्मा वितर्कमग्नः प्रबभूव कामम् ।

सत्यव्रतं मेऽद्य भवेन्न भग्नं न दृष्ट इत्युच्चरितेन किं वै

॥३४॥

गतोऽत्र कोलः शरविद्धदेहः कथं ब्रवीम्यद्य मृषाऽमृषा वा ।

क्षुधार्दितोऽयं परिपृच्छतीव दृष्ट्वा हनिष्यत्यपि सूकरं वै

॥३५॥

सत्यं न सत्यं खलु यत्र हिंसा दयान्वितं चानृतमेव सत्यम् ।

हितं नराणां भवतीह येन तदेव सत्यं न तथाऽन्यथैव

॥३६॥

हितं कथं स्यादुभयोर्विरुद्धयो- स्तदुत्तरं किं न यथा मृषा वचः ।

विचारयन्वाडव धर्मसङ्कटे न प्राप वक्तुं वचनं यथोचितम्

॥३७॥

बाणाहतं वीक्ष्य दयान्वितञ्च कोलं तदन्ते समुदाहृतं वचः ।

तेन प्रसन्ना निजबीजतः शिवा विद्यां दुरापां प्रददौ च तस्मै

॥३८॥

बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला ।

वाल्मीकेश्च यथापूर्वं तथा स ह्यभवत्कविः

॥३९॥

तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् ।

सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः

॥४०॥

या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ।

अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः

॥४१॥

इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः ।

निराशः सूकरे तस्मिन्परावृत्तो निजालये

॥४२॥

ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः ।

प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः

॥४३॥

सारस्वतं ततो बीजं जजाप विधिपूर्वकम् ।

पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले

॥४४॥

प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा ।

आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल

॥४५॥

तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे ।

येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः

॥४६॥

तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः ।

आदिशक्तिः परा देवी जगतां कारणं हि सा

॥४७॥

तस्या यज्ञं महाराज कुरु वेदविधानतः ।

सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा

॥४८॥

स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता ।

ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते

॥४९॥

अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः ।

दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान्

॥५०॥

जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा ।

दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ

॥५१॥

अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् ।

तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान्

॥५२॥

तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् ।

पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः

॥५३॥

राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ ।

स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान्

॥५४॥

व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः ।

एभिर्न पूजिता देवी सर्वार्थफलदा शिवा

॥५५॥

समाराधिता च तथा नृभिरेभिः सदाम्बिका ।

यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः

॥५६॥

व्यास उवाच

इति राजञ्छ्रुतं तत्र मया मुनिसमागमे ।

लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम्

॥५७॥

इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् ।

भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ

॥५८॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥