सुदर्शनशशिकलयोर्विवाहवर्णनम्
व्यास उवाच
श्रुत्वा सुतावाक्यमनिन्दितात्मा नृपांश्च गत्वा नृपतिर्जगाद ।
व्रजन्तु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये
॥१॥भक्ष्याणि पेयानि मयाऽर्पितानि गृह्णन्तु सर्वे मयि सुप्रसन्नाः ।
श्वो भावि कार्यं किल मण्डपेऽत्र समेत्य सर्वैरिह संविधेयम्
॥२॥नायाति पुत्री किल मण्डपेऽद्य करोमि किं भूपतयोऽत्र कामम् ।
प्रातः समाश्वास्य सुतां नयिष्ये गच्छन्तु तस्माच्छिविराणि भूपाः
॥३॥न विग्रहो बुद्धिमतां निजाश्रिते कृपा विधेया सततं ह्यपत्ये ।
विधाय तां प्रातारिहानयिष्ये सुतां तु गच्छन्तु नृपा यथेष्टम्
॥४॥इच्छापणं वा परिचिन्त्य चित्ते प्रातः करिष्याम्यथ संविवाहम् ।
सर्वैः समेत्यात्र नृपैः समेतैः स्वयंवरः सर्वमतेन कार्यः
॥५॥श्रुत्वा नृपास्तेऽवितथं विदित्वा वचो ययुः स्वानि निकेतनानि ।
विधाय पार्श्वे नगरस्य रक्षां चक्रुः क्रिया मध्यदिनोदिताश्च
॥६॥सुबाहुरप्यार्यजनैः समेत- श्चकार कार्याणि विवाहकाले ।
पुत्रीं समाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदां वरिष्ठैः
॥७॥स्नानादिकं कर्म वरस्य कृत्वा विवाहभूषाकरणं तथैव ।
आनाय्य वेदीरचिते गृहे वै तस्यार्हणां भूमिपतिश्चकार
॥८॥सविष्टरं चाचमनीयमर्घ्यं वस्त्रद्वयं गामथ कुण्डले द्वे ।
समर्प्य तस्मै विधिवन्नरेन्द्र ऐच्छत्सुतादानमहीनसत्त्वः
॥९॥सोऽप्यग्रहीत्सर्वमदीनचेताः शशाम चिन्ताऽथ मनोरमायाः ।
कन्यां सुकेशीं निधिकन्यकासमां मेने तदाऽऽत्मानमनुत्तमञ्च
॥१०॥सुपूजितं भूषणवस्त्रदानै- र्वरोत्तमं तं सचिवास्तदानीम् ।
निन्युश्च ते कौतुकमण्डपान्त- र्मुदान्विता वीतभयाश्च सर्वे
॥११॥समाप्तभूषां विधिवद्विधिज्ञाः स्त्रियश्च तां राजसुतां सुयाने ।
आरोप्य निन्युर्वरसन्निधानण् चतुष्कयुक्ते किल मण्डपे वै
॥१२॥अग्निं समाधाय पुरोहितः स हुत्वा यथावच्च तदन्तराले ।
आह्वाययत्तौ कृतकौतुकौ तु वधूवरौ प्रेमयुतौ निकामम्
॥१३॥लाजाविसर्गं विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणाञ्च ।
तौ चक्रतुस्तत्र यथोचित्तं तत् सर्वं विधानं कुलगोत्रजातम्
॥१४॥शतद्वयं चाश्चयुजां रथानां सुभूषितं चापि शरौघसंयुतम् ।
ददौ नृपेन्द्रस्तु सुदर्शनाय सुपूजितं पारिबर्हं विवाहे
॥१५॥मदोत्कटान्हेमविभूषितांश्च गजान्गिरेः शृङ्गसमानदेहान् ।
शतं सपादं नृपसूनवेऽसौ ददावथ प्रेमयुतो नृपेन्द्रः
॥१६॥दासीशतं काञ्चनभूषितं च करेणुकानां च शतं सुचारु ।
समर्पयामास वराय राजा विवाहकाले मुदितोऽनुवेलम्
॥१७॥अदात्पुनर्दाससहस्रमेकं सर्वायुधैः सम्भृतभूषितञ्च ।
रत्नानि वासांसि यथोचितानि दिव्यानि चित्राणि तथाविकानि
॥१८॥ददौ पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि ।
सिन्धूद्भवानां तुरगोत्तमाना- मदात्सहस्रद्वितयं सुरम्यम्
॥१९॥क्रमेलकानाञ्च शतत्रयं वै प्रत्यादिशद्भारभृतां सुचारु ।
शतद्वयं वै शकटोत्तमानां तस्मै ददौ धान्यरसैः प्रपूरितम्
॥२०॥मनोरमां राजसुतां प्रणम्य जगाद वाक्यं विहिताञ्जलिः पुरः ।
दासोऽस्मि ते राजसुते वरिष्ठे तद्ब्रूहि यत्स्यात्तु मनोगतं ते
॥२१॥तं चारुवाक्यं निजगाद सापि स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः ।
सम्मानिताऽहं मम सूनवे त्वया दत्ता यतो रत्नवरा स्वकन्या
॥२२॥न बन्दिपुत्री नृप मागधी वा स्तौमीह किं त्वां स्वजनं महत्तरम् ।
सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे सम्बन्धिना भूपतिनोत्तमेन
॥२३॥अहोऽतिचित्रं नृपतेश्चरित्रं परं पवित्रं तव किं वदामि ।
यद्भ्रष्टराज्याय सुताय मेऽद्य दत्ता त्वया पूज्यसुता वरिष्ठा
॥२४॥वनाधिवासाय किलाधनाय पित्रा विहीनाय विसैन्यकाय ।
सर्वानिमान्भूमिपतीन्विहाय फलाशनायार्थविवर्जिताय
॥२५॥समानवित्तेऽथ कुले बले च ददाति पुत्रीं नृपतिश्च भूयः ।
न कोऽपि मे भूपसुतेऽर्थहीने गुणान्वितां रूपवतीञ्च दद्यात्
॥२६॥वैरं तु सर्वैः सह संविधाय नृपैर्वरिष्ठैर्बलसंयुतैश्च ।
सुदर्शनायाथ सुताऽर्पिता मे किं वर्णये धैर्यमिदं त्वदीयम्
॥२७॥निशम्य वाक्यानि नृपः प्रहृष्टः कृताञ्जलिर्वाक्यमुवाच भूयः ।
गृहाण राज्यं मम सुप्रसिद्धं भवामि सेनापतिरद्य चाहम्
॥२८॥नोचेत्तदर्धं प्रतिगृह्य चात्र सुतान्वितो राज्यफलानि भुङ्क्ष्व ।
विहाय वाराणसिकानिवासं वने पुरे वासमतो न मेऽस्ति
॥२९॥नृपास्तु सन्त्येव रुषान्विता वै गत्वा करिष्ये प्रथमं तु सान्त्वनम् ।
ततः परं द्वावपरावुपायौ नोचेत्ततो युद्धमहं करिष्ये
॥३०॥जयाजयो दैववशो तथापि धर्मे जयो नैव कृतेऽप्यधर्मे ।
तेषां किलाधर्मवतां नृपाणां कथं भविष्यत्यनुचिन्तितं वै
॥३१॥आकर्ण्य तद्भाषितमर्थवच्च जगाद वाक्यं हितकारकं तम् ।
मनोरमा मानमवाप्य तस्मात् सर्वात्मना मोदयुता प्रसन्ना
॥३२॥राजञ्छिवं तेऽस्तु कुरुष्व राज्यं त्यक्त्वा भयं त्वं स्वसुतैः समेतः ।
सुतोऽपि मे नूनमवाप्य राज्यं साकेतपुर्यां प्रचरिष्यतीह
॥३३॥विसर्जयास्मान्निजसद्म गन्तुं शिवं भवानी तव संविधास्यति ।
न काऽपि चिन्ता मम भूप वर्तते सञ्चिन्तयन्त्या परमाम्बिकां वै
॥३४॥दोषा गता विविधवाक्यपदै रसालै- रन्योन्यभाषणपदैरमृतोपमैश्च ।
प्रातर्नृपाः समधिगम्य कृतं विवाहं रोषान्विता नगरबाह्यगतास्तथोचुः
॥३५॥अद्यैव तं नृपकलङ्कधरञ्च हत्वा बालं तथैव किल तं न विवाहयोग्यम् ।
गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं लज्जामवाप्य निजसद्म कथं व्रजेम
॥३६॥शृण्वन्तु तूर्यनिनदान्किल वाद्यमाना- ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः ।
गीतध्वनिं च विविधं निगमस्वनञ्च मन्यामहे नृपतिनाऽत्र कृतो विवाहः
॥३७॥अस्मान्प्रतार्य वचनैर्विधिवच्चकार वैवाहिकेन विधिना करपीडनं वै ।
कर्तव्यमद्य किमहो प्रविचिन्तयन्तु भूपाः परस्परमतिं च समर्थयन्तु
॥३८॥एवं वदत्सु नृपतिष्वथ कन्याकायाः कृत्वा विवाहविधिमप्रतिमप्रभावः ।
भूपान्निमन्त्रयितुमाशु जगाम राजा काशीपतिः स्वसुहृदैः प्रथितप्रभावैः
॥३९॥आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा ।
नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः
॥४०॥स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत ।
आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम
॥४१॥कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् ।
भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः
॥४२॥तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः ।
प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज
॥४३॥कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् ।
नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै
॥४४॥सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् ।
किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः
॥४५॥गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः ।
रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम्
॥४६॥केचनोचुः किमस्माकं हन्त तेन नृपेण वै ।
दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम्
॥४७॥इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः ।
चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः
॥४८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुदर्शनशशिकलयोर्विवाहवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥