मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २१

3
तृतीयस्कन्धः · 21

कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम्

व्यास उवाच

सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा ।

चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम्

॥१॥

सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः ।

उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः

॥२॥

यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् ।

तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः

॥३॥

न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् ।

येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे

॥४॥

सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः ।

किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे

॥५॥

इति चिन्तापरो राजा जगाम नृपसन्निधौ ।

प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः

॥६॥

किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता ।

बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च

॥७॥

मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् ।

पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः

॥८॥

ददामि बहुरत्नानि वस्त्राणि च गजान् रथान् ।

गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत

॥९॥

न वशे मे सुता बाला म्रियते यदि खेदिता ।

तदा मे स्यान्महद्दुःखं तेन चिन्तातुरोऽस्म्यहम्

॥१०॥

भवन्तः करुणावन्तो महाभाग्या महौजसः ।

किं मे तया दुहित्रा तु मन्दया दुर्विनीतया

॥११॥

अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा ।

सुता सुतेव मन्तव्या भवद्भिः सर्वथा मम

॥१२॥

व्यास उवाच

श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः ।

युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः

॥१३॥

राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् ।

स्वयंवरः कथं मोहाद्रचितः संशये सति

॥१४॥

मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे ।

कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति

॥१५॥

अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै ।

दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम्

॥१६॥

विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता ।

आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता

॥१७॥

एतान्विहाय नृपतीन्बलवाहनसंयुतान् ।

वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम्

॥१८॥

अहं त्वां हन्मि पापिष्ठं तथा पश्चात्सुदर्शनम् ।

दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः

॥१९॥

मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति ।

सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः

॥२०॥

भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया ।

नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः

॥२१॥

तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह ।

दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल

॥२२॥

सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् ।

उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता

॥२३॥

सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् ।

एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि

॥२४॥

( कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् ।

दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति) ।

परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्वतीम् ।

कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा

॥२५॥

सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् ।

समानय सुतां राजन् मण्डपे तां सखीवृताम्

॥२६॥

सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ ।

विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः

॥२७॥

अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः ।

विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम

॥२८॥

अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् ।

मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम

॥२९॥

व्यास उवाच

युधाजिता समादिष्टः सुबाहुः शोकसंयुतः ।

निःश्वसन्भवनं गत्वा भार्यां प्राह शुचावृतः

॥३०॥

पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते ।

किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने

॥३१॥

व्यास उवाच

सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् ।

वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते

॥३२॥

त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् ।

अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम्

॥३३॥

यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि ।

युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः

॥३४॥

सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् ।

द्वितीयस्ते पतिः पश्चाद्भविता कलहे सति

॥३५॥

तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् ।

सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने ।

इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत् ।

उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका

॥३६॥

कन्योवाच

सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम

॥३७॥

नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् ।

बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः

॥३८॥

सुदर्शनाय दत्त्वा मां विसर्जय पुराद्बहिः ।

स मां रथे सामारोप्य निर्गमिष्यति ते पुरात्

॥३९॥

भवितव्यं तु पश्चाद्वै भविष्यति न चान्यथा ।

नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम

॥४०॥

यद्भावि तद्भवत्येव सर्वथात्र न संशयः ।

राजोवाच ।

न पुत्रि साहसं कार्यं मतिमद्भिः कदाचन

॥४१॥

बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः ।

विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च

॥४२॥

राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् ।

यदि ते रोचते वत्से पणं संविदधाम्यहम्

॥४३॥

जनकेन यथा पूर्वं कृतः सीतास्वयंवरे ।

शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा

॥४४॥

तथाहमपि तन्वङ्गि करोम्यद्य दुरासदम् ।

विवादो येन राज्ञां वै कृते सति शमं व्रजेत्

॥४५॥

पालयिष्यति यः कामं स ते भर्ता भविष्यति ।

सुदर्शनस्तथाऽन्यो वा यः कश्चिद्बलवत्तरः

॥४६॥

पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा ।

एवं कृते नृपाणां तु विवादः शमितो भवेत्

॥४७॥

सुखेनाहं विवाहं ते करिष्यामि ततः परम् ।

कन्योवाच ।

सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः

॥४८॥

मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा ।

कारणं पुण्यपापानां मन एव महीपते

॥४९॥

मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः ।

कृते पणे महाराज सर्वेषां वशगा ह्यहम्

॥५०॥

एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् ।

किं कर्तव्यं तदा तात विवादे समुपस्थिते

॥५१॥

संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः ।

मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम्

॥५२॥

विवाहं विधिना कृत्वा शं विधास्यति चण्डिका ।

यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत्

॥५३॥

तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः ।

गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै

॥५४॥

आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे ।

इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम्

॥५५॥

विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप ।

पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय

॥५६॥

गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल ।

कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः

॥५७॥

भविष्यति तदा देवी साहाय्यं नः करिष्यति ।

सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति

॥५८॥

दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत ।

स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः

॥५९॥

एकैवाहं गमिष्यामि तेन सार्धं रिरंसया ।

व्यास उवाच ।

इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः ।

मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च

॥६०॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनं नामैकविंशोऽध्यायः ॥ २१ ॥