मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २६

3
तृतीयस्कन्धः · 26

कुमारीपूजावर्णनम्

जनमेजय उवाच

नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम ।

विधानं विधिवद्ब्रूहि शरत्काले विशेषतः

॥१॥

किं फलं खलु कस्तत्र विधिः कार्यो महामते ।

एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम

॥२॥

व्यास उवाच

शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् ।

शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम्

॥३॥

वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् ।

द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै

॥४॥

शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह ।

तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता

॥५॥

द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् ।

वसन्तशरदावेव सर्वनाशकरावुभौ

॥६॥

तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः ।

चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप

॥७॥

अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् ।

हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने

॥८॥

मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले ।

हस्तषोडशमानेन स्तम्भध्वजसमन्वितः

॥९॥

गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः ।

तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा

॥१०॥

चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् ।

तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत्

॥११॥

रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् ।

आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान्

॥१२॥

प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः ।

नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा

॥१३॥

प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः ।

अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम्

॥१४॥

वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः ।

वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित्

॥१५॥

विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् ।

नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः

॥१६॥

वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा ।

स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः

॥१७॥

वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् ।

तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता

॥१८॥

रत्नभूषणसंयुक्ता मुक्ताहारविराजिता ।

दिव्याम्बरधरा सौम्या सर्वलक्षणसंयुता

॥१९॥

शंखचक्रगदापद्मधरा सिंहे स्थिता शिवा ।

अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी

॥२०॥

अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।

स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः

॥२१॥

पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् ।

सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम्

॥२२॥

पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः ।

गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै

॥२३॥

तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् ।

प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम्

॥२४॥

नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् ।

उपवासेन नक्तेन चैकभुक्तेन वा पुनः

॥२५॥

करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् ।

साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम्

॥२६॥

यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे ।

पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम्

॥२७॥

चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः ।

मन्दारकरजाशोकचम्पकैः करवीरकैः

॥२८॥

मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः ।

पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः

॥२९॥

फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै ।

नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः

॥३०॥

नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः ।

अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप

॥३१॥

मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् ।

महिषाजवराहाणां बलिदानं विशिष्यते

॥३२॥

देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् ।

न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ

॥३३॥

अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये ।

देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा

॥३४॥

होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् ।

स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम्

॥३५॥

त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः ।

गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः

॥३६॥

नित्यं भूमौ च शयनं कुमारीणां च पूजनम् ।

वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः

॥३७॥

एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः ।

द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा

॥३८॥

विभवस्यानुसारेण कर्तव्यं पूजनं किल ।

वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा

॥३९॥

एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप ।

परमज्ञा तु भोगानां गन्धादीनां च बालिका

॥४०॥

कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह ।

त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका

॥४१॥

रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता ।

चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी

॥४२॥

नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी ।

अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता

॥४३॥

एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता ।

तासां फलानि वक्ष्यामि नवानां पूजने सदा

॥४४॥

कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् ।

शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै

॥४५॥

त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् ।

धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः

॥४६॥

विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः ।

सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम्

॥४७॥

कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्वकम् ।

ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत्

॥४८॥

पूजयेच्छाम्भवीं नित्यं नृपसंमोहनाय च ।

दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च

॥४९॥

क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने ।

दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च

॥५०॥

वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा ।

रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः

॥५१॥

श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः ।

श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा

॥५२॥

कुमारस्य च तत्त्वानि या सृजत्यपि लीलया ।

कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम्

॥५३॥

सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी ।

त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम्

॥५४॥

कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् ।

पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम्

॥५५॥

रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै ।

या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम्

॥५६॥

काली कालयते सर्वं ब्रह्माण्डं सचराचरम् ।

कल्पान्तसमये या तां कालिकां पूजयाम्यहम्

॥५७॥

तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम्

॥५८॥

अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता ।

यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम्

॥५९॥

दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी ।

दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम्

॥६०॥

सुभद्राणि च भक्तानां कुरुते पूजिता सदा ।

अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम्

॥६१॥

एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः ।

वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि

॥६२॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कुमारीपूजावर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥