तत्त्वनिरूपणवर्णनम्
ब्रह्मोवाच
एवंप्रभावा सा देवी मया दृष्टाथ विष्णुना ।
शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक्
॥१॥व्यास उवाच
इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः ।
पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः
॥२॥नारद उवाच
पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः ।
दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह
॥३॥त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः ।
तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज
॥४॥यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः ।
दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः
॥५॥परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः ।
पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते
॥६॥भवता सगुणा शक्तिर्दृष्टा तात मनोरमा ।
निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे
॥७॥व्यास उवाच
इति पृष्ठः पिता तेन नारदेन प्रजापतिः ।
उवाच वचनं तथ्यं स्मितपूर्वं पितामहः
॥८॥ब्रह्मोवाच
निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् ।
दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम्
॥९॥निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् ।
ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः
॥१०॥अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ ।
विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित्
॥११॥चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् ।
तेजः सर्वत्रगं नित्यं नानाभावेषु नारद
॥१२॥तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ ।
ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते
॥१३॥तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ ।
एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ
॥१४॥या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता ।
अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद
॥१५॥अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद ।
न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना
॥१६॥अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् ।
कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि
॥१७॥निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा ।
सगुणं च महाबुद्धे चेतसा संविचारय
॥१८॥पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम ।
कटु पित्तं विजानाति रसं रूपं न तत्तथा
॥१९॥गुणैः समावृतं चेतः कथं जानाति निर्गुणम् ।
अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत्
॥२०॥यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः ।
तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः
॥२१॥नारद उवाच
स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् ।
गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः
॥२२॥सात्त्विको राजसश्चैव तामसश्च तथापरः ।
विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम
॥२३॥यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो ।
गुणानां लक्षणान्येव विततानि विभागशः
॥२४॥ब्रह्मोवाच
त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ ।
ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा
॥२५॥सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका ।
द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव
॥२६॥तेषां कार्याणि वक्ष्यामि शृणु नारद तत्त्वतः ।
तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः
॥२७॥रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते ।
शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा
॥२८॥सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् ।
पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद
॥२९॥दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै ।
तामसाहङ्कारजः स्यात्सर्गस्तदनुवृत्तिकः
॥३०॥राजस्याश्च क्रियाशक्तेरुत्पन्नानि शृणुष्व मे ।
श्रोत्रं त्वग्रसना चक्षुर्घ्राणं चैव च पञ्चमम्
॥३१॥ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
वाक्पाणिपादपायुश्च गुह्यान्तानि च पञ्च वै
॥३२॥प्राणोऽपानश्च व्यानश्च समानोदानवायवः ।
पञ्चदश मिलित्वैव राजसः सर्ग उच्यते
॥३३॥साधनानि किलैतानि क्रियाशक्तिमयानि च ।
उपादानं किलैतेषां चिदनुवृत्तिरुच्यते
॥३४॥ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्भवाः ।
दिशो वायुश्च सूर्यश्च वरुणश्चाश्विनावपि
॥३५॥ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः ।
चन्द्रो ब्रह्मा तथा रुद्रः क्षेत्रज्ञश्च चतुर्थकः
॥३६॥इत्यन्तःकरणाख्यस्य बुद्ध्यादेश्चाधिदैवतम् ।
चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः
॥३७॥मनसा सह चैतानि नूनं पञ्चदशैव तु ।
सात्त्विकस्य तु सर्गोऽयं सात्त्विकाख्यः प्रकीर्तितः
॥३८॥स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः ।
ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते
॥३९॥साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते ।
शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम्
॥४०॥मम चैव शरीरं वै सूत्रमित्यभिधीयते ।
स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः
॥४१॥शृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते ।
तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै
॥४२॥पञ्चीकृत्य तु तान्येव पञ्चभूतसमुद्भवः ।
पञ्चीकरणभेदोऽयं शृणु संवदतः किल
॥४३॥प्रथमं रसतन्मात्रामुपादाय मनस्यपि ।
कल्पयेच्च तथा तद्वै यथा भवति चोदकम्
॥४४॥शिष्टानां चैव भूतानामंशान्कृत्वा पृथक्पृथक् ।
उदके मिश्रयेच्चांशान्कृते रसमये ततः
॥४५॥तदा भूतविभागे च चैतन्ये च प्रकाशिते ।
चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः
॥४६॥प्रतीयमाने तेनैव विशेषेणाभिमानतः ।
आदिनारायणो देवो भगवानिति चोच्यते
॥४७॥घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते ।
वृद्धिं प्राप्य गुणैश्चेत्थमेकैकगुणवृद्धितः
॥४८॥आकाशस्य गुणश्चैकः शब्द एव न चापरः ।
शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीर्तितौ
॥४९॥अग्नेः शब्दश्च स्पर्शश्च रूपमेते त्रयो गुणाः ।
शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च
॥५०॥स्पर्शशब्दरसा रूपं गन्धश्च पृथिवीगुणाः ।
एवं मिलितयोगैश्च ब्रह्माण्डोत्पत्तिरुच्यते
॥५१॥सर्वे जीवा मिलित्वैव ब्रह्माण्डांशसमुद्भवाः ।
चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः
॥५२॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे तत्त्वनिरूपणवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥