मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २३

3
तृतीयस्कन्धः · 23

सुबाहुकृतदेवीस्तुतिवर्णनम्

व्यास उवाच

तस्मै गौरवभोज्यानि विधाय विधिवत्तदा ।

वासराणि च षड्राजा भोजयामास भक्तितः

॥१॥

एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः ।

पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह

॥२॥

दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् ।

बभूव विमना राजा सुबाहुरमितद्युतिः

॥३॥

सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः ।

अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः

॥४॥

भारद्वाजाश्रमं पुण्य़ं गत्वा तत्र समाहिताः ।

निवासाय विचारो वै कर्तव्यः सर्वथा नृप

॥५॥

नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ ।

जगन्माता भवानी मे साहाय्यं वै करिष्यति

॥६॥

व्यास उवाच

तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः ।

विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः

॥७॥

बलेन महताऽऽविष्टो ययावनु नृपोत्तमः ।

सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः

॥८॥

रथैः परिवृतः शूरः सदारो रथसंस्थितः ।

गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः

॥९॥

सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह ।

विधिवत्स शिवां चित्ते जगाम शरणं मुदा

॥१०॥

जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् ।

निर्भयो वीतशोकश्च पत्न्या सह नवोढया

॥११॥

ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा ।

उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम्

॥१२॥

काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह ।

निवारितस्तदाऽत्यर्थं राघवेण जिगीषता

॥१३॥

तत्रापि नेदुः शंखाश्च भेर्यश्चानकदुन्दुभिः ।

सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम्

॥१४॥

शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया ।

युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह

॥१५॥

केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा ।

युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः

॥१६॥

शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः ।

परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः

॥१७॥

सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः ।

काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः

॥१८॥

साहाय्यार्थं जगामाशु जामातरमनिन्दितम् ।

एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे

॥१९॥

प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता ।

नानायुधधरा रम्या वराभूषणभूषिता

॥२०॥

दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता ।

तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः

॥२१॥

केयं सिंहसमारूढा कुतो वेति समुत्थिता ।

सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत्

॥२२॥

पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् ।

अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता

॥२३॥

निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि ।

सुदर्शनः सुबाहुश्च तामालोक्य वराननाम्

॥२४॥

प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च ।

ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे

॥२५॥

ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः ।

सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति

॥२६॥

मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः ।

किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः

॥२७॥

शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः ।

निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले

॥२८॥

स्मृता मया महादेवी रक्षणार्थमुपागता ।

तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत्

॥२९॥

युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् ।

किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम्

॥३०॥

अवमन्य च नः सर्वान्बलहीनो बलाधिकान् ।

कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः

॥३१॥

किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् ।

नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः

॥३२॥

हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् ।

नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः

॥३३॥

इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा ।

योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः

॥३४॥

मुमोच विशिखांस्तूर्णं समपुंखाञ्छिलाशितान् ।

धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान्

॥३५॥

हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि ।

सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात्

॥३६॥

एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् ।

दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति

॥३७॥

नानारूपा तदा जाता नानाशस्रधरा शिवा ।

सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका

॥३८॥

शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः ।

पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत्

॥३९॥

विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् ।

निधनं मातुलस्यापि भागिनेयस्य संयुगे

॥४०॥

सुबाहुरपि तद्दृष्ट्वा निधनं संयुगे तयोः ।

तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम्

॥४१॥

सुबाहुरुवाच

नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः ।

दुर्गायै भगवत्यै ते कामदायै नमो नमः

॥४२॥

नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः ।

विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे

॥४३॥

नाहं गतिं तव धिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः ।

किं स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमाञ्च शक्तिम्

॥४४॥

वाग्देवता त्वमसि सर्वगतैव बुद्धि- र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः ।

त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री किं स्तूयते हि सततं खलु चात्मरूपम्

॥४५॥

ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो नान्तं गताः सुरवराः किल ते गुणानाम् ।

क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः

॥४६॥

सत्सङ्गतिः कथमहो न करोति कामं प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः ।

जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै

॥४७॥

ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः ।

यद्दर्शनं जननि तेऽद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्च

॥४८॥

क्वाहं सुमन्दमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् ।

ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकम्पनपरामरवर्गपूज्या

॥४९॥

किं वर्णयामि तव देवि चरित्रमेतद् यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् ।

शत्रू हतौ सुबलिनौ तरसा त्वयाद्य भक्तानुकम्पि चरितं परमं पवित्रम्

॥५०॥

नाश्चर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै ।

त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः

॥५१॥

भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं कर्तुं भवानि रचितं चरितं त्वयैतत् ।

नोचेत्कथं सुपरिगृह्य सुतां मदीयां युद्धे भवेत्कुशलवाननवद्यशीलः

॥५२॥

शक्ताऽसि जन्ममरणादिभयान्विहन्तुं किं चित्रमत्र किल भक्तजनस्य कामम् ।

त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च

॥५३॥

त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा ।

बीजं न ते न भजनं किल वेद्मि मात- र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः

॥५४॥

व्यास उवाच

एवं स्तुता तदा देवी प्रसन्नवदना शिवा ।

उवाच च नृपं देवी वरं वरय सुव्रत

॥५५॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुबाहुकृतदेवीस्तुतिवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥