हरब्रह्मकृतस्तुतिवर्णनम्
ब्रह्मोवाच
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः
॥१॥शिव उवाच
यदि हरिस्तव देवि विभावज- स्तदनु पद्मज एव तवोद्भवः ।
किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे
॥२॥त्वमसि भूः सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः ।
जननि तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः
॥३॥न च विदन्ति वदन्ति च येऽन्यथा हरिहराजकृतं निखिलं जगत् ।
तव कृतास्त्रय एव सदैव ते विरचयन्ति जगत्सचराचरम्
॥४॥अवनिवायुखवह्निजलादिभिः सविषयैः सगुणैश्च जगद्भवेत् ।
यदि तदा कथमद्य च तत्स्फुटं प्रभवतीति तवाम्ब कलामृते
॥५॥भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम् ।
विविधवेषविलासकुतूहलै- र्विरमसे रमसेऽम्ब यथारुचि
॥६॥सकललोकसिसृक्षुरहं हरिः कमलभूश्च भवाम यदाऽम्बिके ।
तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा ननु चक्रिम
॥७॥यदि दयार्द्रमना न सदाम्बिके कथमहं विहितश्च तमोगुणः ।
कमलजश्च रजोगुणसंभवः सुविहितः किमु सत्त्वगुणो हरिः
॥८॥यदि न ते विषमा मतिरम्बिके कथमिदं बहुधा विहितं जगत् ।
सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम्
॥९॥तव गुणास्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै ।
हरिहरद्रुहिणाश्च क्रमात्त्वया विरचितास्त्रिजगतां किल कारणम्
॥१०॥परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै ।
पथिगतैर्भुवनानि कृतानि वा कथय केन भवानि नवानि च
॥११॥सृजसि पासि जगज्जगदम्बिके स्वकलया कियदिच्छसि नाशितुम् ।
रमयसे स्वपतिं पुरुषं सदा तव गतिं न हि विद्म वयं शिवे
॥१२॥जननि देहि पदाम्बुजसेवनं युवतिभागवतानपि नः सदा ।
पुरुषतामधिगम्य पदाम्बुजा- द्विरहिताः क्व लभेम सुखं स्फुटम्
॥१३॥न रुचिरस्ति ममाम्ब पदाम्बुजं तव विहाय शिवे भुवनेष्वलम् ।
निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै
॥१४॥सुदति नास्ति मनागपि मे रति- र्युवतिभावमवाप्य तवान्तिके ।
पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम्
॥१५॥त्रिभुवनेषु भवत्वियमम्बिके मम सदैव हि कीर्तिरनाविला ।
युवतिभावमवाप्य पदाम्बुजं परिचितं तव संसृतिनाशनम्
॥१६॥भुवि विहाय तवान्तिकसेवनं क इह वाञ्छति राज्यमकंटकम् ।
त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेऽङ्घ्रिसरोरुहम्
॥१७॥तपसि ये निरता मुनयोऽमला- स्तव विहाय पदाम्बुजपूजनम् ।
जननि ते विधिना किल वञ्चिताः परिभवो विभवे परिकल्पितः
॥१८॥न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा ।
तव पदाब्जपरागनिषेवणा- द्भवति मुक्तिरजे भवसागरात्
॥१९॥कुरु दयां दयसे यदि देवि मां कथय मन्त्रमनाविलमद्भुतम् ।
समभवं प्रजपन्सुखितो ह्यहं सुविशदं च नवार्णमनुत्तमम्
॥२०॥प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः ।
कथय मां मनुमद्य भवार्णवा- ज्जननि तारय तारय तारके
॥२१॥इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा ।
उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम्
॥२२॥तं गृहीत्वा महादेवः परां मुदमवाप ह ।
प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः
॥२३॥जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा ।
बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा
॥२४॥तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् ।
अवोचं तां महामायां संस्थितोऽहं पदान्तिके
॥२५॥न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् ।
स्वधाभूता देवी सकलमखहोमेषु विहिता तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने
॥२६॥कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् ।
धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति
॥२७॥अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते ।
याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु
॥२८॥अतोऽहञ्च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै ।
तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धौ
॥२९॥न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् ।
यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम्
॥३०॥त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् ।
अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे
॥३१॥श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै ।
न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण
॥३२॥विचारे परे तत्त्वसंख्याविधाने पदे मोहिता नाम ते संविहाय ।
न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै
॥३३॥परं तत्त्वविज्ञानमाद्यैर्जनैर्यै- रजे चानुभूतं त्यजन्त्येव ते किम् ।
निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम
॥३४॥न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् ।
विनोदार्थमेवं विधिं मां विधाया- दिसर्गे किलेदं करोषीति कामम्
॥३५॥हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये ।
हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः
॥३६॥न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद ।
किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि
॥३७॥त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च ।
हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः
॥३८॥यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् ।
न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम्
॥३९॥अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च ।
तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः
॥४०॥दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः ।
नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते
॥४१॥न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन ।
विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः
॥४२॥एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै ।
सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय
॥४३॥निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् ।
द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः
॥४४॥स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् ।
पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः
॥४५॥पुमानसि त्वं स्त्री वासि वद विस्तरतो मम ।
ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात्
॥४६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे हरब्रह्मकृतस्तुतिवर्णनं पञ्चमोऽध्यायः ॥ ५ ॥