युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम्
जनमेजय उवाच
श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज ।
महिमानं तथाम्बाया वद विस्तरतो मम
॥१॥श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् ।
प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः
॥२॥व्यास उवाच
शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।
इतिहासं पुराणञ्च कथयामि सुविस्तरम्
॥३॥कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः ।
पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः
॥४॥धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः ।
अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः
॥५॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः ।
स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन्
॥६॥न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् ।
दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः
॥७॥एवं वै वर्तमानस्य नृपस्य कुरुसत्तम ।
द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे
॥८॥मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा ।
लीलावती द्वितीया च साऽपि रूपगुणान्विता
॥९॥विजहार सपत्नीभ्यां गृहेषूपवनेषु च ।
क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च
॥१०॥मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् ।
सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम्
॥११॥लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी ।
सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा
॥१२॥चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः ।
ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः
॥१३॥प्रीतिं तयोः समां राजा चकार सुतयोर्नृप ।
नृपश्चकार सौहार्देष्वन्तरं न कदाचन
॥१४॥चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः ।
यथाविभवमेवासौ प्रीतियुक्तः परन्तपः
॥१५॥कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः ।
क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ
॥१६॥तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः ।
शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह
॥१७॥नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः ।
प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै
॥१८॥तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः ।
मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने
॥१९॥एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः ।
जगाम वनमध्येऽसौ मृगयाभिरतः सदा
॥२०॥निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् ।
महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने
॥२१॥क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे ।
उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः
॥२२॥राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः ।
दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः
॥२३॥कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः ।
हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः
॥२४॥नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा ।
वामे चर्म समादाय स्थितः सिंह इवापरः
॥२५॥सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् ।
अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः
॥२६॥हाहाकारो महानासीत्सम्प्रहारश्च दारुणः ।
उत्पपात ततः सिंहो नृपस्योपरि दारुणः
॥२७॥तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः ।
सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः
॥२८॥स नखैराहतो राजा पपात च ममार वै ।
चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा
॥२९॥मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः ।
सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः
॥३०॥परलोकगतं भूपं श्रुत्वा ते मन्त्रिसत्तमाः ।
संस्कारं कारयामासुर्गत्वा तत्र वनान्तिके
॥३१॥परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम् ।
कारयामास तत्रैव परलोकसुखावहम्
॥३२॥प्रजाः प्रकृतयश्चैव वसिष्ठश्च महामुनिः ।
सुदर्शनं नृपं कर्तुं मन्त्रं चक्रुः परस्परम्
॥३३॥धर्मपत्नीसुतः शान्तः पुरुषश्च सुलक्षणः ।
अयं नृपासनार्हश्च ह्यब्रुवन्मन्त्रिसत्तमाः
॥३४॥वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः ।
बालोऽपि धर्मवान् राजा नृपासनमिहार्हति
॥३५॥कृते मन्त्रे मन्त्रिवृद्धैर्युधाजिन्नाम पार्थिवः ।
तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः
॥३६॥मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा ।
तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया
॥३७॥वीरसेनस्तथाऽऽयातः सुदर्शनहितेच्छया ।
कलिङ्गाधिपतिश्चैव मनोरमापिता नृपः
॥३८॥उभौ तौ सैन्यसंयुक्तौ नृपौ साध्वससंस्थितौ ।
चक्रतुर्मन्त्रिमुख्यैस्तैर्मन्त्रं राज्यस्य कारणात्
॥३९॥युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुततोर्द्वयोः ।
राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन
॥४०॥वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल ।
राज्यार्हः स यथा राजन् शास्त्रज्ञेभ्यो मया श्रुतम्
॥४१॥युधाजित्पुनराहेदं ज्येष्ठोऽयं च यथा गुणैः ।
राजलक्षणसंयुक्तो न तथायं सुदर्शनः
॥४२॥विवादोऽत्र सुसम्पन्नो नृपयोस्तत्र लुब्धयोः ।
कः सन्देहमपाकर्तुं क्षमः स्यादतिसङ्कटे
॥४३॥युधाजिन्मन्त्रिणः प्राह यूयं स्वार्थपराः किल ।
सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ
॥४४॥युष्माकं तु विचारोऽयं मया ज्ञातस्तथेङ्गितैः ।
शत्रुजित्सबलस्तस्मात्सम्मतो वो नृपासने
॥४५॥मयि जीवति कः कुर्यात्कनीयांसं नृपं किल ।
त्यक्त्वा ज्येष्ठं गुणार्हञ्च सेनया च समन्वितम्
॥४६॥नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी ।
धारया च द्विधा भूयाद्युष्माकं तत्र का कथा
॥४७॥वीरसेनस्तु तच्छ्रुत्वा युधाजितमभाषत ।
बालौ द्वौ सदृशप्रज्ञौ को भेदोऽत्र विचक्षण
॥४८॥एवं विवदमानौ तौ संस्थितौ नृपती तदा ।
प्रजाश्च ऋषयश्चैव बभूवुर्व्यग्रमानसाः
॥४९॥समाजग्मुश्च सामन्ताः ससैन्याः क्लेशतत्पराः ।
विग्रहञ्चाभिकाङ्क्षन्तः परस्परमतन्द्रिताः
॥५०॥निषादा ह्याययुस्तत्र शृङ्गवेरपुराश्रयाः ।
राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम्
॥५१॥पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम् ।
चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि
॥५२॥सम्मर्दस्तत्र सञ्जातः कलहे समुपस्थिते ।
युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः
॥५३॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥