मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय १८

3
तृतीयस्कन्धः · 18

शशिकलया मातरं प्रति संदेशप्रेषणम्

व्यास उवाच

श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह ।

प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः

॥१॥

सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला ।

कामबाणहतेवास गते तस्मिन्द्विजोत्तमे

॥२॥

अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् ।

विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु

॥३॥

अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् ।

दुनोति मदनः पापः किं करोमि क्व यामि च

॥४॥

स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः ।

तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु

॥५॥

चन्दनं देहलग्नं मे विषवद्भाति भामिनि ।

स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत्

॥६॥

न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते ।

न दिवा न निशायां वा न सुखं सुखसाधनैः

॥७॥

न शय्या न च ताम्बूलं न गीतं न च वादनम् ।

प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने

॥८॥

प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः ।

भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा

॥९॥

स्वयंवरं पिता मेऽद्य न करोति करोमि किम् ।

दास्यामि राजपुत्राय कामं सुदर्शनाय वै

॥१०॥

सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः ।

रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः

॥११॥

व्यास उवाच

एकाकी निर्धनश्चैव बलहीनः सुदर्शनः ।

वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता

॥१२॥

वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता ।

सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम्

॥१३॥

स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् ।

विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम्

॥१४॥

शृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् ।

ददौ रथवरं तस्मै सर्वोपस्करसंयुतम्

॥१५॥

चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् ।

जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा

॥१६॥

सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् ।

वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम्

॥१७॥

कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा ।

मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः

॥१८॥

राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा ।

स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः

॥१९॥

प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी ।

सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत

॥२०॥

मनोरमां तथोचुस्ते मुनयः संशितव्रताः ।

पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते

॥२१॥

सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् ।

दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात्

॥२२॥

न सैन्यं सचिवाः कोशो न सहायश्च कश्चन ।

केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति

॥२३॥

आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः ।

भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः

॥२४॥

व्यास उवाच

रथारूढः स मेधावी यत्र याति सुदर्शनः ।

अक्षौहिणीसमावृत्त इवाभाति स तेजसा

॥२५॥

प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते ।

एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा

॥२६॥

सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् ।

जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात्

॥२७॥

न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् ।

प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम

॥२८॥

ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः ।

येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु

॥२९॥

या माता सर्वदेवानां युगादौ परिकीर्तिता ।

आदिमातेति विख्याता नाम्ना तेन कुरूद्वह

॥३०॥

बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः ।

सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते

॥३१॥

न जानन्ति नरा ये वै मोहिता मायया किल ।

न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम्

॥३२॥

ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः ।

वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः

॥३३॥

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।

सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम्

॥३४॥

को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् ।

सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा

॥३५॥

ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी ।

योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा

॥३६॥

परमात्मस्वरूपं को वेत्तुमर्हति तां विना ।

या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने

॥३७॥

सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् ।

राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः

॥३८॥

सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता ।

नानोपचारैरनिशं दधार दुःखितं वपुः

॥३९॥

तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् ।

सुबाहुः कारयामास स्वयंवरमतन्द्रितः

॥४०॥

स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः ।

राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल

॥४१॥

इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः ।

यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम्

॥४२॥

तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः ।

इच्छास्वयंवरं तत्र चकार नृपसत्तमः

॥४३॥

शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः ।

ततश्च विविधाकाराः सु्क्लृप्ताः सभ्यमण्डपाः

॥४४॥

एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे ।

सखीं शशिकला प्राह दुःखिता चारुलोचना

॥४५॥

इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम ।

मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः

॥४६॥

नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् ।

स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः

॥४७॥

व्यास उवाच

इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा ।

वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी

॥४८॥

पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् ।

शृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना

॥४९॥

भारद्वाजाश्रमे पुण्य़े ध्रुवसन्धिसुतोऽस्ति यः ।

स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम्

॥५०॥

व्यास उवाच

राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते ।

निवेदयामास तदा पुत्रीवाक्यं यथातथम्

॥५१॥

तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः ।

भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः

॥५२॥

सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने ।

एकाकी सह मात्रा वै वसते निर्जने वने

॥५३॥

तत्कृते निहतो राजा वीरसेनो युधाजिता ।

स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने

॥५४॥

ब्रूहि पुत्रीं ततो वाक्यं कदाचिदपि विप्रियम् ।

आगमिष्यन्ति राजानः स्थितिमन्तः स्वयंवरे

॥५५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे शशिकलया मातरं प्रति संदेशप्रेषणं नामाष्टादशोऽध्यायः ॥ १८ ॥