विमानस्थैर्हरादिभिर्देवीदर्शनम्
ब्रह्मोवाच
विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् ।
न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा
॥१॥वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः ।
मही महीधराः कामं वनान्युपवनानि च
॥२॥नार्यश्च पुरुषाश्चैव पशवश्च सरिद्वराः ।
वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः
॥३॥पुरतो नगरं रम्यं दिव्यप्राकारमण्डितम् ।
यज्ञशालासमायुक्तं नानाहर्म्यविराजितम्
॥४॥प्रत्यभिज्ञा तदा जाताप्यस्माकं प्रेक्ष्य तत्पुरम् ।
स्वर्गोऽयमिति केनासौ निर्मितोस्ति तदाद्भुतम्
॥५॥राजानं देवसङ्काशं व्रजन्तं मृगयां वने ।
अस्माभिः संस्थिता दृष्टा विमानोपरि चाम्बिका
॥६॥क्षणाच्चचाल गगने विमानं पवनेरितम् ।
मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे
॥७॥नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् ।
पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता
॥८॥चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः ।
अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च
॥९॥क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः ।
गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा
॥१०॥मन्दारवाटिकामध्ये गायन्ति च रमन्ति च दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः
॥११॥वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा ।
यादःपतिं कुबेरं च यमं सूर्यं विभावसुम्
॥१२॥विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् ।
तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात्
॥१३॥देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः ।
विमानस्था वयं तच्च चचाल तरसागतम्
॥१४॥ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् ।
तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ
॥१५॥सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः ।
सागराः सरितश्चैव पर्वताः पन्नगोरगाः
॥१६॥मामूचतुश्चतुर्वक्त्रः कोऽयं ब्रह्मा सनातनः ।
ताववोचमहं नैव जाने सृष्टिपतिं पतिम्
॥१७॥कोऽहं कोऽयं किमर्थं वा भ्रमोऽयं मम चेश्वरौ ।
क्षणादथ विमानं तच्चचालाशु मनोजवम्
॥१८॥कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते ।
मन्दारवाटिकारम्ये कीरकोकिलकूजिते
॥१९॥वीणामुरजवाद्यैश्च नादिते सुखदे शिवे ।
यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात्
॥२०॥निर्गतो भगवाञ्छम्भुर्वृषारूढस्त्रिलोचनः ।
पञ्चाननो दशभुजः कृतसोमार्धशेखरः
॥२१॥व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ।
पार्ष्णिरक्षौ महावीरौ गजाननषडाननौ
॥२२॥शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः ।
नन्दिप्रभृतयः सर्वे गणपाश्च वराश्च ते
॥२३॥जयशब्दं प्रयुञ्जाना व्रजन्ति शिवपृष्ठगाः ।
तं वीक्ष्य शङ्करं चान्यं विस्मितास्तत्र नारद
॥२४॥मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने ।
क्षणात्तस्माद्गिरेः शृङ्गाद्विमानं वातरंहसा
॥२५॥वैकुण्ठसदनं प्राप्तं रमारमणमन्दिरम् ।
असम्भाव्या विभूतिश्च तत्र दृष्टा मया सुत
॥२६॥विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् ।
सदनाग्रे ययौ तावद्धरिः कमललोचनः
॥२७॥अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः ।
द्विजराजाधिरूढश्च दिव्याभरणभूषितः
॥२८॥वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः ।
तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम्
॥२९॥परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने ।
ततश्चचाल तरसा विमानं वातरंहसा
॥३०॥सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् ।
यादोगणसमाकीर्णश्चलद्वीचिविराजितः
॥३१॥मन्दारपारिजाताद्यैः पादपैरतिशोभितः ।
नानास्तरणसंयुक्तो नानाचित्रविचित्रितः
॥३२॥मुक्तादामपरिक्लिष्टो नानादामविराजितः ।
अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः
॥३३॥संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः ।
कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः
॥३४॥द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः ।
तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः
॥३५॥रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः ।
दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः
॥३६॥नानास्तरणसंछन्न इन्द्रचापसमन्वितः ।
पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वराङ्गना
॥३७॥रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना ।
सुरक्तनयना कान्ता विद्युत्कोटिसमप्रभा
॥३८॥सुचारुवदना रक्तदन्तच्छदविराजिता ।
रमाकोट्यधिका कान्त्या सूर्यबिम्बनिभाखिला
॥३९॥वरपाशाङ्कुशाभीष्टधरा श्रीभुवनेश्वरी ।
अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा
॥४०॥ह्रीङ्कारजपनिष्ठैस्तु पक्षिवृन्दैर्निषेविता ।
अरुणा करुणामूर्तिः कुमारी नवयौवना
॥४१॥सर्वशृङ्गारवेषाढ्या मन्दस्मितमुखाम्बुजा ।
उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मला
॥४२॥नानामणिगणाकीर्णभूषणैरुपशोभिता ।
कनकाङ्गदकेयूरकिरीटपरिशोभिता
॥४३॥कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
हृल्लेखा भुवनेशीति नामजापपरायणैः
॥४४॥सखीवृन्दैः स्तुता नित्यं भुवनेशी महेश्वरी ।
हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता
॥४५॥अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टिता ।
देवी षट्कोणमध्यस्था यन्त्रराजोपरि स्थिता
॥४६॥दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् ।
केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः
॥४७॥सहस्रनयना रामा सहस्रकरसंयुता ।
सहस्रवदना रम्या भाति दूरादसंशयम्
॥४८॥नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल ।
इति संशयमापन्नास्तत्र नारद संस्थिताः
॥४९॥तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् ।
उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम्
॥५०॥एषा भगवती देवी सर्वेषां कारणं हि नः ।
महाविद्या महामाया पूर्णा प्रकृतिरव्यया
॥५१॥दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया ।
इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी
॥५२॥दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा ।
वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी
॥५३॥एषा संहृत्य सकलं विश्वं क्रीडति संक्षये ।
लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च
॥५४॥सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ ।
विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात्
॥५५॥दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः ।
परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ
॥५६॥धन्या वयं महाभागाः कृतकृत्याः स्म साम्प्रतम् ।
यदत्र दर्शनं प्राप्तं भगवत्याः स्वयं त्विदम्
॥५७॥तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् ।
अन्यथा दर्शनं कुत्र भवेदस्माकमादरात्
॥५८॥पश्यन्ति पुण्यपुञ्जा ये ये वदान्यास्तपस्विनः ।
रागिणो नैव पश्यन्ति देवीं भगवतीं शिवाम्
॥५९॥मूलप्रकृतिरेवैषा सदा पुरुषसङ्गता ।
ब्रह्माण्डं दर्शयत्येषा कृत्वा वै परमात्मने
॥६०॥द्रष्टाऽसौ दृश्यमखिलं ब्रह्माण्डं देवताः सुरौ ।
तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा
॥६१॥क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः ।
लक्षांशेन तुलामस्या न भवामः कथञ्चन
॥६२॥सैषा वराङ्गना नाम या वै दृष्टा महार्णवे ।
बालभावे महादेवी दोलयन्तीव मां मुदा
॥६३॥शयनं वटपत्रे च पर्यङ्के सुस्थिरे दृढे ।
पादाङ्गुष्ठं करे कृत्वा निवेश्य मुखपङ्कजे
॥६४॥लेलिहन्तञ्च क्रीडन्तमनेकैबालचेष्टितैः ।
रममाणं कोमलाङ्गं वटपत्रपुटे स्थितम्
॥६५॥गायन्ती दोलयन्ती च बालभावान्मयि स्थिते ।
सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव
॥६६॥कामं नो जननी सैषा शृणु तं प्रवदाम्यहम् ।
अनुभूतं मया पूर्वं प्रत्यभिज्ञा समुत्थिता
॥६७॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विमानस्थैर्हरादिभिर्देवीदर्शनं नाम तृतीयोऽध्यायः ॥ ३ ॥