गुणानां गुणपरिज्ञानवर्णनम्
नारद उवाच
गुणानां लक्षणं तात भवता कथितं किल ।
न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम्
॥१॥गुणानां तु परिज्ञानं यथावदनुवर्णय ।
येनाहं परमां शान्तिमधिगच्छामि चेतसि
॥२॥व्यास उवाच
इति पृष्टस्तु पुत्रेण नारदेन महात्मना ।
उवाच च जगत्कर्ता रजोगुणसमुद्भवः
॥३॥ब्रह्मोवाच
शृणु नारद वक्ष्यामि गुणानां परिवर्णनम् ।
सम्यङ् नाहं विजानामि यथामति वदामि ते
॥४॥सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते ।
मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै
॥५॥यथा काचिद्वरा नारी सर्वभूषणभूषिता ।
हावभावयुता कामं भर्तुः प्रीतिकरी भवेत्
॥६॥मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा ।
दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि
॥७॥एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च ।
रजसस्तमसश्चैव जनिता वृत्तिरन्यथा
॥८॥रजसा स्त्रीकृतेनैव तमसा च तथा पुनः ।
अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै
॥९॥अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च ।
लक्ष्यते विपरीतानि योगान्नारद कुत्रचित्
॥१०॥यथा रूपवती नारी यौवनेन विभूषिता ।
लज्जामाधुर्ययुक्ता च तथा विनयसंयुता
॥११॥कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता ।
भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा
॥१२॥मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः ।
तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै
॥१३॥चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् ।
दुःखा मूढा च दस्यूनां सैव सेना तथागुणा
॥१४॥विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः ।
यथा च दुर्दिनं जातं महामेघघनावृतम्
॥१५॥विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् ।
सिंचद्भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम्
॥१६॥यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् ।
बीजोपस्करयुक्तानां सुखदं प्रभवत्युत
॥१७॥अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः ।
तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम्
॥१८॥प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि ।
स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै
॥१९॥लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम् ।
लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा
॥२०॥यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च ।
निर्मलं च तथा चेतो गृह्णाति विषयान्न तान्
॥२१॥तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् ।
जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः
॥२२॥यदा तदुत्कटं जातं देहे यस्य च कस्यचित् ।
कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा
॥२३॥चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा ।
गुरुमावरणं कामं तमो भवति तद्यदा
॥२४॥तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च ।
इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति
॥२५॥गुणानां लक्षणान्येवं विज्ञेयानीह नारद ।
नारद उवाच ।
विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः
॥२६॥कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् ।
परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल
॥२७॥एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे ।
ब्रह्मोवाच ।
शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः
॥२८॥प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् ।
वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम्
॥२९॥विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् ।
तैलं वर्तिविरोध्येव पावकोऽपि परस्परम्
॥३०॥एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् ।
नारद उवाच ।
एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत
॥३१॥विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् ।
व्यास उवाच ।
इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम्
॥३२॥गुणानां लक्षणं सर्वं कार्यं चैव विभागशः ।
आराध्या परमा शक्तिर्यया सर्वमिदं ततम्
॥३३॥सगुणा निर्गुणा चैव कार्यभेदे सदैव हि ।
अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः
॥३४॥करोत्येषा महामाया विश्वं सदसदात्मकम् ।
ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः
॥३५॥अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः ।
वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः
॥३६॥सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च ।
अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः
॥३७॥सा चैव कारणं राजन् जगतः परमेश्वरी ।
समाराधय तां भूप कुरु यज्ञं जनाधिप
॥३८॥पूजनं परया भक्त्या तस्या एव विधानतः ।
महालक्ष्मीर्महाकाली तथा महासरस्वती
॥३९॥ईश्वरी सर्वभूतानां सर्वकारणकारणम् ।
सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता
॥४०॥नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा ।
देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः
॥४१॥मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः ।
अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम्
॥४२॥ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा ।
ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने
॥४३॥बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै ।
तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम
॥४४॥प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् ।
ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः
॥४५॥कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् ।
अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः
॥४६॥श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः ।
बिन्दुहीनं प्रसंगेन जातोऽसौ विबुधोत्तमः
॥४७॥ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा ।
चकार कविराजं तं दयार्द्रा परमेश्वरी
॥४८॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणपरिज्ञानवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥