मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २४

3
तृतीयस्कन्धः · 24

देवीमहिमवर्णनम्

व्यास उवाच

तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः ।

प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः

॥१॥

सुबाहुरुवाच

एकतो देवलोकस्य राज्यं भूमण्डलस्य च ।

एकतो दर्शनं ते वै न च तुल्यं कदाचन

॥२॥

दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे ।

कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले

॥३॥

एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् ।

तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी

॥४॥

नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा ।

दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता

॥५॥

रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह ।

यथा सुदर्शनस्त्रातो रिपुसंघादनामयः

॥६॥

तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके ।

यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता

॥७॥

तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे ।

वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम्

॥८॥

विविधान्सकलान्कामान्देहि मे विद्विषो जहि ।

अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा

॥९॥

व्यास उवाच

इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी ।

तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः

॥१०॥

दुर्गोवाच

राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति ।

रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी

॥११॥

अथो सुदर्शनस्तत्र समागत्य मुदान्वितः ।

प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम्

॥१२॥

अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः ।

भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते

॥१३॥

त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् ।

त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै

॥१४॥

करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु ।

कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः

॥१५॥

व्यास उवाच

तं तथा भाषमाणं तु देवी प्राह दयान्विता ।

गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम्

॥१६॥

स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः ।

शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम

॥१७॥

अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।

मम पूजा प्रकर्तव्या बलिदानविधानतः

॥१८॥

अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ ।

पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम्

॥१९॥

शरत्काले महापूजा कर्तव्या मम सर्वदा ।

नवरात्रविधानेन भक्तिभावयुतेन च

॥२०॥

चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः ।

नवरात्रे महाराज पूजा कार्या विशेषतः

॥२१॥

कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः ।

कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः

॥२२॥

व्यास उवाच

इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी ।

नता सुदर्शनेनाथ स्तुता च बहुविस्तरम्

॥२३॥

अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते ।

प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा

॥२४॥

सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः ।

ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा

॥२५॥

त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा ।

कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम

॥२६॥

त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा ।

आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा

॥२७॥

धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले ।

यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी

॥२८॥

न जानीमो वयं सर्वे प्रभावं नृपसत्तम ।

चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा

॥२९॥

धनदारसुतानां च चिन्तनेऽभिरताः सदा ।

मग्ना महार्वणे घोरे कामक्रोधझषाकुले

॥३०॥

पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते ।

केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत्

॥३१॥

भव त्वं नौश्च संसारे साधवोऽति दयापराः ।

तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम्

॥३२॥

यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा ।

सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम

॥३३॥

व्यास उवाच

इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः ।

विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः

॥३४॥

सुदर्शन उवाच

किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् ।

ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा

॥३५॥

सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा ।

सात्त्विकीयं महीपाला जगत्पालनतत्परा

॥३६॥

सृजते या रजोरूपा सत्त्वरूपा च पालने ।

संहारे च तमोरूपा त्रिगुणा सा सदा मता

॥३७॥

निर्गुणा परमा शक्तिः सर्वकामफलप्रदा ।

सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः

॥३८॥

निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः ।

सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः

॥३९॥

राजान ऊचुः

बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः ।

कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा

॥४०॥

उपासिता कथं चैव पूजिता च कथं नृप ।

या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता

॥४१॥

सुदर्शन उवाच

बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् ।

स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः

॥४२॥

ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा ।

स्मरामि तां दिवारात्रं भक्त्या परमया पराम्

॥४३॥

व्यास उवाच

तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः ।

तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति

॥४४॥

सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् ।

सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान्

॥४५॥

मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे ।

जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः

॥४६॥

आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः ।

उपायनान्युपादाय प्रययुः सम्मुखे जनाः

॥४७॥

तथा प्रकृतयः सर्वे नानोपायनपाणयः ।

ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः

॥४८॥

स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः ।

सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम्

॥४९॥

वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः ।

कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा

॥५०॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सुदर्शनेन देवीमहिमवर्णनं नाम तृतीयस्कन्धे चतुर्विशोऽध्यायः ॥ २४ ॥