राजसंवादवर्णनम्
व्यास उवाच
भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् ।
उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम्
॥१॥किं वृथा सुदति त्वं हि विप्रियं मम भाषसे ।
पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते
॥२॥सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः ।
बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः
॥३॥मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः ।
न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः
॥४॥राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः ।
तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः
॥५॥भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै ।
करोति रूपसम्पन्नः सर्वलक्षणसंयुतः
॥६॥अन्यच्च कारणं सुभ्रु शृणु यच्च यथा श्रुतम् ।
युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः
॥७॥दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् ।
वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह
॥८॥भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् ।
मुनिना वारितः पश्चाज्जगाम निजमन्दिरम्
॥९॥शशिकलोवाच
मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः ।
शर्यातिवचनेनैव सुकन्या च पतिव्रता
॥१०॥च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता ।
भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा
॥११॥अकैतवकृतं नूनं सुखदं भवति स्त्रियाः ।
भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम्
॥१२॥तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् ।
मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः
॥१३॥तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् ।
व्यास उवाच ।
प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः
॥१४॥भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् ।
विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम्
॥१५॥द्विजं शशिकला तत्र प्रेषयामास सत्वरम् ।
यथा न वेद मे तातस्तथा गच्छ सुदर्शनम्
॥१६॥भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो ।
पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः
॥१७॥आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः ।
मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम्
॥१८॥भगवत्या समादिष्टः स्वप्ने मम सुरोपम ।
विषमद्मि हुताशे वा प्रपतामि प्रदीपिते
॥१९॥वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा ।
मनसा कर्मणा वाचा संवृतस्त्वं मया वरः
॥२०॥भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति ।
आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम्
॥२१॥यदधीनं जगत्सर्वं वर्तते सचराचरम् ।
भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति
॥२२॥यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः ।
वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः
॥२३॥यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ ।
इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया
॥२४॥गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः ।
सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा
॥२५॥चकार मुनिना तेन प्रेरितः परमादरात् ।
व्यास उवाच ।
गमनायोद्यतं पुत्रं तमुवाच मनोरमा
॥२६॥वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना ।
कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल
॥२७॥एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे ।
युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः
॥२८॥न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक ।
एकपुत्रातिदीनास्मि तवाधारा निराश्रया
॥२९॥नार्हसि त्वं महाभाग निराशां कर्तुंमद्य माम् ।
पिता ते निहतो येन सोऽपि तत्रागतो नृपः
॥३०॥एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति ।
सुदर्शन उवाच ।
भवितव्यं भवत्येव नात्र कार्या विचारणा
॥३१॥आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे ।
मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने
॥३२॥न बिभेमि प्रसादेन भगवत्या निरन्तरम् ।
व्यास उवाच ।
इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम्
॥३३॥दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्चान्वमोदयत् ।
अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः
॥३४॥पार्वती पार्श्वयोः पातु शिवा सर्वत्र साम्प्रतम् ।
वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् ।
कालिका कलहे घोरे पातु त्वां परमेश्वरी
॥३५॥मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे ।
भवानी भूपमध्ये तु पातु त्वां भवमोचनी
॥३६॥गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च ।
कामगा काननेष्वेवं रक्षतु त्वां सनातनी
॥३७॥विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह ।
भैरवी चरणे सौम्य शत्रूणां वै समागमे
॥३८॥सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्वरी ।
महामाया जगद्धात्री सच्चिदानन्दरूपिणी
॥३९॥व्यास उवाच
इत्युक्त्वा तं तदा माता वेपमाना भयाकुला ।
उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा
॥४०॥निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे ।
सहैव नय मां वत्स यत्र ते गमने मतिः
॥४१॥इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा ।
विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः
॥४२॥वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः ।
ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः
॥४३॥निवेशार्थं गृहं दत्तमन्नपानादिकं तथा ।
सेवकं समनुज्ञाप्य परिचर्यार्थमेव च
॥४४॥मिलितास्त्वथ राजानो नानादेशाधिपाः किल ।
युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः
॥४५॥करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः ।
सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः
॥४६॥पाञ्चालः पर्वतीयश्च कामरूपोऽतिवीर्यवान् ।
कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः
॥४७॥अक्षौहिणी त्रिषष्टिश्च मिलिता संख्यया तदा ।
वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः
॥४८॥एते चान्ये च बहवः स्वयंवरदिदृक्षया ।
मिलितास्तत्र राजानो वरवारणसंयुताः
॥४९॥अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा ।
सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः
॥५०॥एकाकी रथमारुह्य मात्रा सह महामतिः ।
विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम्
॥५१॥एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ ।
किमेनं राजपुत्री सा वरिष्यति महाभुजम्
॥५२॥युधाजिदथ राजेशस्तानुवाच महीपतीन् ।
अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः
॥५३॥केरलाधिपतिः प्राह तं तदा नीतिसत्तमः ।
नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे
॥५४॥बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः ।
कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह
॥५५॥अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः ।
दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम
॥५६॥काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः ।
कथमेनं राजपुत्रं हनिष्यसि निरागसम्
॥५७॥लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम ।
शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः
॥५८॥धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
मानयं कुरु राजेन्द्र त्यज पापमतिं किल
॥५९॥दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः ।
राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति
॥६०॥अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः ।
कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम्
॥६१॥वृते तथा विवादः कः प्रवदन्तु महीभुजः ।
परस्परं विरोधोऽत्र न कर्तव्यो विजानता
॥६२॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे राजसंवादवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥