मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — तृतीयस्कन्धः, अध्याय २०

3
तृतीयस्कन्धः · 20

स्वपितरं प्रति शशिकलावाक्यम्

व्यास उवाच

इतिवादिनि भूपाले केरलाधिपतौ तदा ।

प्रत्युवाच महाभाग युधाजिदपि पार्थिवः

॥१॥

नीतिरेषा महीपाल यद्ब्रवीति भवानिह ।

समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः

॥२॥

योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह ।

अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते

॥३॥

भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् ।

तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति

॥४॥

बलं वेदो हि विप्राणां भूभुजां चापजं बलम् ।

किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना

॥५॥

बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् ।

बलवानेव गृह्णातु नाबलस्तु कदाचन

॥६॥

तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् ।

अन्यथा कलहः कामं भविष्यति महीभुजाम्

॥७॥

एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् ।

आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः

॥८॥

समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः ।

राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता

॥९॥

किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः ।

पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि

॥१०॥

सुबाहुरुवाच

पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः ।

मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः

॥११॥

किं करोमि सुताया मे न वशे वर्तते मनः ।

सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः

॥१२॥

व्यास उवाच

सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् ।

ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः

॥१३॥

राजपुत्र महाभाग केनाहूतोऽसि सुव्रत ।

एकाकी यः समायातः समाजे भूभृतामिह

॥१४॥

न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् ।

किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते

॥१५॥

युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे ।

कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि

॥१६॥

भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया ।

युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः

॥१७॥

गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् ।

त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत

॥१८॥

सुदर्शन उवाच

न बलं न सहायो मे न कोशो दुर्गसंश्रयः ।

न मित्राणि न सौहार्दी न नृपा रक्षका मम

॥१९॥

अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः ।

स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः

॥२०॥

नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी ।

तया यद्विहितं तच्च भविताऽद्य न संशयः

॥२१॥

न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः ।

सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम्

॥२२॥

यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः ।

शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम्

॥२३॥

यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः ।

का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा

॥२४॥

देवभूतमनुष्येषु सर्वभूतेषु सर्वदा ।

सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः

॥२५॥

सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः ।

निर्धनं वा नरं कामं का चिन्ता वै तदा मम

॥२६॥

तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः ।

न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः

॥२७॥

अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् ।

तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे

॥२८॥

सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै ।

नात्र शंका प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम्

॥२९॥

जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः ।

भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा

॥३०॥

व्यास उवाच

इति तस्य तदाकर्ण्य वचनं राजसत्तमाः ।

ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः

॥३१॥

सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्भवेत् ।

तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति

॥३२॥

त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते ।

यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ

॥३३॥

सुदर्शन उवाच

सत्यमुक्तं भवद्भिश्च कृपावद्भिः सुहृज्जनैः ।

किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः

॥३४॥

न मृत्युः केनचिद्भाव्यः कस्यचिद्वा कदाचन ।

दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम्

॥३५॥

स्ववशोऽयं न जीवोऽस्ति स्वकर्मवशगः सदा ।

तत्कर्म त्रिविधं प्रोक्तं विद्वद्भिस्तत्त्वदर्शिभिः

॥३६॥

सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् ।

कालकर्मस्वभावैश्च ततं सर्वमिदं जगत्

॥३७॥

न देवो मानुषं हन्तुं शक्तः कालागमं विना ।

हतं निमित्तमात्रेण हन्ति कालः सनातनः

॥३८॥

यथा पिता मे निहतः सिंहेनामित्रकर्षणः ।

तथा मातामहोऽप्येवं युद्धे युधाजिता हतः

॥३९॥

यत्नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः ।

जीवेद्वर्षसहस्राणि रक्षणेन विना नरः

॥४०॥

नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः ।

दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः

॥४१॥

स्मरणं सततं नित्यं भगवत्याः करोम्यहम् ।

विश्वस्य जननी देवी कल्याणं सा करिष्यति

॥४२॥

पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा ।

स्वकृतस्य च भोगेन कीदृक्शोको विजानताम्

॥४३॥

स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः ।

निमित्तकारणे वैरं करोत्यल्पमतिः किल

॥४४॥

न तथाऽहं विजानामि वैरं शोकं भयं तथा ।

निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह

॥४५॥

एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् ।

भविष्यति च यद्भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया

॥४६॥

भगवत्याः प्रमाणं मे नान्यं जानामि संयतः ।

तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा

॥४७॥

युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः ।

यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा

॥४८॥

व्यास उवाच

इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः ।

सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह

॥४९॥

अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल ।

सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे

॥५०॥

दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च ।

उपविष्टाश्च राजानः शुभालङ्करणैर्युताः

॥५१॥

दिव्यवेषधराः कामं विमानेष्वमरा इव ।

दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया

॥५२॥

इति चिन्तापराः सर्वे कदा साप्यागमिष्यति ।

भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति

॥५३॥

यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह ।

विवादो वै नृपाणां च भविता नात्र संशयः

॥५४॥

इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः ।

वादित्रघोषः सुमहानुत्थितो नृपमण्डपे

॥५५॥

अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् ।

मधूकमालासंयुक्तां क्षौमवासोविभूषिताम्

॥५६॥

विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् ।

चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः

॥५७॥

उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् ।

व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम्

॥५८॥

गुणवान् रूपसम्पन्नः कुलीनश्च नृपोत्तमः ।

तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे

॥५९॥

देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च ।

संविष्टाः पश्य तन्वङ्गि वरयस्व यथारुचि

॥६०॥

व्यास उवाच

तं तथा भाषमाणं वै पितरं मितभाषिणी ।

उवाच वचनं बाला ललितं धर्मसंयुतम्

॥६१॥

शशिकलोवाच

नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल ।

कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः

॥६२॥

धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल ।

एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः

॥६३॥

सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ ।

सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति

॥६४॥

स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे ।

सामान्या सा तदा जाता कुलटेवापरा वधूः

॥६५॥

वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् ।

गुणागुणपरिज्ञानं करोति निजमानसे

॥६६॥

नैकभावा यथा वेश्या वृथा पश्यति कामुकम् ।

तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम्

॥६७॥

वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् ।

पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता

॥६८॥

सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु ।

वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै

॥६९॥

सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः ।

तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम

॥७०॥

विवाहविधिना देहि कन्यादानं शुभे दिने ।

सुदर्शनाय नृपते यदीच्छसि शुभं मम

॥७१॥

इति श्रीदेवीभागवत महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे स्वपितरं प्रति शशिकलावाक्यं नामविंशोध्यायः ॥ २० ॥