मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १

3
चतुर्थस्कन्धः · 1

जनमेजयप्रश्नाः

जनमेजय उवाच

वासवेय मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ ।

प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन

॥१॥

शूरसेनसुतः श्रीमान्वसुदेवः प्रतापवान् ।

श्रुतं मया हरिर्यस्य पुत्रभावमवाप्तवान्

॥२॥

देवानामपि पूज्योऽभून्नाम्ना चानकदुन्दुभिः ।

कारागारे कथं बद्धः कंसस्य धर्मतत्परः

॥३॥

देवक्या भार्यया सार्धं किमागः कृतवानसौ ।

देवक्या बालषट्कस्य विनाशश्च कृतः पुनः

॥४॥

तेन कंसेन कस्माद्वै ययातिकुलजेन च ।

कारागारे कथं जन्म वासुदेवस्य वै हरेः

॥५॥

गोकुले च कथं नीतो भगवान्सात्वतां पतिः ।

गतो जन्मान्तरं कस्मात्पितरौ निगडे स्थितौ

॥६॥

देवकीवसुदेवौ च कृष्णस्यामिततेजसः ।

कथं न मोचितौ वृद्धौ पितरौ हरिणामुना

॥७॥

जगत्कर्तुं समर्थेन स्थितेन जनकोदरे ।

प्राक्तनं किं तयोः कर्म दुर्विज्ञेयं महात्मभिः

॥८॥

जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः ।

के ते पुत्राश्च का बाला या कंसेन विपोथिता

॥९॥

शिलायां निर्गता व्योम्नि जाता त्वष्टभुजा पुनः ।

गार्हस्थ्यञ्च हरेर्ब्रूहि बहुभार्यस्य चानघ

॥१०॥

कार्याणि तत्र तान्येव देहत्यागं च तस्य वै ।

किंवदन्त्या श्रुतं यत्तन्मनो मोहयतीव मे

॥११॥

चरितं वासुदेवस्य त्वमाख्याहि यथातथम् ।

नरनारायणौ देवौ पुराणावृषिसत्तमौ

॥१२॥

धर्मपुत्रौ महात्मानौ तपश्चेरतुरुत्तमम् ।

यौ मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे

॥१३॥

निराहारौ जितात्मानौ निःस्पृहौ जितषड्गुणौ ।

विष्णोरंशौ जगत्स्थेम्ने तपश्चेरतुरुत्तमम्

॥१४॥

तयोरंशावतारौ हि जिष्णुकृष्णौ महाबलौ ।

प्रसिद्धौ मुनिभिः प्रोक्तौ सर्वज्ञैर्नारदादिभिः

॥१५॥

विद्यमानशरीरौ तौ कथं देहान्तरं गतौ ।

नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम्

॥१६॥

यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ ।

तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ

॥१७॥

शूद्रः स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः ।

शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत्

॥१८॥

ब्राह्मणो निःस्पृहः शान्तो भवरोगाद्विमुच्यते ।

विपरीतमिदं भाति नरनारायणौ च तौ

॥१९॥

तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः ।

केन तौ कर्मणा शान्तौ जातौ शापेन वा पुनः

॥२०॥

ब्राह्मणौ क्षत्रियौ जातौ कारणं तन्मुने वद ।

यादवानां विनाशश्च ब्रह्मशापादिति श्रुतः

॥२१॥

कृष्णस्यापि हि गान्धार्याः शापेनैव कुलक्षयः ।

प्रद्युम्नहरणं चैव शम्बरेण कथं कृतम्

॥२२॥

वर्तमाने वासुदेवे देवदेवे जनार्दने ।

पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम्

॥२३॥

द्वारकादुर्गमध्याद्वै हरिवेश्माद्दुरत्ययात् ।

न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा

॥२४॥

सन्देहोऽयं महान्ब्रह्मन्निसन्देहं कुरु प्रभो ।

यत्पत्न्यो वासुदेवस्य दस्युभिर्लुण्ठिता हृताः

॥२५॥

स्वर्गते देवदेवे तु तत्कथं मुनिसत्तम ।

संशयो जायते ब्रह्मंश्चित्तान्दोलनकारकः

॥२६॥

विष्णोरंशः समुद्भूतः शौरिर्भूभारहारकृत् ।

स कथं मथुराराज्यं भयात्त्यक्त्वा जनार्दनः

॥२७॥

द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः ।

अवतारो हरेः प्रोक्तो भूभारहरणाय वै

॥२८॥

पापात्मनां विनाशाय धर्मसंस्थापनाय च ।

तत्कथं वासुदेवेन चौरास्ते न निपातिताः

॥२९॥

यैर्हृता वासुदेवस्य पत्न्यः संलुण्ठिताश्च ताः ।

स्तेनास्ते किं न विज्ञाताः सर्वज्ञेन सता पुनः

॥३०॥

भीष्मद्रोणवधः कामं भूभारहरणे मतः ।

अर्चिताश्च महात्मानः पाण्डवा धर्मतत्पराः

॥३१॥

कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः ।

ते कृत्वा राजसूयञ्च यज्ञराजं विधानतः

॥३२॥

दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः ।

पाण्डुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने

॥३३॥

घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतञ्च तत् ।

किं तत्पापं महारौद्रं येन ते पीडिताः सदा

॥३४॥

द्रौपदी च महाभागा वेदीमध्यात्समुत्थिता ।

रमांशजा च साध्वी च कृष्णभक्तियुता तथा

॥३५॥

सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः ।

दुःशासनेन सा केशे गृहीता पीडिता भृशम्

॥३६॥

रजस्वला सभायां तु नीता भीतैकवाससा ।

विराटनगरे दासी जाता मत्स्यस्य सा पुनः

॥३७॥

धर्षिता कीचकेनाथ रुदती कुररी यथा ।

हृता जयद्रथेनाथ क्रन्दमानातिदुःखिता

॥३८॥

मोचिता पाण्डवैः पश्चाद्बलवद्भिर्महात्मभिः ।

पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः

॥३९॥

दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते ।

राजसूयं क्रतुवरं कृत्वा ते मम पूर्वजाः

॥४०॥

दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै ।

देवांशानां कथं तेषां संशयोऽयं महान्हि मे

॥४१॥

सदाचारैस्तु कौन्तेयैर्भीष्मद्रोणादयो हताः ।

छलेन धनलाभार्थं जानानैर्नश्वरं जगत्

॥४२॥

प्रेरिता वासुदेवेन पापे घोरे महात्मना ।

कुलं क्षयितवन्तस्ते हरिणा परमात्मना

॥४३॥

वरं भिक्षाटनं साधोर्नीवारैर्जीवनं वरम् ।

योधान्न हत्वा लोभेन शिल्पेन जीवनं वरम्

॥४४॥

विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम ।

समुत्पाद्य सुतानाशु गोलकाच्छत्रुनाशनान्

॥४५॥

सोऽल्पेनैव तु कालेन विराटतनयासुतः ।

तापसस्य गले सर्पं न्यस्तवान्कथमद्भुतम्

॥४६॥

नकोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्भवः ।

तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने

॥४७॥

एतैरन्यैश्च सन्देहैर्विकलं मे मनोऽधुना ।

स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे

॥४८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे जनमेजयप्रश्नो नाम प्रथमोऽध्यायः ॥ १ ॥