शुक्रमातुर्वधवर्णनम्
व्यास उवाच
तथा गतेषु देवेषु काव्यस्तान्प्रत्युवाच ह ।
ब्रह्मणा पूर्वमुक्तं यच्छ्रुणुध्वं दानवोत्तमाः
॥१॥विष्णुर्दैत्यवधे युक्तो हनिष्यति जनार्दनः ।
वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः
॥२॥यथा नृसिंहरूपेण हिरण्यकशिपुर्हतः ।
तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा
॥३॥न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् ।
जेतुं यूयं समर्थाः स्थ मया त्राताः सुरानथ
॥४॥तस्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः ।
अहमद्य महादेवं मन्त्रार्थं प्रव्रजामि वै
॥५॥प्राप्य मन्त्रान्महादेवादागमिष्यामि साम्प्रतम् ।
युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः
॥६॥दैत्या ऊचुः
पराजिताः कथं स्थातुं पृथिव्यां मुनिसत्तम ।
शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम्
॥७॥निहता बलिनः सर्वे केचिच्छिष्टाश्च दानवाः ।
नाद्य युक्ताश्च संग्रामे स्थातुमेवं सुखावहाः
॥८॥शुक्र उवाच
यावदहं मन्त्रविद्यामानयिष्यामि शङ्करात् ।
तावद्भवद्भिः स्थातव्यं तपोयुक्तैः शमान्वितैः
॥९॥सामदानादयः प्रोक्ता विद्वद्भिः समयोचिताः ।
देशं कालं बलं वीरैर्ज्ञात्वा शक्तिं बलं बुधैः
॥१०॥सेवाथ समये कार्या शत्रूणां शुभकाम्यया ।
स्वशक्त्युपचये काले हन्तव्यास्ते मनीषिभिः
॥११॥तदद्य विनयं कृत्वा सामपूर्वं छलेन वै ।
तिष्ठध्वं स्वनिकेतेषु मदागमनकाङ्क्षया
॥१२॥प्राप्य मन्त्रान्महादेवादागमिष्यामि दानवाः ।
युध्यामहे पुनर्देवान्मान्त्रमास्थाय वै बलम्
॥१३॥इत्युक्त्वाथ भृगुस्तेभ्यो जगाम कृतनिश्चयः ।
महादेवं महाराज मन्त्रार्थं मुनिसत्तमः
॥१४॥दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ ।
सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम्
॥१५॥प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः ।
असुरैः सहितस्तत्र वचनं नम्रतायुतम्
॥१६॥न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तथैव च ।
देवास्तपश्चरिष्यामः संवृता वल्कलैर्युताः
॥१७॥प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् ।
ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते
॥१८॥न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः ।
विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः
॥१९॥दैत्या दम्भं समालम्ब्य तापसास्तपिसंयुताः ।
कश्यपस्याश्रमे वासं चक्रुः काव्यागमेच्छया
॥२०॥काव्यो गत्वाथ कैलासं महादेवं प्रणम्य च ।
उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः
॥२१॥मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ ।
पराजयाय देवानामसुराणां जयाय च
॥२२॥व्यास उवाच
तच्छ्रुत्वा वचनं तस्य सर्वज्ञः शङ्करः शिवः ।
चिन्तयामास मनसा किं कर्तव्यमतः परम्
॥२३॥सुरेषु द्रोहबुद्ध्यासौ मन्त्रार्थमिह साम्प्रतम् ।
प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च
॥२४॥रक्षणीया मया देवा इति सञ्चिन्त्य शङ्करः ।
दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः
॥२५॥पूर्णं वर्षसहस्रं तु कणधूममवाक्छिराः ।
यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि
॥२६॥इत्युक्तोऽसौ प्रणम्येशं बाढमित्यब्रवीद्वचः ।
व्रतं चराम्यहं देव त्वयाज्ञप्तः सुरेश्वर
॥२७॥व्यास उवाच
इत्युक्त्वा शङ्करं काव्यश्चकार व्रतमुत्तमम् ।
धूमपानरतः शान्तो मन्त्रार्थं कृतनिश्चयः
॥२८॥ततो देवाः परिज्ञाय काव्यं व्रतरतं तदा ।
दैत्यान्दम्भरतांश्चैव बभूवुर्मन्त्रतत्पराः
॥२९॥विचार्य मनसा सर्वे संग्रामायोद्यता नृप ।
ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः
॥३०॥तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा ।
आसंस्ते भयसंविग्ना दैत्या देवान्समन्ततः
॥३१॥उत्पेतुः सहसा ते वै सन्नद्धान्भयकर्शिताः ।
अब्रुवन्वचनं तथ्यं ते देवान्वलदर्पितान्
॥३२॥न्यस्तशस्त्रे भयवति आचार्ये व्रतमास्थिते ।
दत्त्वाभयं पुरा देवाः सम्प्राप्ता नो जिघांसया
॥३३॥सत्यं वः क्व गतं देवा धर्मश्च श्रुतिनोदितः ।
न्यस्तशस्त्रा न हन्तव्या भीताश्च शरणं गताः
॥३४॥देवा ऊचुः
भवद्भिः प्रेषितः काव्यो मन्त्रार्थं कुहकेन च ।
तपो ज्ञातं हि युष्माकं तेन युध्याम एव हि
॥३५॥सज्जा भवन्तु युद्धाय संरब्धाः शस्त्रपाणयः ।
शत्रुश्छिद्रेण हन्तव्य एष धर्मः सनातनः
॥३६॥व्यास उवाच
तच्छ्रुत्वा वचनं दैत्या विचार्य च परस्परम् ।
पलायनपराः सर्वे निर्गता भयविह्वलाः
॥३७॥शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम् ।
दृष्ट्वा तानतिसन्तप्तानभयं च ददावथ
॥३८॥काव्यमातोवाच
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः ।
मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति
॥३९॥तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः ।
निरायुधा ह्यसंभ्रान्तास्तत्राश्रमवरेऽसुराः
॥४०॥देवास्तान्विद्रुतान्वीक्ष्य दानवास्ते पदानुगाः ।
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्
॥४१॥तत्रागताः सुराः सर्वे हन्तुं दैत्यान्समुद्यताः ।
वारिताः काव्यमात्रापि जघ्नुस्तानाश्रमस्थितान्
॥४२॥हन्यमानान्सुरैर्दृष्ट्वा काव्यमातातिवेपिता ।
उवाच सर्वान्सनिद्रांस्तपसा वै करोम्यहम्
॥४३॥इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च ।
सेन्द्रा निद्रावशं याता देवा मूकवदास्थिताः
॥४४॥इन्द्रं निद्राजितं दृष्ट्वा दीनं विष्णुरभाषत ।
मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम
॥४५॥एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः ।
निर्भयो गतनिद्रश्च बभूव हरिरक्षितः
॥४६॥रक्षितं हरिणा दृष्ट्वा शक्रं तत्र गतव्यथम् ।
काव्यमाता ततः क्रुद्धा वचनं चेदमब्रवीत्
॥४७॥मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात् ।
पश्यतां सर्वदेवानामीदृशं मे तपोबलम्
॥४८॥व्यास उवाच
इत्युक्तौ तु तया देवौ विष्ण्विन्द्रौ योगविद्यया ।
अभिभूतौ महात्मानौ स्तब्धौ तौ सम्बभूवतुः
॥४९॥विस्मितास्तु तदा देवा दृष्ट्वा तावतिबाधितौ ।
चक्रुः किलकिलाशब्दं ततस्ते दीनमानसाः
॥५०॥क्रोशमानान्सुरान्दृष्ट्वा विष्णुं प्राह शचीपतिः ।
विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन
॥५१॥जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो ।
तपसा दर्पितां दुष्टां मा विचारय माधव
॥५२॥इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च ।
चक्रं सस्मार तरसा घृणां त्यक्त्वाथ माधवः
॥५३॥स्मृतमात्रं तु सम्प्राप्तं चक्रं विष्णुवशानुगम् ।
दधार च करे क्रुद्धो वधार्थं शक्रनोदितः
॥५४॥गृहीत्वा तत्करे चक्रं शिरश्चिच्छेद रंहसा ।
हतां दृष्ट्वा तु तां शक्रो मुदितश्चाभवत्तदा
॥५५॥देवाश्चातीव सन्तुष्टा हरिं जय जयेति च ।
तुष्टुवुर्मुदिताः सर्वे सञ्जाता विगतज्वराः
॥५६॥इन्द्रविष्णू तु सञ्जातौ तत्क्षणाद्धृदयव्यथौ ।
स्त्रीवधाच्छंकमानौ तु भृगोः शापं दुरत्ययम्
॥५७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्रमातुर्वधवर्णनं नामेकादशोऽध्यायः ॥ ११ ॥