मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १७

3
चतुर्थस्कन्धः · 17

नारायणवरदानम्

जनमेजय उवाच

वाराङ्गनास्त्वयाख्याता नरनारायणाश्रमे ।

एकं नारायणं शान्तं कामयाना स्मरातुराः

॥१॥

शप्तुकामस्तदा जातो मुनिर्नारायणश्च ताः ।

निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप

॥२॥

किं कृतं मुनिना तेन व्यसने समुपस्थिते ।

ताभिः संकल्पितेनाथ कामार्थाभिर्भृशं मुने

॥३॥

शक्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः ।

याचितेन विवाहार्थं किं कृतं तेन जिष्णुना

॥४॥

इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम् ।

नारायणस्य मे ब्रूहि विस्तरेण पितामह

॥५॥

व्यास उवाच

शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः ।

धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते

॥६॥

शप्तुकामस्तु संदृष्टो नरेणाथ यदा हरिः ।

वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा

॥७॥

शान्तकोपस्तदोवाच तास्तपस्वी महामुनिः ।

स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः

॥८॥

अस्मिञ्जन्मनि चार्वंग्यः कृतसंकल्पवानहम् ।

आवाभ्याञ्च न कर्तव्यः सर्वथा दारसंग्रहः

॥९॥

तस्माद् गच्छन्तु त्रिदिवं कृपां कृत्वा ममोपरि ।

धर्मज्ञा न प्रकुर्वन्ति व्रतभङ्गं परस्य वै

॥१०॥

शृङ्गारेऽस्मिन् रसे नूनं स्थायीभावो रतिः स्मृतः ।

कथं करोमि सम्बन्धं तदभावे सुलोचनाः

॥११॥

कारणेन विना कार्यं न भवेदिति निश्चयः ।

कविभिः कथितं शास्त्रे स्थायीभावो रसः किल

॥१२॥

धन्यः सुचारुसर्वाङ्गः सभाग्योऽहं धरातले ।

प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम्

॥१३॥

भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम ।

भविष्यामि महाभागाः पतिरप्यन्यजन्मनि

॥१४॥

अष्टाविंशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले ।

देवानां कार्यसिद्ध्यर्थं प्रभविष्यामि सर्वथा

॥१५॥

तदा भवत्यो मद्दाराः प्राप्य जन्म पृथक्पृथक् ।

भूपतीनां सुता भूत्वा पलीभावं गमिष्यथ

॥१६॥

इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् ।

व्यसर्जयत्स भगवाञ्जग्मुश्च विगतज्वराः

॥१७॥

एवं विसर्जितास्तेन गताः स्वर्गं तदाङ्गनाः ।

शक्राय कथयामासुः कारणं सकलं पुनः

॥१८॥

आश्रुत्य मघवांस्ताभ्यो वृत्तान्तं तस्य विस्तरात् ।

तुष्टाव तं महात्मानं नारीर्दृष्ट्वा तथोर्वशीः

॥१९॥

इन्द्र उवाच

अहो धैर्यं मुनेः कामं तथैव च तपोबलम् ।

येनोर्वश्यः स्वतपसा तादृग्रूपाः प्रकल्पिताः

॥२०॥

इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः ।

नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत्

॥२१॥

इत्येतत्सर्वमाख्यातं मुनेर्वृत्तान्तमद्भुतम् ।

नारायणस्य सकलं नरस्य च महामुनेः

॥२२॥

तौ हि कृष्णार्जुनौ वीरौ भूभारहरणाय च ।

जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह

॥२३॥

राजोवाच

कृष्णावतारचरितं विस्तरेण वदस्व मे ।

सन्देहो मम चित्तेऽस्ति तं निवारय मानद

॥२४॥

ययोः पुत्रत्वमापन्नौ हर्यनन्तौ महाबलौ ।

देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने

॥२५॥

कंसेन निगडे बद्धौ पीडितौ बहुवत्सरान् ।

ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत्

॥२६॥

जातोऽसौ मथुरायां तु गोकुले स कथं गतः ।

कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम्

॥२७॥

पित्रादिसेवितं देशं समृद्धं पावनं किल ।

त्यक्त्वा देशान्तरेऽनार्ये गतवान्स कथं हरिः

॥२८॥

कुलञ्च द्विजशापेन कथमुत्सादितं हरेः ।

भारावतारणं कृत्वा वासुदेवः सनातनः

॥२९॥

देहं मुमोच तरसा जगाम च दिवं हरिः ।

पापिष्ठानाञ्च भारेण व्याकुलाभूच्च मेदिनी

॥३०॥

ते हता वासुदेवेन पार्थेनामितकर्मणा ।

लुण्ठिता यैर्हरेः पत्न्यस्ते कथं न निपातिताः

॥३१॥

भीष्मो द्रोणस्तथा कर्णो बाह्लिकोऽप्यथ पार्थिवः ।

वैराटोऽथ विकर्णश्च धृष्टद्युम्नश्च पार्थिवः

॥३२॥

सोमदत्तादयः सर्वे निहताः समरे नृपाः ।

तेषामुत्तारितो भारश्चौराणां न हृतः कथम्

॥३३॥

कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रान्ते पतिव्रताः ।

सन्देहोऽयं मुनिश्रेष्ठ चित्ते मे परिवर्तते

॥३४॥

वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः ।

त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह

॥३५॥

पाण्डवा धर्मसंयुक्ताः कृष्णे च निरताः सदा ।

ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम

॥३६॥

द्रौपदी च महाभागा कथं दुःखस्य भागिनी ।

वेदीमध्याच्च सञ्जाता लक्ष्म्यंशसम्भवा किल

॥३७॥

सभायां सा समानीता रजोदोषसमन्विता ।

बाला दुःशासनेनाथ केशग्रहणकर्शिता

॥३८॥

पीडिता सिन्धुराज्ञाथ वनमध्यगता सती ।

तथैव कीचकेनापि पीडिता रुदती भृशम्

॥३९॥

पुत्राः पञ्चैव तस्यास्तु निहता द्रौणिना गृहे ।

सुभद्रायाः सुतो युद्धे बाल एव निपातितः

॥४०॥

तथा च देवकीपुत्रा षट् कंसेन निषूदिताः ।

समर्थेनापि हरिणा दैवं न कृतमन्यथा

॥४१॥

यादवानां तथा शापः प्रभासे निधनं पुनः ।

कुलक्षयस्तथा तीव्रस्तत्पत्नीनाञ्च लुण्ठनम्

॥४२॥

विष्णुना चेश्वरेणापि साक्षान्नारायणेन च ।

उग्रसेनस्य सेवा वै दासवत्सततं कृता

॥४३॥

सन्देहोऽयं महाभाग तत्र नारायणे मुनौ ।

सर्वजन्तुसमानत्वं व्यवहारे निरन्तरम्

॥४४॥

हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् ।

ईश्वरस्य हरेर्जाता कथमप्यन्यथा गतिः

॥४५॥

तस्माद्विस्तरतो ब्रूहि कृष्णस्य चरितं महत् ।

अलौकिकेन हरिणा कृतं कर्म महीतले

॥४६॥

हता आयुःक्षये दैत्याः क्लेशेन महता पुनः ।

क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम

॥४७॥

रुक्मिणीहरणे नूनं गृहीत्वाथ पलायनम् ।

कृतं हि वासुदेवेन चौरवच्चरितं तदा

॥४८॥

मथुरामण्डलं त्यक्त्वा समृद्धं कुलसम्मतम् ।

जरासन्धभयात्तेन द्वारकागमनं कृतम्

॥४९॥

तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः ।

किञ्चित्प्रब्रूहि मे ब्रह्मन् कारणं व्रजगोपनम्

॥५०॥

एते चान्ये च बहवः सन्देहा वासवीसुत ।

नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम

॥५१॥

गोप्यस्तथैकः सन्देहो हृदयान्न निवर्तते ।

पाञ्चाल्याः पञ्चभर्तृत्वं लोके किं न जुगुप्सितम्

॥५२॥

सदाचारं प्रमाणं हि प्रवदन्ति मनीषिणः ।

पशुधर्मः कथं तैस्तु समर्थैरपि संश्रितः

॥५३॥

भीष्मेणापि कृतं किं वा देवरूपेण भूतले ।

गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम्

॥५४॥

धिग्धर्मनिर्णयः कामं मुनिभिः परिदर्शितः ।

येन केनाप्युपायेन पुत्रोत्पादनलक्षणः

॥५५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे सुराङ्गनानां प्रति नारायणवरदानं नाम सप्तदशोऽध्यायः ॥ १७ ॥