देवान् प्रति देवीवाक्यवर्णनम्
व्यास उवाच
इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् ।
यन्मायामोहितः सर्वस्तत्त्वं जानाति नो जनः
॥१॥वयं मायावृताः कामं न स्मरामो जगद्गुरुम् ।
परमं पुरुषं शान्तं सच्चिदानन्दमव्ययम्
॥२॥अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः ।
न जानीमो वयं धातः परं वस्तु सनातनम्
॥३॥यन्मायामोहितश्चाहं सदा वर्ते परात्मनः ।
परवान्दारुपाञ्चाली मायिकस्य यथा वशे
॥४॥भवतापि तथा दृष्टा विभूतिस्तस्य चाद्भुता ।
कल्पादौ भवयुक्तेन मयापि च सुधार्णवे
॥५॥मणिद्वीपेऽथ मन्दारविटपे रासमण्डले ।
समाजे तत्र सा दृष्टा श्रुता न वचसापि च
॥६॥तस्मात्तां परमां शक्तिं स्मरन्त्वद्य सुराः शिवाम् ।
सर्वकामप्रदां मायामाद्यां शक्तिं परात्मनः
॥७॥व्यास उवाच
इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम् ।
सस्मरुर्मनसा देवीं योगमायां सनातनीम्
॥८॥स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ ।
पाशाङ्कुशवराभीतिधरा देवी जपारुणा ।
दृष्ट्वा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शनाम्
॥९॥देवा ऊचुः
ऊर्णनाभाद्यथा तन्तुर्विस्फुलिङ्गा विभावसोः ।
तथा जगद्यदेतस्या निर्गतं तां नता वयम्
॥१०॥यन्मायाशक्तिसंकॢप्तं जगत्सर्वं चराचरम् ।
तां चितं भुवनाधीशां स्मरामः करुणार्णवाम्
॥११॥यदज्ञानाद्भवोत्पत्तिर्यज्ज्ञानाद्भवनाशनम् ।
संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात्
॥१२॥महालक्ष्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात्
॥१३॥मातर्नताः स्म भुवनार्तिहरे प्रसीद शन्तो विधेहि कुरु कार्यमिदं दयार्द्रे ।
भारं हरस्व विनिहत्य सुरारिवर्गं मह्या महेश्वरि सतां कुरु शं भवानि
॥१४॥यद्यम्बुजाक्षि दयसे न सुरान्कदाचित् किं ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् ।
एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताश पदाभिलाषैः
॥१५॥कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बार्हद्रथो बकबकीखरशाल्वमुख्याः ।
येऽन्ये तथा नृपतयो भुवि सन्ति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः
॥१६॥ये विष्णुना न निहताः किल शङ्करेण ये वा विगृह्य जलजाक्षि पुरन्दरेण ।
ते ते मुखं सुखकरं सुसमीक्षमाणाः ् संख्ये शरैर्विनिहता निजलीलया ते
॥१७॥शक्तिं विना हरिहरप्रमुखाः सुराश्च ।
नैवेश्वरा विचलितुं तव देवदेवि ।
किं धारणाविरहितः प्रभुरप्यनन्तो धर्तुं धराञ्च रजनीशकलावतंसे
॥१८॥इन्द्र उवाच
वाचा विना विधिरलं भवतीह विश्वं कर्तुं हरिः किमु रमारहितोऽथ पातुम् ।
संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः
॥१९॥विष्णुरुवाच
कर्तुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः ।
कर्तुं प्रभुत्वमनघेऽत्र तथा विहर्तुं त्वं वै समस्तविभवेश्वरि भासि नूनम्
॥२०॥व्यास उवाच
एवं स्तुता तदा देवी तानाह विबुधेश्वरान् ।
किं तत्कार्यं वदन्त्वद्य करोमि विगतज्वराः
॥२१॥असाध्यमपि लोकेऽस्मिंस्तत्करोमि सुरेप्सितम् ।
शंसन्तु भवतां दुःखं धरायाश्च सुरोत्तमाः
॥२२॥देवा ऊचुः
वसुधेयं भराक्रान्ता सम्प्राप्ता विबुधान्प्रति ।
रुदती वेपमाना च पीडिता दुष्टभूभुजैः
॥२३॥भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि ।
देवानामीष्मित कार्यमेतदेवाधुना शिवे
॥२४॥घातितस्तु पुरा मातस्त्वया महिषरूपभृत् ।
दानवोऽतिबलाक्रान्तस्तत्सहायाश्च कोटिशः
॥२५॥तथा शुम्भो निशुम्भश्च रक्तबीजस्तथापरः ।
चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः
॥२६॥दुर्मुखो दुःसहश्चैव करालश्चाति वीर्यवान् ।
अन्ये च बहवः क्रूरास्त्वयैव च निपातिताः
॥२७॥तथैव च सुरारींश्च जहि सर्वान्महीश्वरान् ।
(भारं हर धरायाश्च दुर्धरं दुष्टभूभुजाम् ।
) ।
व्यास उवाच ।
इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा
॥२८॥सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा ।
श्रीदेव्युवाच ।
मयेदं चिन्तितं पूर्वमंशावतरणं सुराः
॥२९॥भारावतरणं चैव यथा स्याद्दुष्टभूभुजाम् ।
मया सर्वे निहन्तव्या दैत्येशा ये महीभुजः
॥३०॥मागधाद्या महाभागाः स्वशक्त्या मन्दतेजसः ।
भवद्भिरपि स्वैरंशैरवतीर्य धरातले
॥३१॥मच्छक्तियुक्तैः कर्तव्यं भारावतरणं सुराः ।
कश्यपो भार्यया सार्धं दिविजानां प्रजापतिः
॥३२॥यादवानां कुले पूर्वं भविताऽऽनकदुन्दुभिः ।
तथैव भृगुशापाद्वै भगवान्विष्णुरव्ययः
॥३३॥अंशेन भविता तत्र वसुदेवसुतो हरिः ।
तदाहं प्रभविष्यामि यशोदायां च गोकुले
॥३४॥कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः ।
कारागारे गतं विष्णुं प्रापयिष्यामि गोकुले
॥३५॥शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् ।
मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम्
॥३६॥दुष्टानां भूभुजां कामं द्वापरान्ते सुनिश्चितम् ।
इन्द्रांशोऽप्यर्जुनः साक्षात्करिष्यति बलक्षयम्
॥३७॥धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः ।
वाय्वंशो भीमसेनश्चाश्विन्यंशौ च यमावपि
॥३८॥वसोरंशोऽथ गाङ्गेयः करिष्यति बलक्षयम् ।
व्रजन्तु च भवन्तोऽद्य धरा भवतु सुस्थिरा
॥३९॥भारावतरणं नूनं करिष्यामि सुरोत्तमाः ।
कृत्वा निमित्तमात्रांस्तान्स्वशक्त्याहं न संशयः
॥४०॥कुरुक्षेत्रे करिष्यामि क्षत्त्रियाणां च संक्षयम् ।
असूयेर्ष्या मतिस्तृष्णा ममताभिमता स्पृहा
॥४१॥जिगीषा मदनो मोहो दोषैर्नक्ष्यन्ति यादवाः ।
ब्राह्मणस्य च शापेन वंशनाशो भविष्यति
॥४२॥भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम् ।
भवन्तोऽपि निजाङ्गैश्च सहायाः शार्ङ्गधन्वनः
॥४३॥प्रभवन्तु सनारीका मथुरायां च गोकुले ।
व्यास उवाच ।
इत्युक्त्वान्तर्दधे देवी योगमाया परात्मनः
॥४४॥सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च ।
धरापि सुस्थिरा जाता तस्या वाक्येन तोषिता
॥४५॥ओषधीवीरुधोपेता बभूव जनमेजय ।
प्रजाश्च सुखिनो जाता द्विजाश्चापुर्महोदयम् ।
सन्तुष्टा मुनयः सर्वे बभूबुर्धर्मतत्पराः
॥४६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवान् प्रति देवीवाक्यवर्णनं नामकोनविंशोऽध्यायः ॥ १९ ॥