नरनारायणकथावर्णनम्
व्यास उवाच
अथ किं बहुनोक्तेन संसारेऽस्मिन्नृपोत्तम ।
धर्मात्माद्रोहबुद्धिस्तु कश्चिद्भवति कर्हिचित्
॥१॥रागद्वेषावृतं विश्वं सर्वं स्थावरजङ्गमम् ।
आद्ये युगेऽपि राजेन्द्र किमद्य कलिदूषिते
॥२॥देवाः सेर्ष्याश्च सद्रोहाश्छलकर्मरताः सदा ।
मानुषाणां तिरश्चां च का वार्ता नृप गण्यते
॥३॥द्रोहपरे द्रोहपरो भवेदिति समानता ।
अद्रोहिणि तथा शान्ते विद्वेषः खलता स्मृता
॥४॥यः कश्चित्तापसः शान्तो जपध्यानपरायणः ।
भवेत्तस्य जपे विघ्नकर्ता वै मघवा परम्
॥५॥सतां सत्ययुगं साक्षात्सर्वदैवासतां कलिः ।
मध्यमो मध्यमानां तु क्रियायोगौ युगे स्मृतौ
॥६॥कश्चित्कदाचिद्भवति सत्यधर्मानुवर्तकः ।
अन्यथान्ययुगानां वै सर्वे धर्मपरायणाः
॥७॥वासना कारणं राजन् सर्वत्र धर्मसंस्थितौ ।
तस्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत्
॥८॥मलिना वासना सत्यं विनाशायेति सर्वथा ।
ब्रह्मणो हृदयाञ्चातः पुत्रो धर्म इति स्मृतः
॥९॥ब्राह्मणः सत्यसम्पन्तो वेदधर्मरतः सदा ।
दक्षस्य दुहितारो हि वृता दश महात्मना
॥१०॥विवाहविधिना सम्यङ्मुनिना गृहधर्मिणा ।
तास्वजीजनयत्पुत्रान्धर्मः सत्यवतां वरः
॥११॥हरिं कृष्णं नरं चैव तथा नारायणं नृप ।
योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह
॥१२॥नरनारायणौ चैव चेरतुस्तप उत्तमम् ।
प्रालेयाद्रिं समागत्य तीर्थे बदरिकाश्रमे
॥१३॥तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ ।
गृणन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे
॥१४॥हरेरंशौ स्थितौ तत्र नरनारायणावृषी ।
पूर्णं वर्षसहस्रं तु चक्राते तप उत्तमम्
॥१५॥तापितं च जगत्सर्वं तपसा सचराचरम् ।
नरनारायणाभ्यां च शक्रः क्षोभं तदा ययौ
॥१६॥चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् ।
किं कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ
॥१७॥सिद्धार्थां सुभृशं श्रेष्ठमासनं मे ग्रहीष्यतः ।
विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि
॥१८॥उत्पाद्य कामं क्रोधञ्च लोभं वाप्यतिदारुणम् ।
इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम्
॥१९॥विघ्नकामस्तु तरसा जगाम गन्धमादनम् ।
गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः
॥२०॥तपसा दीप्तदेहौ तु भास्कराविव चोदितौ ।
ब्रह्मविष्णू किमेतौ वै प्रकटौ वा विभावसू
॥२१॥धर्मपुत्रावृषी एतौ तपसा किं करिष्यतः ।
इति सञ्चिन्त्य तौ दृष्ट्वा तदोवाच शचीपतिः
॥२२॥किं वा कार्यं महाभागौ ब्रूतं धर्मसुतौ किल ।
ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी
॥२३॥अदेयमपि दास्यामि तुष्टोऽस्मि तपसा किल ।
व्यास उवाच ।
एवं पुनः पुनः शक्रस्तावुवाच पुरः स्थितः
॥२४॥नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ ।
ततो वै मोहिनीं मायां चकार भयदां वृषः
॥२५॥वृकान्सिंहांश्च व्याघ्रांश्च समुत्पाद्याबिभीषयत् ।
वर्षं वातं तथा वह्निं समुत्पाद्य पुनः पुनः
॥२६॥भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम् ।
भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी
॥२७॥नरनारायणौ दृष्ट्वा शक्रः स्वभवनं गतः ।
वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः
॥२८॥व्याघ्रसिंहादिभिः कान्तौ चलितौ नाश्रमात्स्वकात् ।
न तयोर्ध्यानभङ्गं वै कर्तुं कोऽपि क्षमोऽभवत्
॥२९॥इन्द्रोऽपि सदनं गत्वा चिन्तयामास दुःखितः ।
चलितौ भयलोभाभ्यां नेमौ मुनिवरोत्तमौ
॥३०॥चिन्तयन्तौ महाविद्यामादिशक्तिं सनातनीम् ।
ईश्वरीं सर्वलोकानां परां प्रकृतिमद्भुताम्
॥३१॥ध्यायतां कः क्षमो लोके बहुमायाविदप्युत ।
यन्मूलाः सकला माया देवासुरकृताः किल
॥३२॥ते कथं बाधितुं शक्ता ध्यायन्ति गतकल्मषाः ।
वाग्बीजं कामबीजञ्च मायाबीजं तथैव च
॥३३॥चित्ते यस्य भवेत्तं तु बाधितुं कोऽपि न क्षमः ।
मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम्
॥३४॥कर्तुं कामवसन्तौ तु समाहूयाब्रवीद्वचः ।
मनोभव वसन्तेन रत्या युक्तो व्रजाधुना
॥३५॥अप्सरोभिः समायुक्तस्तरसा गन्धमादनम् ।
नरनारायणौ तत्र पुराणावृषिसत्तमौ
॥३६॥कुरुतस्तप एकान्ते स्थितौ बदरिकाश्रमे ।
गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणैः
॥३७॥चित्तं कामातुरं कार्यं कुरु कार्यं ममाधुना ।
मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च
॥३८॥वशीकुरु महाभाग मुनी धर्मसुतावपि ।
को ह्यस्मिन् सर्वसंसारे देवो दैत्योऽथ मानवः
॥३९॥यस्ते बाणवशं प्राप्तो न याति भृशताडितः ।
ब्रह्माहं गिरिजानाथश्चन्द्रो वह्निर्विमोहितः
॥४०॥गणना कानयोः काम त्वद्बाणानां पराक्रमे ।
वाराङ्गनागणोऽयं ते सहायार्थं मयेरितः
॥४१॥आगमिष्यति तत्रैव रम्भादीनां मनोरमः ।
एका तिलोत्तमा रम्भा कार्यं साधयितुं क्षमा
॥४२॥त्वमेवैकः क्षमः कामं मिलितैः कस्तु संशयः ।
कुरु कार्यं महाभाग ददामि तव वाच्छितम्
॥४३॥प्रलोभितौ मयात्यर्थं वरदानैस्तपस्विनौ ।
स्थानान्न चलितौ शान्तौ वृथायं मे गतः श्रमः
॥४४॥तथा वै मायया कृत्वा भीषितौ तापसौ भृशम् ।
तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ
॥४५॥व्यास उवाच
इति तस्य वचः श्रुत्वा शक्रं प्राह मनोभवः ।
वासवाद्य करिष्यामि कार्यं ते मनसेप्सितम्
॥४६॥यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् ।
ध्यायन्तौ तौ तदास्माकं भवितारौ वशौ मुनी
॥४७॥देवीभक्तं वशीकर्तुं नाहं शक्तः कथञ्चन ।
कामराज महाबीजं चिन्तयन्तं मनस्यलम्
॥४८॥तां देवीं चेन्महाशक्तिं संश्रितौ भक्तिभावतः ।
न तदा मम बाणानां गोचरौ तापसौ किल
॥४९॥इन्द्र उवाच
गच्छ त्वं च महाभाग सर्वैस्तत्र समुद्यतैः ।
कार्यं ममातिदुःसाध्यं कर्ता हितमनुत्तमम्
॥५०॥व्यास उवाच
इति तेन समादिष्टा ययुः सर्वे समुद्यताः ।
यत्र तौ धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः
॥५१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां ॥ चतुर्थस्कन्धे नरनारायणकथावर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥