मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय ९

3
चतुर्थस्कन्धः · 9

प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनम्

व्यास उवाच

कुर्वंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः ।

न्यग्रोधं सुमहच्छायमपश्यत्पुरतस्तदा

॥१॥

ददर्श बाणानपरान्नानाजातीयकांस्तदा ।

गृध्रपक्षयुतांस्तीव्राच्छिलाधौतान्महोज्वलान्

॥२॥

चिन्तयामास मनसा कस्येमे विशिखास्त्विह ।

ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने

॥३॥

एवं चिन्तयतानेन कृष्णाजिनधरौ मुनी ।

समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा

॥४॥

तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते ।

शार्ङ्गमाजगवञ्चैव तथाक्षय्यौ महेषुधी

॥५॥

ध्यानस्थौ तौ महाभागौ नरनारायणावृषी ।

दृष्ट्वा धर्मसुतौ तत्र दैत्यानामधिपस्तदा

॥६॥

क्रोधरक्तेक्षणस्तौ तु प्रोवाचासुरपालकः ।

किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः

॥७॥

न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि ।

तपसश्चरणं तीव्रं तथा चापस्य धारणम्

॥८॥

विरोधोऽयं युगे चाद्ये कथं युक्तं कलिप्रियम् ।

ब्राह्मणस्य तपो युक्तं तत्र किं चापधारणम्

॥९॥

क्व जटाधारणं देहे क्वेषुधी च विडम्बनौ ।

धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः

॥१०॥

व्यास उवाच

इति तस्य वचः श्रुत्वा नरः प्रोवाच भारत ।

का ते चिन्तात्र दैत्येन्द्र वृथा तपसि चावयोः

॥११॥

सामर्थ्ये सति यत्कुर्यात्तत्संपद्येत तस्य हि ।

आवां कार्यद्वये मन्द समर्थौ लोकविश्रुतौ

॥१२॥

युद्धे तपसि सामर्थ्यं त्वं पुनः किं करिष्यसि ।

गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे

॥१३॥

ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः ।

विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः

॥१४॥

प्रह्लाद उवाच

तापसौ मन्दबुद्धी स्थो मृषा वां गर्वमोहितौ ।

मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके

॥१५॥

न युक्तमेतत्तीर्थेऽस्मिन्नधर्माचरणं पुनः ।

का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन

॥१६॥

व्यास उवाच

तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह ।

युद्धस्वाद्य मया सार्धं यदि ते मतिरीदृशी

॥१७॥

अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम ।

( युद्धे श्रद्धा न ते पश्चाद्भविष्यति कदाचन ।

) ।

व्यास उवाच ।

तन्निशम्य वचस्तस्य दैत्येन्द्रः कुपितस्तदा

॥१८॥

प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः ।

येन केनाप्युपायेन जेष्यामि तावुभावपि

॥१९॥

नरनारायणौ दान्तावृषी तपिसमन्वितौ ।

व्यास उवाच ।

इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम्

॥२०॥

आकृष्य तरसा चापं ज्याशब्दञ्च चकार ह ।

नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान्

॥२१॥

मुमोच बहुशः कोधात्प्रह्लादोपरि पार्थिव

॥२२॥

तान्दैत्यराजस्तपनीयपुङ्खै- श्चिच्छेद बाणैस्तरसा समेत्य ।

समीक्ष्य छिन्नांश्च नरः स्वसृष्टा- नन्यान्मुमोचाशु रुषान्वितो वै

॥२३॥

दैत्याथिपस्तानपि तीव्रवेगै- श्छित्त्वा जघानोरसि तं मुनीन्द्रम् ।

नरोऽपि तं पञ्चभिराशुगैश्च कुद्धोऽहनद्दैत्यपतिं बाहुदेशे

॥२४॥

सेन्द्राः सुरास्तत्र तयोर्हि युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च ।

नरस्य वीर्यं युधि संस्थितस्य ते तुष्टुवुर्दैत्यपतेश्च भूयः

॥२५॥

ववर्ष दैत्याधिप आत्तचापः शिलीमुखानम्बुधरो यथापः ।

आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुङ्खान्

॥२६॥

बभूव युद्धं तुमुलं तयोस्तु जयैषिणोः पार्थिव देवदैत्ययोः ।

ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः

॥२७॥

चुकोप दैत्याधिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान् ।

चिच्छेद तान्धर्मसुतः सुतीक्ष्णै- र्धनुर्विमुक्तैर्विशिखैस्तदाऽऽशु

॥२८॥

ततो नारायणं बाणैः प्रह्लादश्चातिकर्षितैः ।

ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् ।

नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः

॥२९॥

तुतोदातीव पुरतो दैत्यानामधिपं स्थितम् ।

सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह

॥३०॥

देवानां दानवानाञ्च कुर्वतां जयघोषणम् ।

उभयोः शरवर्षेण छादिते गगने तदा

॥३१॥

दिवापि रात्रिसदृशं बभूव तिमिरं महत् ।

ऊचुः परस्परं देवा दैत्याश्चातीव विस्मिताः

॥३२॥

अदृष्टपूर्वं युद्धं वै वर्ततेऽद्य सुदारुणम् ।

देवर्षयोऽथ गन्धर्वा यक्षकिन्नरपन्नगाः

॥३३॥

विद्याधराश्चारणाश्च विस्मयं परमं ययुः ।

नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी

॥३४॥

नारदः पर्वतं प्राह नेदृशं चाभवत्पुरा ।

तारकासुरयुद्धञ्च तथा वृत्रासुरस्य च

॥३५॥

मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम् ।

प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च

॥३६॥

करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा ।

व्यास उवाच ।

दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः

॥३७॥

चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ ।

नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम्

॥३८॥

तरसैकेन बाणेन स चान्यद्धनुराददे ।

नारायणस्तु तरसा मुक्त्वान्यञ्च शिलीमुखम्

॥३९॥

तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः ।

छिन्नं छिन्नं पुनर्दैत्यो धनुरन्यत्समाददे

॥४०॥

नारायणस्तु चिच्छेद विशिखैराशु कोपितः ।

छिन्ने धनुषि दैत्येन्द्रः परिघं तु समाददे

॥४१॥

जघान धर्मजं तूर्णं बाह्वोर्मध्येऽतिकोपनः ।

तमायान्तं स बलवान्मार्गणैर्नवभिर्मुनिः

॥४२॥

चिच्छेद परिघं घोरं दशभिस्तमताडयत् ।

गदामादाय दैत्येन्द्रः सर्वायसमयीं दृढाम्

॥४३॥

जानुदेशे जघानाशु देवं नारायणं रुषा ।

गदया चापि गिरिवत्संस्थितः स्थिरमानसः

॥४४॥

धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान् ।

गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम्

॥४५॥

विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः ।

स तु शक्तिं समादाय प्रह्लादः परवीरहा

॥४६॥

चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि ।

तामापतन्तीं संवीक्ष्य बाणेनैकेन लीलया

॥४७॥

सप्तधा कृतवानाशु सप्तभिस्तं जघान ह ।

दिव्यवर्षशतं चैव तद्युद्धं परमं तयोः

॥४८॥

जातं विस्मयदं राजन् सर्वेषां तत्र चाश्रमे ।

तदाऽऽजगाम तरसा पीतवासाश्चतुर्भुजः

॥४९॥

प्रह्लादस्याश्रमं तत्र जगाम च गदाधरः ।

चतुर्भुजो रमाकान्तो रथाङ्गदरपद्मभृत्

॥५०॥

दृष्ट्वा तमागतं तत्र हिरण्यकशिपोः सुतः ।

प्रणम्य परया भक्त्या प्राञ्जलिः प्रत्युवाच ह

॥५१॥

प्रह्लाद उवाच

देवदेव जगनाथ भक्तवत्सल माधव ।

कथं न जितवानाजावहमेतौ तपस्विनौ ।

संग्रामस्तु मया देव कृतः पूर्णं शतं समाः

॥५२॥

सुराणां न जितौ कस्मादिति मे विस्मयो महान् ।

विष्णुरुवाच ।

सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष

॥५३॥

तापसौ न जितात्मानौ नरनारायणौ जितौ ।

गच्छ त्वं वितलं राजन् कुरु भक्तिं ममाचलाम्

॥५४॥

नाभ्यां कुरु विरोधं त्वं तापसाभ्यां महामते ।

व्यास उवाच ।

इत्याज्ञप्तो दैत्यराजो निर्ययावसुरैः सह

॥५५॥

नरनारायणौ भूयस्तपोयुक्तौ बभूवतुः

॥५६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे प्रह्लादनारायणयोर्युद्धे विष्णोरागमनवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥