शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनम्
राजोवाच
किं कृतं गुरुणा पश्चाद्भृगुरूपेण वर्तता ।
छलेनैव हि दैत्यानां पौरोहित्येन धीमता
॥१॥गुरुः सुराणामनिशं सर्वविद्यानिधिस्तथा ।
सुतोऽङ्गिरस एवासौ स कथं छलकृन्मुनिः
॥२॥धर्मशास्त्रेषु सर्वेषु सत्यं धर्मस्य कारणम् ।
कथितं मुनिभिर्येन परमात्मापि लभ्यते
॥३॥वाचस्पतिस्तथा मिथ्यावक्ता चेद्दानवान्प्रति ।
कः सत्यवक्ता संसारे भविष्यति गृहाश्रमी
॥४॥आहारादधिकं भोज्यं ज्रह्माण्डविभवेऽपि न ।
तदर्थं मुनयो मिथ्या प्रवर्तन्ते कथं मुने
॥५॥शब्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम् ।
छलकर्मप्रवृत्ते वाविगीतत्वं गुरौ कथम्
॥६॥देवाः सत्त्वसमुद्भूता राजसा मानवाः स्मृताः ।
तिर्यञ्चस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल
॥७॥अमराणां गुरुः साक्षान्मिथ्यावादी स्वयं यदि ।
तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः
॥८॥क्व स्थितिस्तस्य धर्मस्य सन्देहोऽयं ममात्मनः ।
का गतिः सर्वजन्तूनां मिथ्याभूते जगत्त्रये
॥९॥हरिर्ब्रह्मा शचीकान्तस्तथान्ये सुरसत्तमाः ।
सर्वे छलविधौ दक्षा मनुष्याणाञ्च का कथा
॥१०॥कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः ।
छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः
॥११॥वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा ।
एते पापरताः कात्र गतिर्धर्मस्य मानद
॥१२॥इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः ।
आर्यत्वं भुवनेष्वेषु स्थितं कुत्र मुने वद
॥१३॥वचनं कस्य मन्तव्यमुपदेशधियानघ ।
सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तदा
॥१४॥व्यास उवाच
किं विष्णुः किं शिवो ब्रह्मा मघवा किं बृहस्पतिः ।
देहवान् प्रभवत्येव विकारैः संयुतस्तदा
॥१५॥रागी विष्णुः शिवो रागी ब्रह्मापि रागसंयुतः ।
(रागवान्किमकृत्यं वै न करोति नराधिप) ।
रागवानपि चातुर्याद्विदेह इव लक्ष्यते
॥१६॥सम्प्राप्ते संकटे सोऽपि गुणैः सम्बाध्यते किल ।
कारणाद्रहितं कार्यं कथं भवितुमर्हति
॥१७॥ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम् ।
पञ्चविंशत्समुद्भूता देहास्तेषां न चान्यथा
॥१८॥काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप ।
परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च
॥१९॥विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते ।
कामः क्रोधस्तथा लोभद्रोहाहङ्कारमत्सराः
॥२०॥देहवान्कः परित्यक्तुमीशो भवति तान्पुनः ।
संसारोऽयं महाराज सदैवैवंविधः स्मृतः
॥२१॥नान्यथा प्रभवत्येव शुभाशुभमयः किल ।
कदाचिद्भगवान्विष्णुस्तपश्चरति दारुणम्
॥२२॥कदाचिद्विविधान्यज्ञान्वितनोति सुराधिपः ।
कदाचित्तु रमारङ्गरञ्जितः परमेश्वरः
॥२३॥रमते किल वैकुण्ठे तद्वशस्तरुणो विभुः ।
कदाचिद्दानवैः सार्धं युद्धं परमदारुणम्
॥२४॥करोति करुणासिन्धुस्तद्बाणापीडितो भृशम् ।
कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम्
॥२५॥सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः ।
शेषे शेते कदाचिद्वै योगनिद्रासमावृतः
॥२६॥काले जागर्ति विश्वात्मा स्वभावप्रतिबोधितः ।
शर्वो ब्रह्मा हरिश्चेति इन्द्राद्या ये सुरास्तथा
॥२७॥मुनयश्च विनिर्माणैः स्वायुषो विचरन्ति हि ।
निशावसाने सञ्जाते जगत्स्थावरजङ्गमम्
॥२८॥म्रियते नात्र सन्देहो नृप किञ्चित्कदापि च ।
स्वायुषोऽन्ते पद्यजाद्याः क्षयमृच्छन्ति पार्थिव
॥२९॥प्रभवन्ति पुनर्विष्णुहरशक्रादयः सुराः ।
तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते
॥३०॥नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव ।
संसारोऽयं तु सन्दिग्धः कामक्रोधादिभिर्नृप
॥३१॥दुर्लभस्तद्विनिर्मुक्तः पुरुषः परमार्थवित् ।
यो बिभेतीह संसारे स दारान्न करोत्यपि
॥३२॥विमुक्तः सर्वसङ्गेभ्यो विचरत्यविशङ्कितः ।
तस्माद्बृहस्पतेर्भार्या शशिना लम्भिता पुनः
॥३३॥गुरूणा लम्भिता भार्या तथा भ्रातुर्यवीयसः ।
एवं संसारचक्रेऽस्मिन् रागलोभादिभिर्वृतः
॥३४॥गार्हस्थ्यञ्च समास्थाय कथं मुक्तो भवेन्नरः ।
तस्मात्सर्वप्रयत्नेन हित्वा संसारसारताम्
॥३५॥आराधयेन्महेशानीं सच्चिदानन्दरूपिणीम् ।
तन्मायागुणतश्छन्नं जगदेतच्चराचरम्
॥३६॥भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्नृप ।
तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च
॥३७॥मुक्तिं भजेत मतिमान्नान्यः पन्थास्त्वितः परः ।
आराधिता महेशानी न यावत्कुरुते कृपाम्
॥३८॥तावद्भवेत्सुखं कस्मात्कोऽन्योऽस्ति दयया युतः ।
करुणासागरामेतां भजेत्तस्मादमायया
॥३९॥यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते ।
मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी
॥४०॥निःश्रेणिकाग्रात्पतिता अध इत्येव विद्महे ।
अहङ्कारावृतं विश्वं गुणत्रयसमन्वितम्
॥४१॥असत्येनापि सम्बद्धं मुच्यते कथमन्यथा ।
हित्वा सर्वं ततः सर्वेः संसेव्या भुवनेश्वरी
॥४२॥राजोवाच
किं कृतं गुरूणा तत्र काव्यरूपधरेण च ।
कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह
॥४३॥व्यास उवाच
शृणु राजन् प्रवक्ष्यामि यत्कृतं गुरुणा तदा ।
कृत्वा काव्यस्वरूपञ्च प्रच्छन्नेन महात्मना
॥४४॥गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् ।
विश्वासं परमं कृत्वा बभूवुस्तन्मयास्तदा
॥४५॥विद्यार्थं शरणं प्राप्ता भृगुं मत्वातिमोहिताः ।
गुरुणा विप्रलब्धास्ते लोभात्को वा न मुह्यति
॥४६॥दशवर्षात्मके काले सम्पूर्णसमये तदा ।
जयन्त्या सह क्रीडित्वा काव्यो याज्यानचिन्तयत्
॥४७॥आशया मम मार्गं ते पश्यन्तः संस्थिताः किल ।
गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान्
॥४८॥मा देवेभ्यो भयं तेषां मद्भक्तानां भवेदिति ।
सञ्चिन्त्य बुद्धिमास्थाय जयन्तीं प्रत्युवाच ह
॥४९॥देवानेवोपसंयान्ति पुत्रा मे चारुलोचने ।
समयस्तेऽद्य सम्पूर्णो जातोऽयं दशवार्षिकः
॥५०॥तस्माद् गच्छाम्यहं देवि द्रष्टुं याज्यान्सुमध्यमे ।
पुनरेवागमिष्यामि तवान्तिकमनुद्रुतः
॥५१॥तथेति तमुवाचाथ जयन्ती धर्मवित्तमा ।
यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये
॥५२॥तच्छ्रुत्वा वचनं काव्यो जगाम त्वरितस्ततः ।
अपश्यद्दानवानां च पार्श्वे वाचस्पतिं तदा
॥५३॥छद्मरूपधरं सौम्यं बोधयन्तं छलेन तान् ।
जैनं धर्मं कृतं स्वेन यज्ञनिन्दापरं तथा
॥५४॥भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् ।
अहिंसा परमो धर्मोऽहन्तव्या ह्याततायिनः
॥५५॥द्विजैर्भोगरतैर्वेदे दर्शितं हिंसनं पशोः ।
जिह्वास्वादपरैः काममहिंसैव परा मता
॥५६॥एवंविधानि वाक्यानि वेदशास्त्रपराणि च ।
ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः
॥५७॥चिन्तयामास मनसा मम द्वेष्यो गुरुः किल ।
वञ्चिताः किल धूर्तेन याज्या मे नात्र संशयः
॥५८॥धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम् ।
गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना
॥५९॥प्रमाणं वचनं यस्य सोऽपि पाखण्डधारकः ।
गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः
॥६०॥किं किं न लभते लोभान्मलिनीकृतमानसः ।
अन्योऽपि गुरुरप्येवं जातः पाखण्डपण्डितः
॥६१॥शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः ।
वञ्जयत्यतिसम्मूढान्दैत्यान्याज्यान्ममाप्यसौ
॥६२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे शुक्ररूपेण गुरुणा दैत्यवञ्चनावर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥