मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय २२

3
चतुर्थस्कन्धः · 22

देवदानवानामंशावतरणवर्णनम्

जनमेजय उवाच

किं कृतं पातकं तेन बालकेन पितामह ।

यज्जातमात्रो निहतस्तथा तेन दुरात्मना

॥१॥

नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः ।

कथमेवंविधं पापं कृतवान्ब्रह्मवित्तमः

॥२॥

कर्ता कारयिता पापे तुल्यपापौ स्मृतौ बुधैः ।

स कथं प्रेरयामास मुनिः कंसं खलं तदा

॥३॥

संशयोऽयं महान्मेऽत्र ब्रूहि सर्वं सविस्तरम् ।

येन कर्मविपाकेन बालको निधनं गतः

॥४॥

व्यास उवाच

नारदः कौतुकप्रेक्षी सर्वदा कलहप्रियः ।

देवकार्यार्थमागत्य सर्वमेतच्चकार ह

॥५॥

न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन ।

सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः

॥६॥

एवं षड् बालकास्तेन जाता जाता निपातिताः ।

षड् गर्भाः शापयोगेन सम्भूय मरणं गताः

॥७॥

शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् ।

स्वायम्भुवेऽन्तरे पुत्रा मरीचेः षण्महाबलाः

॥८॥

ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः ।

ब्रह्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम्

॥९॥

शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशन्त्वधः ।

कालनेमिसुता जातास्ते षड्गर्भा विशाम्पते

॥१०॥

अवतारे परे ते तु हिरण्यकशिपोः सुताः ।

जातास्ते ज्ञानसंयुक्ताः पूर्वशापभयान्नृप

॥११॥

तस्मिञ्जन्मनि शान्ताश्च तपश्चक्रुः समाहिताः ।

तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरान्ददौ

॥१२॥

ब्रह्मोवाच

शप्ता यूयं मया पूर्वं क्रोधयुक्तेन पुत्रकाः ।

तुष्टोऽस्मि वो महाभागा ब्रुवन्तु वाञ्छितं वरम्

॥१३॥

व्यास उवाच

ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः ।

ब्रह्माणमब्रुवन्कामं सर्वे कार्यार्थतत्पराः

॥१४॥

गर्भा ऊचुः

पितामहाद्य तुष्टोऽसि देहि नो वाञ्छितं वरम् ।

अवध्या दैवतैः सर्वैर्मानवैश्च महोरगैः

॥१५॥

गन्धर्वसिद्धपतिभिर्वधो माभूत्पितामह ।

व्यास उवाच ।

तानुवाच ततो ब्रह्मा सर्वमेतद्भविष्यति

॥१६॥

गच्छन्तु वो महाभागाः सत्यमेव न संशयः ।

दत्त्वा वरं गतो ब्रह्मा मुदितास्ते तदाभवन्

॥१७॥

हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह ।

यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः

॥१८॥

वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् ।

युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम्

॥१९॥

यूयं व्रजन्तु पाताले षड्गर्भा विश्रुता भुवि ।

पाताले निद्रयाविष्टास्तिष्ठन्तु बहुवत्सरान्

॥२०॥

ततस्तु देवकीगर्भे वर्षे वर्षे पुनः पुनः ।

पिता वः कालनेमिस्तु तत्र कंसो भविष्यति

॥२१॥

स एव जातमात्रान्वो वधिष्यति सुदारुणः ।

व्यास उवाच ।

एवं शप्तांस्तदा तेन गर्भे जातान्पुनः पुनः

॥२२॥

जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः ।

शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः

॥२३॥

विस्रंसितश्च गर्भोऽसौ योगेन योगमायया ।

नीतश्च रोहिणीगर्भे कृत्वा संकर्षणं बलात्

॥२४॥

पतितः पञ्चमे मासि लोकख्यातिं गतस्तदा ।

कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम्

॥२५॥

मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् ।

अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः

॥२६॥

उवास देवकार्यार्थं भारावतरणाय च ।

राजोवाच ।

वसुदेवः कश्यपांशः शेषांशश्च तदाभवत्

॥२७॥

हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम ।

अन्ये च येंऽशा देवानां तत्र जातास्तु तान्वद

॥२८॥

व्यास उवाच

सुराणामसुराणां च ये येंऽशा भुवि विश्रुताः

॥२९॥

तानहं सम्प्रवक्ष्यामि संक्षेपेण शृणुष्व तान् ।

वसुदेवः कश्यपांशो देवकी च तथादितिः

॥३०॥

बलदेवस्त्वनन्तांशो वर्तमानेषु तेषु च ।

योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः

॥३१॥

तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा ।

नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च

॥३२॥

युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत ।

अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ

॥३३॥

सूर्यांशः कर्ण आख्यातो धर्माशो विदुरः स्मृतः ।

द्रोणो बृहस्पतेरंशस्तत्सतस्तु शिवांशजः

॥३४॥

समुद्रः शन्तनुः प्रोक्तो गङ्गा भार्या मता बुधैः ।

देवकस्तु समाख्यातो गन्धर्वपतिरागमे

॥३५॥

वसुर्भीष्मो विराटस्तु मरुद्गण इति स्मृतः ।

अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः

॥३६॥

मरुद्गणः कृपः प्रोक्तः कृतवर्मा तथापरः ।

दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम्

॥३७॥

सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः ।

पावकांशो धृष्टद्युम्नः शिखण्डी राक्षसस्तथा

॥३८॥

सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः ।

द्रुपदो वरुणस्यांशो द्रौपदी च रमांशजा

॥३९॥

द्रौपदीतनयाः पञ्च विश्वेदेवांशजाः स्मृताः ।

कुन्तिः सिद्धिर्धृतिर्माद्री मतिर्गान्धारराजजा

॥४०॥

कृष्णपत्न्यस्तथा सर्वा देववाराङ्गनाः स्मृताः ।

राजानश्च तथा सर्वे असुराः शक्रनोदिताः

॥४१॥

हिरण्यकशिपोरंशः शिशुपाल उदाहृतः ।

विप्रचित्तिर्जरासन्धः शल्यः प्रह्लाद इत्यपि

॥४२॥

कालनेमिस्तथा कंसः केशी हयशिरास्तथा ।

अरिष्टो बलिपुत्रस्तु ककुद्मी गोकुले हतः

॥४३॥

अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः ।

लम्बः प्रलम्बः सञ्जातः खरोऽसौ धेनुकोऽभवत्

॥४४॥

वाराहश्च किशोरश्च दैत्यौ परमदारुणौ ।

मल्लौ तावेव सञ्जातौ ख्यातौ चाणूरमुष्टिकौ

॥४५॥

दितिपुत्रस्तथारिष्टो गजः कुवलयाभिधः ।

बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः

॥४६॥

यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः ।

तेषामंशैस्तु सञ्जातो द्रोणपुत्रो महाबलः

॥४७॥

अंशावतरणे पूर्वं दैतेया राक्षसास्तथा ।

जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे

॥४८॥

एतेषां कथितं राजन्नंशावतरणं नृप ।

सुराणां चासुराणां च पुराणेषु प्रकीर्तितम्

॥४९॥

यदा ब्रह्मादयो देवाः प्रार्थनार्थं हरिं गताः ।

हरिणा च तदा दत्तौ केशौ खलु सितासितौ

॥५०॥

श्यामवर्णस्ततः कृष्णः श्वेतः सङ्कर्षणस्तथा ।

भारावतारणार्थं तौ जातौ देवांशसम्भवौ

॥५१॥

अंशावतरणं चैतच्छृणोति भक्तिभावतः ।

सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः

॥५२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवदानवानामंशावतरणवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥