मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १६

3
चतुर्थस्कन्धः · 16

हरेर्नानावतारवर्णनम्

जनमेजय उवाच

भृगुशापान्मुनिश्रेष्ठ हरेरद्भुतकर्मणः ।

अवताराः कथं जाताः कस्मिन्मन्वन्तरे विभो

॥१॥

विस्तराद्वद धर्मज्ञ अवतारकथा हरेः ।

पापनाशकरीं ब्रह्मञ्छ्रुतां सर्वसुखावहाम्

॥२॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि अवतारान् हरेर्यथा ।

यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप

॥३॥

येन रूपेण यत्कार्यं कृतं नारायणेन वै ।

तत्सर्वं नृप वक्ष्यामि संक्षेपेण तवाधुना

॥४॥

धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसम्भवे ।

नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले

॥५॥

अथ वैवस्वताख्येऽस्मिन्द्वितीये तु युगे पुनः ।

दत्तात्रेयावतारोऽत्रेः पुत्रत्वमगमद्धरिः

॥६॥

ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः ।

पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः

॥७॥

अनसूयात्रिपत्नी च सतीनामुत्तमा सती ।

यया सम्प्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः

॥८॥

ब्रह्माभूत्सोमरूपस्तु दत्तात्रेयो हरिः स्वयम् ।

दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे

॥९॥

नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये ।

चतुर्थे तु युगे जातो द्विधारूपो मनोहरः

॥१०॥

हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः ।

चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम्

॥११॥

बलेर्नियमनार्थाय श्रेष्ठे त्रेतायुगे तथा ।

चकार रूपं भगवान् वामनं कश्यपान्मुनेः

॥१२॥

छलयित्वा मखे भूपं राज्यं तस्य जहार ह ।

पाताले स्थापयामास बलिं वामनरूपधृक्

॥१३॥

युगे चैकोनविंशेऽथ त्रेताख्ये भगवान् हरिः ।

जमदग्निसुतो जातो रामो नाम महाबलः

॥१४॥

क्षत्रियान्तकरः श्रीमान्सत्यवादी जितेन्द्रियः ।

दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने

॥१५॥

यो वै परशुरामाख्यो हरेरद्भुतकर्मणः ।

अवतारस्तु राजेन्द्र कथितः पापनाशनः

॥१६॥

त्रेतायुगे रघोर्वंशे रामो दशरथात्मजः ।

नरनारायणांशौ द्वौ जातौ भुवि महाबलौ

॥१७॥

अष्टाविंशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ ।

धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि

॥१८॥

कृतवन्तौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् ।

एवं युगे युगे राजन्नवतारा हरेः किल

॥१९॥

भवन्ति बहवः कामं प्रकृतेरनुरूपतः ।

प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम्

॥२०॥

यथेच्छति तथैवेयं भ्रामयत्यनिशं जगत् ।

पुरुषस्य प्रियार्थं सा रचयत्यखिलं जगत्

॥२१॥

सृष्ट्वा पुरा हि भगवाञ्जगदेतच्चराचरम् ।

सर्वादिः सर्वगश्चासौ दुर्ज्ञेयः परमोऽव्ययः

॥२२॥

निरालम्बो निराकारो निःस्पृहश्च परात्परः ।

उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा

॥२३॥

उत्पत्तिकालयोगात्सा भिन्ना भाति शिवा तदा ।

सा विश्वं कुरुते कामं सा पालयति कामदा

॥२४॥

कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी ।

तया युक्तोऽसृज द्ब्रह्मा विष्णुः पाति तयान्वितः

॥२५॥

रुद्रः संहरते कामं तया सम्मिलितः शिवः ।

सा चैवोत्पाद्य काकुत्स्थं पुरा वै नृपसत्तमम्

॥२६॥

कुत्रचित्स्थापयामास दानवानां जयाय च ।

एवमस्मिंश्च संसारे सुखदुःखान्विताः किल

॥२७॥

भवन्ति प्राणिनः सर्वे विधितन्त्रनियन्त्रिताः

॥२८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे हरेर्नानावतारवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥